०९ योगावतारवर्णनम्

कृष्ण उवाच
युगावर्तेषु सर्वेषु योगाचार्यच्छलेन तु ॥ ॥२,९।१अब्।
अवतारान्हि शर्वस्य शिष्यांश्च भगवन्वद ॥ ॥२,९।१च्द्।
उपमन्युरुवाच
श्वेतः सुतारो मदनः सुहोत्रः कङ्क एव च ॥ ॥२,९।२अब्।
लौगाक्षिश्च महामायो जैगीषव्यस्तथैव च ॥ ॥२,९।२च्द्।
दधिवाहश्च ऋषभो मुनिरुग्रो ऽत्रिरेव च ॥ ॥२,९।३अब्।
५५३ब्

सुपालको गौतमश्च तथा वेदशिरा मुनिः ॥ ॥२,९।३च्द्।
गोकर्णश्च गुहावासी शिखण्डी चापरः स्मृतः ॥ ॥२,९।४अब्।
जटामाली चाट्टहासो दारुको लाङ्गुली तथा ॥ ॥२,९।४च्द्।
महाकालश्च शूली च डण्डी मुण्डीश एव च ॥ ॥२,९।५अब्।
सविष्णुस्सोमशर्मा च लकुलीश्वर एव च ॥ ॥२,९।५च्द्।
एते वाराह कल्पे ऽस्मिन्सप्तमस्यान्तरो मनोः ॥ ॥२,९।६अब्।
अष्टाविंशतिसङ्ख्याता योगाचार्या युगक्रमात् ॥ ॥२,९।६च्द्।
शिष्याः प्रत्येकमेतेषां चत्वारश्शान्तचेतसः ॥ ॥२,९।७अब्।
श्वेतादयश्च रुष्यान्तांस्तान्ब्रवीमि यथाक्रमम् ॥ ॥२,९।७च्द्।
श्वेतश्श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ॥ ॥२,९।८अब्।
दुन्दुभिश्शतरूपश्च ऋचीकः केतुमांस्तथा ॥ ॥२,९।८च्द्।
विकोशश्च विकेशश्च विपाशः पाशनाशनः ॥ ॥२,९।९अब्।
सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः ॥ ॥२,९।९च्द्।
सनत्कुमारस्सनकः सनन्दश्च सनातनः ॥ ॥२,९।१०अब्।
सुधामा विरजाश्चैव शङ्खश्चाण्डज एव च ॥ ॥२,९।१०च्द्।
सारस्वतश्च मेघश्च मेघवाहस्सुवाहकः ॥ ॥२,९।११अब्।
कपिलश्चासुरिः पञ्चशिखो बाष्कल एव च ॥ ॥२,९।११च्द्।
पराशराश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा ॥ ॥२,९।१२अब्।
बलबन्धुर्निरामित्राः केतुशृङ्गस्तपोधनः ॥ ॥२,९।१२च्द्।
लम्बोदरश्च लम्बश्च लम्बात्मा लम्बकेशकः ॥ ॥२,९।१३अब्।
सर्वज्ञस्समबुद्धिश्च साध्यसिद्धिस्तथैव च ॥ ॥२,९।१३च्द्।
सुधामा कश्यपश्चैव वसिष्ठो विरजास्तथा ॥ ॥२,९।१४अब्।
अत्रिरुग्रो गुरुश्रेष्ठः श्रवनोथ श्रविष्टकः ॥ ॥२,९।१४च्द्।
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ ॥२,९।१५अब्।
काश्यपो ह्युशनाश्चैव च्यवनश्च बृहस्पतिः ॥ ॥२,९।१५च्द्।
उतथ्यो वामदेवश्च महाकालो महा ऽनिलः ॥ ॥२,९।१६अब्।
वाचःश्रवाः सुवीरश्च श्यावकश्च यतीश्वरः ॥ ॥२,९।१६च्द्।
हिरण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ॥ ॥२,९।१७अब्।
सुमन्तुर्जैमिनिश्चैव कुबन्धः कुशकन्धरः ॥ ॥२,९।१७च्द्।
प्लक्षो दार्भायणिश्चैव केतुमान्गौतमस्तथा ॥ ॥२,९।१८अब्।
भल्लवी मधुपिङ्गश्च श्वेतकेतुस्तथैव च ॥ ॥२,९।१८च्द्।
उशिजो बृहदश्वश्च देवलः कविरेव च ॥ ॥२,९।१९अब्।
शालिहोत्रः सुवेषश्च युवनाश्वः शरद्वसुः ॥ ॥२,९।१९च्द्।
अक्षपादः कणादश्च उलूको वत्स एव च ॥ ॥२,९।२०अब्।
कुलिकश्चैव गर्गश्च मित्रको रुष्य एव च ॥ ॥२,९।२०च्द्।
एते शिष्या महेशस्य योगाचार्यस्वरूपिणः ॥ ॥२,९।२१अब्।
सङ्ख्या च शतमेतेषां सह द्वादशसङ्ख्यया ॥ ॥२,९।२१च्द्।
सर्वे पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ॥ ॥२,९।२२अब्।
सर्वशास्त्रार्थतत्त्वज्ञा वेदवेदाङ्गपारगाः ॥ ॥२,९।२२च्द्।
शिवाश्रमरतास्सर्वे शिवज्ञानपरायणाः ॥ ॥२,९।२३अब्।
सर्वे सङ्गविनिर्मुक्ताः शिवैकासक्तचेतसः ॥ ॥२,९।२३च्द्।
सर्वद्वन्द्वसहा धीराः सर्वभूतहिते रताः ॥ ॥२,९।२४अब्।
ऋजवो मृदवः स्वस्था जितक्रोधा जितेन्द्रियाः ॥ ॥२,९।२४च्द्।
रुद्राक्षमालाभरणास्त्रिपुण्ड्राङ्कितमस्तकाः ॥ ॥२,९।२५अब्।
शिखाजटास्सर्वजटा अजटा मुण्डशीर्षकाः ॥ ॥२,९।२५च्द्।
फलमूलाशनप्रायाः प्राणायामपरायणाः ॥ ॥२,९।२६अब्।
५५४अ

शिवाभिमानसम्पन्नाः शिवध्यानैकतत्पराः ॥ ॥२,९।२६च्द्।
समुन्मथितसंसारविषवृक्षाङ्कुरोद्गमाः ॥ ॥२,९।२७अब्।
प्रयातुमेव सन्नद्धाः परं शिवपुरं प्रति ॥ ॥२,९।२७च्द्।
सदेशिकानिमान्मत्वा नित्यं यश्शिवमर्चयेत् ॥ ॥२,९।२८अब्।
स याति शिवसायुज्यं नात्र कार्या विचारणा ॥ ॥२,९।२८च्द्।

ॐ इति श्रीशिवमहापु– सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवस्य योगावतारवर्णनं नाम नवमो ऽध्यायः