१२ पञ्चाक्षरमाहात्म्यवर्णनम्

श्रीकृष्ण उवाच
महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे ॥ ॥२,१२।१अब्।
पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥ ॥२,१२।१च्द्।
उपमन्युरुवाच
पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि ॥ ॥२,१२।२अब्।
अशक्यं विस्तराद्वक्तुं तस्मात्सङ्क्षेपतः शृणु ॥ ॥२,१२।२च्द्।
वेदे शिवागमे चायमुभयत्र षडक्षरेः ॥ ॥२,१२।३अब्।
सर्वेषां शिवभक्तानामशेषार्थसाधकः ॥ ॥२,१२।३च्द्।
तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् ॥ ॥२,१२।४अब्।
आज्ञासिद्धमसन्दिग्धं वाक्यमेतच्छिवात्मकम् ॥ ॥२,१२।४च्द्।
नानासिद्धियुतं दिव्यं लोकचित्तानुरञ्जकम् ॥ ॥२,१२।५अब्।
सुनिश्चितार्थं गम्भीरं वाक्यं तत्पारमेश्वरम् ॥ ॥२,१२।५च्द्।
मन्त्रं सुखमुकोच्चार्यमशेषार्थप्रसिद्धये ॥ ॥२,१२।६अब्।
प्राहोन्नमः शिवायेति सर्वज्ञस्सर्वदेहिनाम् ॥ ॥२,१२।६च्द्।
तद्बीजं सर्वविद्यानां मन्त्रमाद्यं षडक्षरम् ॥ ॥२,१२।७अब्।
अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥ ॥२,१२।७च्द्।
देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ॥ ॥२,१२।८अब्।
ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः ॥ ॥२,१२।८च्द्।
इशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु ॥ ॥२,१२।९अब्।
मन्त्रे नमश्शिवायेति संस्थितानि यथाक्रमम् ॥ ॥२,१२।९च्द्।
मन्त्रे षडक्षरे सूक्ष्मे पञ्चब्रह्मतनुः शिवः ॥ ॥२,१२।९एफ़्।
वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ॥ ॥२,१२।१०अब्।
वाच्यश्शिवोप्रमेयत्वान्मन्त्रस्तद्वाचकस्स्मृतः ॥ ॥२,१२।१०च्द्।
वाच्यवाचकभावो ऽयमनादिसंस्थितस्तयोः ॥ ॥२,१२।११अब्।
यथा ऽनादिप्रवृत्तोयं घोरसंसारसागरः ॥ ॥२,१२।११च्द्।
शिवो ऽपि हि तथानादिसंसारान्मोचकः स्थितः ॥ ॥२,१२।१२अब्।
व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः ॥ ॥२,१२।१२च्द्।
तद्वत्संसारदोषाणां प्रतिपक्षः शिवस्स्मृतः ॥ ॥२,१२।१३अब्।
असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत् ॥ ॥२,१२।१३च्द्।
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च ॥ ॥२,१२।१४अब्।
प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥ ॥२,१२।१४च्द्।
न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ॥२,१२।१५अब्।
धर्माधर्मोपदेशश्च बन्धमोक्षौ विचारणात् ॥ ॥२,१२।१५च्द्।
न सर्वज्ञं विना पुंसामादिसर्गः प्रसिद्ध्यति ॥ ॥२,१२।१६अब्।
वैद्यं विना निरानन्दाः क्लिश्यन्ते रोगिणो यथा ॥ ॥२,१२।१६च्द्।
५५७ब्

तस्मादनादिः सर्वज्ञः परिपूर्णस्सदाशिवः ॥ ॥२,१२।१७अब्।
अस्ति नाथः परित्राता पुंसां संसारसागरात् ॥ ॥२,१२।१७च्द्।
आदिमध्यान्तनिर्मुक्तस्स्वभावविमलः प्रभुः ॥ ॥२,१२।१८अब्।
सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयश्शिवागमे ॥ ॥२,१२।१८च्द्।
तस्याभिधानमन्त्रो ऽयमभिधेयश्च स स्मृतः ॥ ॥२,१२।१९अब्।
अभिधानाभिधेयत्वान्मन्त्रस्सिद्धः परश्शिवः ॥ ॥२,१२।१९च्द्।
