कृष्ण उवाच
भगवन्सर्वयोगीन्द्र गणेश्वर मुनीश्वर ॥ ॥२,१०।१अब्।
षडाननसमप्रख्य सर्वज्ञाननिधे गुरो ॥ ॥२,१०।१च्द्।
प्रायस्त्वमवतीर्योर्व्यां पाशविच्छित्तये नृणाम् ॥ ॥२,१०।२अब्।
महर्षिवपुरास्थाय स्थितो ऽसि परमेश्वर ॥ ॥२,१०।२च्द्।
अन्यथा हि जगत्यस्मिन् देवो वा दानवो ऽपि वा ॥ ॥२,१०।३अब्।
त्वत्तोन्यः परमं भावं को जानीयाच्छिवात्मकम् ॥ ॥२,१०।३च्द्।
तस्मात्तव मुखोद्गीर्णं साक्षादिव पिनाकिनः ॥ ॥२,१०।४अब्।
शिवज्ञानामृतं पीत्वा न मे तृप्तमभून्मनः ॥ ॥२,१०।४च्द्।
साक्षात्सर्वजगत्कर्तुर्भर्तुरङ्कं समाश्रिता ॥ ॥२,१०।५अब्।
भगवन्किन्नु पप्रच्छ भर्तारं परमेश्वरी ॥ ॥२,१०।५च्द्।
उपमन्युरुवाच
स्थाने पृष्टं त्वया कृष्ण तद्वक्ष्यामि यथातथम् ॥ ॥२,१०।६अब्।
भवभक्तस्य युक्तस्य तव कल्याणचेतसः ॥ ॥२,१०।६च्द्।
महीधरवरे दिव्ये मन्दरे चारुकन्दरे ॥ ॥२,१०।७अब्।
देव्या सह महादेवो दिव्यो ध्यानगतो ऽभवत् ॥ ॥२,१०।७च्द्।
तदा देव्याः प्रियसखी सुस्मितास्या शुभावती ॥ ॥२,१०।८अब्।
फुल्लान्यतिमनोज्ञानि पुष्पाणि समुदाहरत् ॥ ॥२,१०।८च्द्।
ततः स्वमङ्कमारोप्य देवीं देववरोरहः ॥ ॥२,१०।९अब्।
अलङ्कृत्य च तैः पुष्पैरास्ते हृष्टतरः स्वयम् ॥ ॥२,१०।९च्द्।
अथान्तःपुरचारिण्यो देव्यो दिव्यविभूषणाः ॥ ॥२,१०।१०अब्।
अन्तरङ्गा गणेन्द्राश्च सर्वलोकमहेश्वरीम् ॥ ॥२,१०।१०च्द्।
भर्तारं परिपूर्णं च सर्वलोकमहेश्वरम् ॥ ॥२,१०।११अब्।
चामरासक्तहस्ताश्च देवीं देवं सिषेविरे ॥ ॥२,१०।११च्द्।
ततः प्रियाः कथा वृत्ता विनोदाय महेशयोः ॥ ॥२,१०।१२अब्।
त्राणाय च नृणां लोके ये शिवं शरणं गताः ॥ ॥२,१०।१२च्द्।
तदावसरमालोक्य सर्वलोकमहेश्वरी ॥ ॥२,१०।१३अब्।
भर्तारं परिपप्रच्छ सर्वलोकमहेश्वरम् ॥ ॥२,१०।१३च्द्।
देव्युवाच
केन वश्यो महादेवो मर्त्यानां मन्दचेतसाम् ॥ ॥२,१०।१४अब्।
आत्मतत्त्वाद्यशक्तानामात्मनामकृतात्मनाम् ॥ ॥२,१०।१४च्द्।
ईश्वर उवाच
न कर्मणा न तपसा न जपैर्नासनादिभिः ॥ ॥२,१०।१५अब्।
न ज्ञानेन न चान्येन वश्यो ऽहं श्रद्धया विना ॥ ॥२,१०।१५च्द्।
श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना ॥ ॥२,१०।१६अब्।
वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्सम्भाष्य एव च ॥ ॥२,१०।१६च्द्।
साध्या तस्मान्मयि शद्धा मां वशीकर्तुमिच्छता ॥ ॥२,१०।१७अब्।
श्रद्धा हेतुस्स्वधर्मस्य रक्षणं वर्णिनामिह ॥ ॥२,१०।१७च्द्।
स्ववर्णाश्रमधर्मेण वर्तते यस्तु मानवः ॥ ॥२,१०।१८अब्।
तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित् ॥ ॥२,१०।१८च्द्।
५५४ब्
आम्नायसिद्धमखिलं धर्ममाश्रमिणामिह ॥ ॥२,१०।१९अब्।
ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरस्सरम् ॥ ॥२,१०।१९च्द्।
