१३ पञ्चाक्षरमाहात्म्यवर्णनम्

देव्युवाच
कलौ कलुषिते काले दुर्जये दुरतिक्रमे ॥ ॥२,१३।१अब्।
अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥ ॥२,१३।१च्द्।
क्षीणे वर्णाश्रमाचारे सङ्कटे समुपस्थिते ॥ ॥२,१३।२अब्।
सर्वाधिकारे सन्दिग्धे निश्चिते वापि पर्यये ॥ ॥२,१३।२च्द्।
तदोपदेशे विहते गुरुशिष्यक्रमे गते ॥ ॥२,१३।३अब्।
केनोपायेन मुच्यन्ते भक्तास्तव महेश्वर ॥ ॥२,१३।३च्द्।
ईश्वर उवाच
आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम ॥ ॥२,१३।४अब्।
भक्त्या च भावितात्मानो मुच्यन्ते कलिजा नराः ॥ ॥२,१३।४च्द्।
मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः ॥ ॥२,१३।५अब्।
दूषितानां कृतघ्नानां निन्दकानां छलात्मनाम् ॥ ॥२,१३।५च्द्।
लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् ॥ ॥२,१३।६अब्।
मम पञ्चाक्षरी विद्या संसारभयतारिणी ॥ ॥२,१३।६च्द्।
मयैवमसकृद्देवि प्रतिज्ञातं धरातले ॥ ॥२,१३।७अब्।
पतितो ऽपि विमुच्येत मद्भक्तो विद्ययानया ॥ ॥२,१३।७च्द्।
देव्युवाच
कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा ॥ ॥२,१३।८अब्।
कर्मायोगेन यत्कर्म कृतं च नरकाय हि ॥ ॥२,१३।८च्द्।
ततः कथं विमुच्येत पतितो विद्यया ऽनया ॥ ॥२,१३।८एफ़्।
ईश्वर उवाच
तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि ॥ ॥२,१३।९अब्।
रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा ॥ ॥२,१३।९च्द्।
समन्त्रकं मां पतितः पूजयेद्यदि मोहितः ॥ ॥२,१३।१०अब्।
नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विना ॥ ॥२,१३।१०च्द्।
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ ॥२,१३।११अब्।
तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः ॥ ॥२,१३।११च्द्।
भक्त्या पञ्चाक्षरेणैव यो हि मां सकृदर्चयेत् ॥ ॥२,१३।१२अब्।
सो ऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात् ॥ ॥२,१३।१२च्द्।
तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा ॥ ॥२,१३।१३अब्।
पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समः ॥ ॥२,१३।१३च्द्।
बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण यः ॥ ॥२,१३।१४अब्।
पूजयेन्मां स मुच्येत नात्र कार्या विचारणा ॥ ॥२,१३।१४च्द्।
अरुद्रो वा सरुद्रो वा सकृत्पञ्चाक्षरेण यः ॥ ॥२,१३।१५अब्।
पूजयेत्पतितो वापि मूढो वा मुच्यते नरः ॥ ॥२,१३।१५च्द्।
षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा ॥ ॥२,१३।१६अब्।
स ब्रह्माङ्गेन मां भक्त्या पूजयेद्यदि मुच्यते ॥ ॥२,१३।१६च्द्।
पतितो ऽपतितो वापि मन्त्रेणानेन पूजयेत् ॥ ॥२,१३।१७अब्।
मम भक्तो जितक्रोधो सलब्धो ऽलब्ध एव वा ॥ ॥२,१३।१७च्द्।
अलब्धालब्ध एवेह कोटिकोटिगुणाधिकः ॥ ॥२,१३।१८अब्।
तस्माल्लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत् ॥ ॥२,१३।१८च्द्।
लब्ध्वा सम्पूजयेद्यस्तु मैत्र्यादिगुणसंयुतः ॥ ॥२,१३।१९अब्।
ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात् ॥ ॥२,१३।१९च्द्।
५५८ब्

किमत्र बहुनोक्तेन भक्तास्सर्वेधिकारिणः ॥ ॥२,१३।२०अब्।
