ईश्वर उवाच
अथ वक्ष्यामि देवेशि भक्तानामधिकारिणाम् ॥ ॥२,११।१अब्।
विदुषां द्विजमुख्यानां वर्णधर्मसमासतः ॥ ॥२,११।१च्द्।
त्रिः स्नानं चाग्निकार्यं च लिङ्गार्चनमनुक्रमम् ॥ ॥२,११।२अब्।
दानमीश्ररभावश्च दया सर्वत्र सर्वदा ॥ ॥२,११।२च्द्।
सत्यं सन्तोषमास्तिक्यमहिंसा सर्वजन्तुषु ॥ ॥२,११।३अब्।
ह्रीश्रद्धाध्ययनं योगस्सदाध्यापनमेव च ॥ ॥२,११।३च्द्।
व्याख्यानं ब्रह्मचर्यं च श्रवणं च तपः क्षमा ॥ ॥२,११।४अब्।
शौचं शिखोपवीतं च उष्णीषं चोत्तरीयकम् ॥ ॥२,११।४च्द्।
निषिद्धासेवनं चैव भस्मरुद्राक्षधारणम् ॥ ॥२,११।५अब्।
पर्वण्यभ्यर्चनं देवि चतुर्दश्यां विशेषतः ॥ ॥२,११।५च्द्।
पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि ॥ ॥२,११।६अब्।
अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये ॥ ॥२,११।६च्द्।
सर्वक्रियान्न सन्त्यागः श्रद्धान्नस्य च वर्जनम् ॥ ॥२,११।७अब्।
तथा पर्युषितान्नस्य यावकस्य विशेषतः ॥ ॥२,११।७च्द्।
मद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम् ॥ ॥२,११।८अब्।
सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः ॥ ॥२,११।८च्द्।
क्षमा शान्तिश्च सन्तोषस्सत्यमस्तेयमेव च ॥ ॥२,११।९अब्।
ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम् ॥ ॥२,११।९च्द्।
५५६अ
सर्वसङ्गनिवृत्तिश्च दशैतानि विशेषतः ॥ ॥२,११।१०अब्।
लिङ्गानि योगिनां भूयो दिवा भिक्षाशनं तथा ॥ ॥२,११।१०च्द्।
वानप्रस्थाश्रमस्थानां समानमिदमिष्यते ॥ ॥२,११।११अब्।
रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम् ॥ ॥२,११।११च्द्।
अध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः ॥ ॥२,११।१२अब्।
वैश्यस्य च विशेषेण मया नात्र विधीयते ॥ ॥२,११।१२च्द्।
रक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा ॥ ॥२,११।१३अब्।
दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम् ॥ ॥२,११।१३च्द्।
अविश्वासश्च सर्वत्र विश्वासो मम योगिषु ॥ ॥२,११।१४अब्।
स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च ॥ ॥२,११।१४च्द्।
सदा सञ्चारितैश्चारैर्लोकवृत्तान्तवेदनम् ॥ ॥२,११।१५अब्।
सदास्त्रधारणं चैव भस्मकञ्चुकधारणम् ॥ ॥२,११।१५च्द्।
राज्ञां ममाश्रमस्थानामेष धर्मस्य सङ्ग्रहः ॥ ॥२,११।१६अब्।
गोरक्षणं च वाणिज्यं कृषिर्वैश्यस्य कथ्यते ॥ ॥२,११।१६च्द्।
शुश्रूषेतरवर्णानां धर्मः शूद्रस्य कथ्यते ॥ ॥२,११।१७अब्।
उद्यानकरणं चैव मम क्षेत्रसमाश्रयः ॥ ॥२,११।१७च्द्।
धर्मपत्न्यास्तु गमनं गृहस्थस्य विधीयते ॥ ॥२,११।१८अब्।
ब्रह्मचर्यं वनस्थानां यतीनां ब्रह्मचारिणाम् ॥ ॥२,११।१८च्द्।
स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्यस्सनातनः ॥ ॥२,११।१९अब्।