स तु पैतामहो धर्मो बहुवित्तक्रियान्वितः ॥ ॥२,१०।२०अब्।
नात्यन्त फलभूयिष्ठः क्लेशाया ससमन्वितः ॥ ॥२,१०।२०च्द्।
तेन धर्मेण महतां श्रद्धां प्राप्य सुदुर्ल्लभाम् ॥ ॥२,१०।२०एफ़्।
वर्णिनो ये प्रपद्यन्ते मामनन्यसमाश्रयाः ॥ ॥२,१०।२१अब्।
तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः ॥ ॥२,१०।२१च्द्।
वर्णाश्रमसमाचारो मया भूयः प्रकल्पितः ॥ ॥२,१०।२२अब्।
तस्मिन्भक्तिमतामेव मदीयानां तु वर्णिनाम् ॥ ॥२,१०।२२च्द्।
अधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम ॥ ॥२,१०।२३अब्।
तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः ॥ ॥२,१०।२३च्द्।
मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः ॥ ॥२,१०।२४अब्।
परं मदीयमासाद्य पुनरावृत्तिदुर्लभम् ॥ ॥२,१०।२४च्द्।
परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः ॥ ॥२,१०।२४एफ़्।
तस्माल्लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम् ॥ ॥२,१०।२५अब्।
आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत् ॥ ॥२,१०।२५च्द्।
अलब्धलाभ एवैष कोटिकोटिगुणाधिकः ॥ ॥२,१०।२६अब्।
तस्मान्मे मुखतो लब्धं वर्णधर्मं समाचरेत् ॥ ॥२,१०।२६च्द्।
ममावतारा हि शुभे योगाचार्यच्छलेन तु ॥ ॥२,१०।२७अब्।
सर्वान्तरेषु सन्त्यार्ये सन्ततिश्च सहस्रशः ॥ ॥२,१०।२७च्द्।
अयुक्तानामबुद्धीनामभक्तानां सुरेश्वरि ॥ ॥२,१०।२८अब्।
दुर्लभं सन्ततिज्ञानं ततो यत्नात्समाश्रयेत् ॥ ॥२,१०।२८च्द्।
सा हानिस्तन्महच्छिद्रं स मोहस्सान्धमूकता ॥ ॥२,१०।२९अब्।
यदन्यत्र श्रमं कुर्यान्मोक्षमार्गबहिष्कृतः ॥ ॥२,१०।२९च्द्।
ज्ञानं क्रिया च चर्या च योगश्चेति सुरेश्वरि ॥ ॥२,१०।३०अब्।
चतुष्पादः समाख्यातो मम धर्मस्सनातनः ॥ ॥२,१०।३०च्द्।
पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते ॥ ॥२,१०।३१अब्।
षडध्वशुद्धिर्विधिना गुर्वधीना क्रियोच्यते ॥ ॥२,१०।३१च्द्।
वर्णाश्रमप्रयुक्तस्य मयैव विहितस्य च ॥ ॥२,१०।३२अब्।
ममार्चनादिधर्मस्य चर्या चर्येति कथ्यते ॥ ॥२,१०।३२च्द्।
मदुक्तेनैव मार्गेण मय्यवस्थितचेतसः ॥ ॥२,१०।३३अब्।
वृत्त्यन्तरनिरोधो यो योग इत्यभिधीयते ॥ ॥२,१०।३३च्द्।
अश्वमेधगणाच्छ्रेष्ठं देवि चित्तप्रसाधनम् ॥ ॥२,१०।३४अब्।
मुक्तिदं च तथा ह्येतद्दुष्प्राप्यं विषयैषिणाम् ॥ ॥२,१०।३४च्द्।
विजितेन्द्रियवर्गस्य यमेन नियमेन च ॥ ॥२,१०।३५अब्।
पूर्वपापहरो योगो विरक्तस्यैव कथ्यते ॥ ॥२,१०।३५च्द्।
वैराग्याज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ॥ ॥२,१०।३६अब्।
योगज्ञः पतितो वापि मुच्यते नात्र संशयः ॥ ॥२,१०।३७अब्।