मम पञ्चाक्षरे मन्त्रे तस्माच्छ्रेष्ठतरो हि सः ॥ ॥२,१३।२०च्द्।
पञ्चाक्षरप्रभावेण लोकवेदमहर्षयः ॥ ॥२,१३।२१अब्।
तिष्ठन्ति शाश्वता धर्मा देवास्सर्वमिदं जगत् ॥ ॥२,१३।२१च्द्।
प्रलये समनुप्राप्ते नष्टे स्थावरजङ्गमे ॥ ॥२,१३।२२अब्।
सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति ॥ ॥२,१३।२२च्द्।
एको ऽहं संस्थितो देवि न द्वितीयो ऽस्ति कुत्रचित् ॥ ॥२,१३।२३अब्।
तदा वेदाश्च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः ॥ ॥२,१३।२३च्द्।
ते नाशं नैव सम्प्राप्ता मच्छक्त्या ह्यनुपालिताः ॥ ॥२,१३।२४अब्।
ततस्सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः ॥ ॥२,१३।२४च्द्।
गुणमूर्त्यात्मनां चैव ततोवान्तरसंहृतिः ॥ ॥२,१३।२५अब्।
तदा नारायणश्शेते देवो मायामयीं तनुम् ॥ ॥२,१३।२५च्द्।
आस्थाय भोगिपर्यङ्कशयने तोयमध्यगः ॥ ॥२,१३।२६अब्।
तन्नाभिपङ्कजाज्जातः पञ्चवक्त्रः पितामहः ॥ ॥२,१३।२६च्द्।
सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् ॥ ॥२,१३।२७अब्।
मुनीन्दश ससर्जादौ मानसानमितौजसः ॥ ॥२,१३।२७च्द्।
तेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः ॥ ॥२,१३।२८अब्।
मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥ ॥२,१३।२८च्द्।
इत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् ॥ ॥२,१३।२९अब्।
पञ्चाक्षराणि क्रमशः प्रोक्तवान्पद्मयोनये ॥ ॥२,१३।२९च्द्।
स पञ्चवदनैस्तानि गृह्णंल्लोकपितामहः ॥ ॥२,१३।३०अब्।
वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम् ॥ ॥२,१३।३०च्द्।
ज्ञात्वा प्रयोगं विविधं सिद्धमन्त्रः प्रजापतिः ॥ ॥२,१३।३१अब्।
पुत्रेभ्यः प्रददौ मन्त्रं मन्त्रार्थं च यथातथम् ॥ ॥२,१३।३१च्द्।
ते च लब्ध्वा मन्त्ररत्नं साक्षाल्लोकपितामहात् ॥ ॥२,१३।३२अब्।
तदाज्ञप्तेन मार्गेण मदाराधनकाङ्क्षिणः ॥ ॥२,१३।३२च्द्।
मेरोस्तु शिखरे रम्ये मुञ्जवान्नाम पर्वतः ॥ ॥२,१३।३३अब्।
मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितस्सदा ॥ ॥२,१३।३३च्द्।
तस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः ॥ ॥२,१३।३४अब्।
दिव्यं वर्षसहस्रं तु वायुभक्षास्समाचरन् ॥ ॥२,१३।३४च्द्।
तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ॥ ॥२,१३।३५अब्।
ऋषिं छन्दश्च कीलं च बीजशक्तिं च दैवतम् ॥ ॥२,१३।३५च्द्।
न्यासं षडङ्गं दिग्बन्धं विनियोगमशेषतः ॥ ॥२,१३।३६अब्।
प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये ॥ ॥२,१३।३६च्द्।
ततस्ते मन्त्रमाहात्म्यादृषयस्तपसेधिताः ॥ ॥२,१३।३७अब्।
सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम् ॥ ॥२,१३।३७च्द्।
अस्याः परमविद्यायास्स्वरूपमधुनोच्यते ॥ ॥२,१३।३८अब्।
आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम् ॥ ॥२,१३।३८च्द्।
सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता ॥ ॥२,१३।३९अब्।
सर्वजातस्य सर्वस्य बीजभूता सनातनी ॥ ॥२,१३।३९च्द्।
प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका ॥ ॥२,१३।४०अब्।
तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ॥ ॥२,१३।४०च्द्।
चतुर्भुजा त्रिनयना बालेन्दुकृतशेखरा ॥ ॥२,१३।४१अब्।
पद्मोत्पलकरा सौम्या वरदाभयपाणिका ॥ ॥२,१३।४१च्द्।
सर्वलक्षणसम्पन्ना सर्वाभरणभूषिता ॥ ॥२,१३।४२अब्।
सितपद्मासनासीना नीलकुञ्चितमूर्धजा ॥ ॥२,१३।४२च्द्।
५५९अ
अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमण्डलाः ॥ ॥२,१३।४३अब्।
पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च ॥ ॥२,१३।४३च्द्।
पृथक्प्रयोज्या यद्येते बिन्दुनादविभूषिताः ॥ ॥२,१३।४४अब्।
अर्धचन्द्रनिभो बिन्दुर्नादो दीपशिखाकृतिः ॥ ॥२,१३।४४च्द्।
बीजं द्वितीयं बीजेषु मन्त्रस्यास्य वरानने ॥ ॥२,१३।४५अब्।
दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत् ॥ ॥२,१३।४५च्द्।
वामदेवो नाम ऋषिः पङ्क्तिश्छन्द उदाहृतम् ॥ ॥२,१३।४६अब्।
देवता शिव एवाहं मन्त्रस्यास्य वरानने ॥ ॥२,१३।४६च्द्।
गौतमो ऽत्रिर्वरारोहे विश्वामित्रस्तथाङ्गिराः ॥ ॥२,१३।४७अब्।
भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः ॥ ॥२,१३।४७च्द्।
गायत्र्यनुष्टुप् त्रिष्टुप् च छन्दांसि बृहती विराट् ॥ ॥२,१३।४८अब्।
इन्द्रो रुद्रो हरिर्ब्रह्मा स्कन्दस्तेषां च देवताः ॥ ॥२,१३।४८च्द्।
मम पञ्चमुखान्याहुः स्थाने तेषां वरानने ॥ ॥२,१३।४९अब्।
पूर्वादेश्चोर्ध्वपर्यन्तं नकारादि यथाक्रमम् ॥ ॥२,१३।४९च्द्।
अदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः ॥ ॥२,१३।५०अब्।
पञ्चमः स्वरितश्चैव तृतीयो निहतः स्मृतः ॥ ॥२,१३।५०च्द्।
मूलविद्या शिवं शैवं सूत्रं पञ्चाक्षरं तथा ॥ ॥२,१३।५१अब्।
नामान्यस्य विजानीयाच्छैवं मे हृदयं महत् ॥ ॥२,१३।५१च्द्।
नकारश्शिर उच्येत मकारस्तु शिखोच्यते ॥ ॥२,१३।५२अब्।
शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते ॥ ॥२,१३।५२च्द्।
यकारो ऽस्त्रं नमस्स्वाहा वषट् हुंवौषडित्यपि ॥ ॥२,१३।५३अब्।
फडित्यपि च वर्णानामन्ते ऽङ्गत्वं यदा तदा ॥ ॥२,१३।५३च्द्।
तत्रापि मूलमन्त्रो ऽयं किञ्चिद्भेदसमन्वयात् ॥ ॥२,१३।५४अब्।
तत्रापि पञ्चमो वर्णो द्वादशस्वरभूषितः ॥ ॥२,१३।५४च्द्।
तास्मादनेन मन्त्रेण मनोवाक्कायभेदतः ॥ ॥२,१३।५५अब्।
आवयोरर्चनं कुर्याज्जपहोमादिकं तथा ॥ ॥२,१३।५५च्द्।
यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति ॥ ॥२,१३।५६अब्।
यथाशक्ति यथासम्पद्यथायोगं यथारति ॥ ॥२,१३।५६च्द्।
यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता ॥ ॥२,१३।५७अब्।
येन केनापि वा देवि पूजा मुक्तिं नयिष्यते ॥ ॥२,१३।५७च्द्।
मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि ॥ ॥२,१३।५८अब्।
मत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा ॥ ॥२,१३।५८च्द्।
तथापि मम भक्ता ये नात्यन्तविवशाः पुनः ॥ ॥२,१३।५९अब्।
तेषां सर्वेषु शास्त्रेषु मयेव नियमः कृतः ॥ ॥२,१३।५९च्द्।
तत्रादौ सम्प्रवक्ष्यामि मन्त्रसङ्ग्रहणं शुभम् ॥ ॥२,१३।६०अब्।
यं विना निष्फलं जाप्यं येन वा सफलं भवेत् ॥ ॥२,१३।६०च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम त्रयोदशो ऽध्यायः