ममार्चनं च कल्याणि नियोगो भर्तुरस्ति चेत् ॥ ॥२,११।१९च्द्।
या नारी भर्तृशुश्रूषां विहाय व्रततत्परा ॥ ॥२,११।२०अब्।
सा नारी नरकं याति नात्र कार्या विचारणा ॥ ॥२,११।२०च्द्।
अथ भर्तृविहीनाया वक्ष्ये धर्मं सनातनम् ॥ ॥२,११।२१अब्।
व्रतं दानं तपः शौचं भूशय्यानक्तभोजनम् ॥ ॥२,११।२१च्द्।
ब्रह्मचर्यं सदा स्नानं भस्मना सलिलेन वा ॥ ॥२,११।२२अब्।
शान्तिर्मौनं क्षमा नित्यं संविभागो यथाविधि ॥ ॥२,११।२२च्द्।
अष्टाभ्यां च चतुर्दश्यां पौर्णमास्यां विशेषतः ॥ ॥२,११।२३अब्।
एकादश्यां च विधिवदुपवासोममार्चनम् ॥ ॥२,११।२३च्द्।
इति सङ्क्षेपतः प्रोक्तो मयाश्रमनिषेविणाम् ॥ ॥२,११।२४अब्।
ब्रह्मक्षत्रविशां देवि यतीनां ब्रह्मचारिणाम् ॥ ॥२,११।२४च्द्।
तथैव वानप्रस्थानां गृहस्थानां च सुन्दरि ॥ ॥२,११।२५अब्।
शूद्राणामथ नारीणां धर्म एष सनातनः ॥ ॥२,११।२५च्द्।
ध्येयस्त्वयाहं देवेशि सदा जाप्यः षडक्षरः ॥ ॥२,११।२६अब्।
वेदोक्तमखिलं धर्ममिति धर्मार्थसङ्ग्रहः ॥ ॥२,११।२६च्द्।
अथ ये मानवा लोके स्वेच्छया धृतविग्रहाः ॥ ॥२,११।२७अब्।
भावातिशयसम्पन्नाः पूर्वसंस्कारसंयुताः ॥ ॥२,११।२७च्द्।
विरक्ता वानुरक्ता वा स्त्र्यादीनां विषयेष्वपि ॥ ॥२,११।२८अब्।
पापैर्न ते विलिम्पन्ते १ पद्मपत्रमिवाम्भसा ॥ ॥२,११।२८च्द्।
तेषां ममात्मविज्ञानं विशुद्धानां विवेकिनाम् ॥ ॥२,११।२९अब्।
मत्प्रसादाद्विशुद्धानां दुःखमाश्रमरक्षणात् ॥ ॥२,११।२९च्द्।
नास्ति कृत्यमकृत्यं च समाधिर्वा परायणम् ॥ ॥२,११।३०अब्।
न विधिर्न निषेधश्च तेषां मम यथा तथा ॥ ॥२,११।३०च्द्।
१ आत्मनेपदमार्षम्
५५६ब्
तथेह परिपूर्णस्य साध्यं मम न विद्यते ॥ ॥२,११।३१अब्।
तथैव कृतकृत्यानां तेषामपि न संशयः ॥ ॥२,११।३१च्द्।
मद्भक्तानां हितार्थाय मानुषं भावमाश्रिताः ॥ ॥२,११।३२अब्।
रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः ॥ ॥२,११।३२च्द्।
ममानुशासनं यद्वद्ब्रह्मादीनां प्रवर्तकम् ॥ ॥२,११।३३अब्।
तथा नराणामन्येषां तन्नियोगः प्रवर्तकः ॥ ॥२,११।३३च्द्।
ममाज्ञाधारभावेन सद्भावातिशयेन च ॥ ॥२,११।३४अब्।
तदालोकनमात्रेण सर्वपापक्षयो भवेत् ॥ ॥२,११।३४च्द्।
प्रत्ययाश्च प्रवर्तन्ते प्रशस्तफलसूचकाः ॥ ॥२,११।३५अब्।
मयि भाववतां पुंसां प्रागदृष्टार्थगोचराः ॥ ॥२,११।३५च्द्।
कम्पस्वेदो ऽश्रुपातश्च कण्ठे च स्वरविक्रिया ॥ ॥२,११।३६अब्।
आनन्दाद्युपलब्धिश्च भवेदाकस्मिकी मुहुः ॥ ॥२,११।३६च्द्।
स तैर्व्यस्तैस्समस्तैर्वा लिङ्गैरव्यभिचारिभिः ॥ ॥२,११।३७अब्।
मन्दमध्योत्तमैर्भावैर्विज्ञेयास्ते नरोत्तमाः ॥ ॥२,११।३७च्द्।
यथायोग्निसमावेशान्नायो भवति केवलम् ॥ ॥२,११।३८अब्।