दया कार्याथ सततमहिंसा ज्ञानसङ्ग्रहः ॥ ॥२,१०।३७च्द्।
सत्यमस्तेयमास्तिक्यं श्रद्धा चेन्द्रियनिग्रहः ॥ ॥२,१०।३८अब्।
अध्यापनं चाध्ययनं यजनं याजनं तथा ॥ ॥२,१०।३८च्द्।
ध्यानमीश्वरभावश्च सततं ज्ञानशीलता ॥ ॥२,१०।३९अब्।
य एवं वर्तते विप्रो ज्ञानयोगस्य सिद्धये ॥ ॥२,१०।३९च्द्।
अचिरादेव विज्ञानं लब्ध्वा योगं च विन्दति ॥ ॥२,१०।४०अब्।
५५५अ
दग्ध्वा देहमिमं ज्ञानी क्षणाज्ज्ञानाग्निना प्रिये ॥ ॥२,१०।४०च्द्।
प्रसादान्मम योगज्ञः कर्मबन्धं प्रहास्यति ॥ ॥२,१०।४१अब्।
पुण्यःपुण्यात्मकं कर्ममुक्तेस्तत्प्रतिबन्धकम् ॥ ॥२,१०।४१च्द्।
तस्मान्नियोगतो योगी पुण्यापुण्यं विवर्जयेत् ॥ ॥२,१०।४१एफ़्।
फलकामनया कर्मकरणात्प्रतिबध्यते ॥ ॥२,१०।४२अब्।
न कर्ममात्रकरणात्तस्मात्कर्मफलं त्यजेत् ॥ ॥२,१०।४२च्द्।
प्रथमं कर्मयज्ञेन बहिः सम्पूज्य मां प्रिये ॥ ॥२,१०।४३अब्।
ज्ञानयोगरतो भूत्वा पश्चाद्योगं समभ्यसेत् ॥ ॥२,१०।४३च्द्।
विदिते मम याथात्म्ये कर्मयज्ञेन देहिनः ॥ ॥२,१०।४४अब्।
न यजन्ति हि मां युक्ताः समलोष्टाश्मकाञ्चनाः ॥ ॥२,१०।४४च्द्।
नित्ययुक्तो मुनिः श्रेष्ठो मद्भक्तश्च समाहितः ॥ ॥२,१०।४५अब्।
ज्ञानयोगरतो योगी मम सायुज्यमाप्नुयात् ॥ ॥२,१०।४५च्द्।
अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः ॥ ॥२,१०।४६अब्।
ज्ञानचर्याक्रियास्वेव ते ऽधिकुर्युस्तदर्हकाः ॥ ॥२,१०।४६च्द्।
द्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यन्तरं तथा ॥ ॥२,१०।४७अब्।
वाङ्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः ॥ ॥२,१०।४७च्द्।
तपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः ॥ ॥२,१०।४८अब्।
पञ्चधा कथ्यते सद्भिस्तदेव भजनं पुनः ॥ ॥२,१०।४८च्द्।
अन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम् ॥ ॥२,१०।४९अब्।
तदेव तु स्वसंवेद्यमाभ्यन्तरमुदाहृतम् ॥ ॥२,१०।४९च्द्।
मनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते ॥ ॥२,१०।५०अब्।
मन्नामनिरता वाणी वाङ्मता खलु नेतरा ॥ ॥२,१०।५०च्द्।
लिङ्गैर्मच्छासनादिष्टैस्त्रिपुण्ड्रादिभिरङ्कितः ॥ ॥२,१०।५१अब्।
ममोपचारनिरतः कायः कायो न चेतरः ॥ ॥२,१०।५१च्द्।
मदर्चाकर्म विज्ञेयं बाह्ये यागादिनोच्यते ॥ ॥२,१०।५२अब्।
मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम् ॥ ॥२,१०।५२च्द्।
जपः पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च ॥ ॥२,१०।५३अब्।
रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम् ॥ ॥२,१०।५३च्द्।
ध्यानम्मद्रूपचिन्ताद्यं नात्माद्यर्थसमाधयः ॥ ॥२,१०।५४अब्।
ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम् ॥ ॥२,१०।५४च्द्।