एतावत्तु शिवज्ञानमेतावत्परमं पदम् ॥ ॥२,१२।२०अब्।
यदोन्नमश्शिवायेति शिववाक्यं षडक्षरम् ॥ ॥२,१२।२०च्द्।
विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम् ॥ ॥२,१२।२१अब्।
यस्सर्वज्ञस्सुसम्पूर्णः स्वभावविमलः शिवः ॥ ॥२,१२।२१च्द्।
लोकानुग्रहकर्ता च स मृषार्थं कथं वदेत् ॥ ॥२,१२।२२अब्।
यद्यथावस्थितं वस्तु गुणदोषैः स्वभावतः ॥ ॥२,१२।२२च्द्।
यावत्फलं च तत्पूर्णं सर्वज्ञस्तु यथा वदेत् ॥ ॥२,१२।२३अब्।
रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत् ॥ ॥२,१२।२३च्द्।
ते चेश्वरे न विद्येते ब्रूयात्स कथमन्यथा ॥ ॥२,१२।२४अब्।
अज्ञाताशेषदोषेण सर्वज्ञेय शिवेन यत् ॥ ॥२,१२।२४च्द्।
प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः ॥ ॥२,१२।२४एफ़्।
तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता ॥ ॥२,१२।२५अब्।
यथार्थपुण्यपापेषु तदश्रद्धो व्रजत्यधः ॥ ॥२,१२।२५च्द्।
स्वर्गापवर्गसिद्ध्यर्थं भाषितं यत्सुशोभनम् ॥ ॥२,१२।२६अब्।
वाक्यं मुनिवरैः शान्तैस्तद्विज्ञेयं सुभाषितम् ॥ ॥२,१२।२६च्द्।
रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् ॥ ॥२,१२।२७अब्।
वाक्यं निरयहेतुत्वात्तद्दुर्भाषितमुच्यते ॥ ॥२,१२।२७च्द्।
संस्कृतेनापि किं तेन मृदुना ललितेन वा ॥ ॥२,१२।२८अब्।
अविद्यारागवाक्येन संसारक्लेशहेतुना ॥ ॥२,१२।२८च्द्।
यच्छ्रुत्वा जायते श्रेयो रागादीनां च संशयः ॥ ॥२,१२।२९अब्।
विरूपमपि तद्वाक्यं विज्ञेयमिति शोभनम् ॥ ॥२,१२।२९च्द्।
बहुत्वेपि हि मन्त्राणां सर्वज्ञेन शिवेन यः ॥ ॥२,१२।३०अब्।
प्रणीतो विमलो मन्त्रो न तेन सदृशः क्वचित् ॥ ॥२,१२।३०च्द्।
साङ्गानि वेदशास्त्राणि संस्थितानि षडक्षरे ॥ ॥२,१२।३१अब्।
न तेन सदृशस्तस्मान्मन्त्रो ऽप्यस्त्यपरः क्वचित् ॥ ॥२,१२।३१च्द्।
सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा ॥ ॥२,१२।३२अब्।
मन्त्रः षडक्षरो भिन्नस्सूत्रं वृत्यात्मना यथा ॥ ॥२,१२।३२च्द्।
शिवज्ञानानि यावन्ति विद्यास्थानापि यानि च ॥ ॥२,१२।३३अब्।
षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः ॥ ॥२,१२।३३च्द्।
किं तस्य बहुभिर्मन्त्रैश्शास्त्रैर्वा बहुविस्तरैः ॥ ॥२,१२।३४अब्।
यस्योन्नमः शिवायेति मन्त्रो ऽयं हृदि संस्थितः ॥ ॥२,१२।३४च्द्।
तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम् ॥ ॥२,१२।३५अब्।
येनोन्नमश्शिवायेति मन्त्राभ्यासः स्थिरीकृतः ॥ ॥२,१२।३५च्द्।
नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् ॥ ॥२,१२।३६अब्।
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥ ॥२,१२।३६च्द्।
अन्त्यजो वाधमो वापि मूर्खो वा पण्डितो ऽपि वा ॥ ॥२,१२।३७अब्।
पञ्चाक्षरजपे निष्ठो मुच्यते पापपञ्जरात् ॥ ॥२,१२।३७च्द्।
इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना ॥ ॥२,१२।३८अब्।
हिताय सर्वमर्त्यानां द्विजानां तु विशेषतः ॥ ॥२,१२।३८च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम द्वादशो ऽध्यायः