स तथैव मम सान्निध्यान्न ते केवलमानुषाः ॥ ॥२,११।३८च्द्।
हस्तपादादिसाधर्म्याद्रुद्रान्मर्त्यवपुर्धरान् ॥ ॥२,११।३९अब्।
प्राकृतानिव मन्वानो नावजानीत पण्डितः ॥ ॥२,११।३९च्द्।
अवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः ॥ ॥२,११।४०अब्।
आयुः श्रियं कुलं शीलं हित्वा निरयमावहेत् ॥ ॥२,११।४०च्द्।
ब्रह्मविष्णुसुरेशानामपि तूलायते पदम् ॥ ॥२,११।४१अब्।
मत्तोन्यदनपेक्षाणामुद्धृतानां महात्मनाम् ॥ ॥२,११।४१च्द्।
अशुद्धं बौद्धमैश्वर्यं प्राकृतं पौरुषं तथा ॥ ॥२,११।४२अब्।
गुणेशानामतस्त्याज्यं गुणातीतपदैषिणाम् ॥ ॥२,११।४२च्द्।
अथ किं बहुनोक्तेन श्रेयः प्राप्त्यैकसाधनम् ॥ ॥२,११।४३अब्।
मयि चित्तसमासङ्गो येन केनापि हेतुना ॥ ॥२,११।४३च्द्।
उपमन्युरुवाच
इत्थं श्रीकण्ठनाथेन शिवेन परमात्मना ॥ ॥२,११।४४अब्।
हिताय जगतामुक्तो ज्ञानसारार्थसङ्ग्रहः ॥ ॥२,११।४४च्द्।
विज्ञानसङ्ग्रहस्यास्य वेदशास्त्राणि कृत्स्नशः ॥ ॥२,११।४५अब्।
सेतिहासपुराणानि विद्या व्याख्यानविस्तरः ॥ ॥२,११।४५च्द्।
ज्ञानं ज्ञेयमनुष्ठेयमधिकारो ऽथ साधनम् ॥ ॥२,११।४६अब्।
साध्यं चेति षडर्थानां सङ्ग्रहत्वेष सङ्ग्रहः ॥ ॥२,११।४६च्द्।
गुरोरधिकृतं ज्ञानं ज्ञेयं पाशः पशुः पतिः ॥ ॥२,११।४७अब्।
लिङ्गार्चनाद्यनुष्ठेयं भक्तस्त्वधिकृतो ऽपि यः ॥ ॥२,११।४७च्द्।
साधनं शिवमन्त्राद्यं साध्यं शिवसमानता ॥ ॥२,११।४८अब्।
षडर्थसङ्ग्रहस्यास्य ज्ञानात्सर्वज्ञतोच्यते ॥ ॥२,११।४८च्द्।
प्रथमं कर्म यज्ञादेर्भक्त्या वित्तानुसारतः ॥ ॥२,११।४९अब्।
बाह्येभ्यर्च्य शिवं पश्चादन्तर्यागरतो भवेत् ॥ ॥२,११।४९च्द्।
रतिरभ्यन्तरे यस्य न बाह्ये पुण्यगौरवात् ॥ ॥२,११।५०अब्।
न कर्म करणीयं हि बहिस्तस्य महात्मनाः ॥ ॥२,११।५०च्द्।
ज्ञानामृतेन तृप्तस्य भक्त्या शैवशिवात्मनः ॥ ॥२,११।५१अब्।
नान्तर्न च बहिः कृष्ण कृत्यमस्ति कदाचन ॥ ॥२,११।५१च्द्।
तस्मात्क्रमेण सन्त्यज्य बाह्यमाभ्यन्तरं तथा ॥ ॥२,११।५२अब्।
ज्ञानेन ज्ञेयमालोक्याज्ञानं चापि परित्यजेत् ॥ ॥२,११।५२च्द्।
नैकाग्रं चेच्छिवे चित्तं किं कृतेनापि कर्मणा ॥ ॥२,११।५३अब्।
५५७अ
एकाग्रमेव चेच्चित्तं किं कृतेनापि कर्मणा ॥ ॥२,११।५३च्द्।
तस्मात्कर्माण्यकृत्वा वा कृत्वा वान्तर्बहिःक्रमात् ॥ ॥२,११।५४अब्।
येन केनाप्युपायेन शिवे चित्तं निवेशयेत् ॥ ॥२,११।५४च्द्।
शिवे निविष्टचित्तानां प्रतिष्ठितधियां सताम् ॥ ॥२,११।५५अब्।
परत्रेह च सर्वत्र निर्वृतिः परमा भवेत् ॥ ॥२,११।५५च्द्।
इहोन्नमः शिवायेति मन्त्रेणानेन सिद्धयः ॥ ॥२,११।५६अब्।
स तस्मादधिगन्तव्यः परावरविभूतये ॥ ॥२,११।५६च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवज्ञानवर्णनं नामैकादशो ऽध्यायः