बाह्ये वाभ्यन्तरे वाथ यत्र स्यान्मनसो रतिः ॥ ॥२,१०।५५अब्।
प्राग्वासनावशाद्देवि तत्त्वनिष्ठां समाचरेत् ॥ ॥२,१०।५५च्द्।
बाह्यादाभ्यन्तरं श्रेष्ठं भवेच्छतगुणाधिकम् ॥ ॥२,१०।५६अब्।
असङ्करत्वाद्दोषाणां दृष्टानामप्यसम्भवात् ॥ ॥२,१०।५६च्द्।
शौचमाभ्यन्तरं विद्यान्न बाह्यं शौचमुच्यते ॥ ॥२,१०।५७अब्।
अन्तः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः ॥ ॥२,१०।५७च्द्।
बाह्यमाभ्यंर्तरं चैव भजनं भवपूर्वकम् ॥ ॥२,१०।५८अब्।
न भावरहितं देवि विप्रलम्भैककारणम् ॥ ॥२,१०।५८च्द्।
कृतकृत्यस्य पूतस्य मम किं क्रियते नरैः ॥ ॥२,१०।५९अब्।
बहिर्वाभ्यन्तरं वाथ मया भावो हि गृह्यते ॥ ॥२,१०।५९च्द्।
भावैकात्मा क्रिया देवि मम धर्मस्सनातनः ॥ ॥२,१०।६०अब्।
मनसा कर्मणा वाचा ह्यनपेक्ष्य फलं क्वचित् ॥ ॥२,१०।६०च्द्।
फलोद्देशेन देवेशि लघुर्मम समाश्रयः ॥ ॥२,१०।६१अब्।
फलार्थी तदभावे मां परित्यक्तुं क्षमो यतः ॥ ॥२,१०।६१च्द्।
५५५ब्
फलार्थिनो ऽपि यस्यैव मयि चित्तं प्रतिष्ठितम् ॥ ॥२,१०।६२अब्।
भावानुरूपफलदस्तस्याप्यहमनिन्दिते ॥ ॥२,१०।६२च्द्।
फलानपेक्षया येषां मनो मत्प्रवणं भवेत् ॥ ॥२,१०।६३अब्।
प्रार्थयेयुः फलं पश्चाद्भक्तास्ते ऽपि मम प्रियाः ॥ ॥२,१०।६३च्द्।
प्राक् संस्कारवशादेव ये विचिन्त्य फलाफले ॥ ॥२,१०।६४अब्।
विवशा मां प्रपद्यन्ते मम प्रियतमा मताः ॥ ॥२,१०।६४च्द्।
मल्लाभान्न परो लाभस्तेषामस्ति यथातथम् ॥ ॥२,१०।६५अब्।
ममापि लाभस्तल्लाभान्नापरः परमेश्वरि ॥ ॥२,१०।६५च्द्।
मदनुग्रहतस्तेषां भावो मयि समर्पितः ॥ ॥२,१०।६६अब्।
फलं परमनिर्वाणं प्रयच्छति बलादिव ॥ ॥२,१०।६६च्द्।
महात्मनामनन्यानां मयि सन्न्यस्तचेतसाम् ॥ ॥२,१०।६७अब्।
अष्टधा लक्षणं प्राहुर्मम धर्माधिकारिणाम् ॥ ॥२,१०।६७च्द्।
मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् ॥ ॥२,१०।६८अब्।
स्वयमभ्यर्चनं चैव मदर्थे चाङ्गचेष्टितम् ॥ ॥२,१०।६८च्द्।
मत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रियाः ॥ ॥२,१०।६९अब्।
ममानुस्मरणं नित्यं यश्च मामुपजीवति ॥ ॥२,१०।६९च्द्।
एवमष्टविधं चिह्नं यस्मिन् म्लेच्छे ऽपि वर्तते ॥ ॥२,१०।७०अब्।
स विप्रेन्द्रो मुनिः श्रीमान्स यतिस्स च पण्डितः ॥ ॥२,१०।७०च्द्।
न मे प्रियश्चतुर्वेदी मद्भक्तो श्वपचो ऽपि यः ॥ ॥२,१०।७१अब्।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥ ॥२,१०।७१च्द्।
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ॥ ॥२,१०।७२अब्।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ॥२,१०।७२च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवभक्तिवर्णनं नाम दशमो ऽध्यायः