कृष्ण उवाच
भगवञ्छ्रोतुमिच्छामि शिवेन परिभाषितम् ॥ ॥२,८।१अब्।
वेदसारे शिवज्ञानं स्वाश्रितानां विमुक्तये ॥ ॥२,८।१च्द्।
अभक्तानामबुद्धीनामयुक्तानामगोचरम् ॥ ॥२,८।२अब्।
अर्थैर्दशर्धैः संयुक्तं गूढमप्राज्ञनिन्दितम् ॥ ॥२,८।२च्द्।
वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् ॥ ॥२,८।३अब्।
वेदात्षडङ्गादुद्धृत्य साङ्ख्याद्योगाच्च कृत्स्नशः ॥ ॥२,८।३च्द्।
शतकोटिप्रमाणेन विस्तीर्णं ग्रन्थसङ्ख्यया ॥ ॥२,८।४अब्।
कथितं परमेशेन तत्र पूजा कथं प्रभोः ॥ ॥२,८।४च्द्।
कस्याधिकारः पूजादौ ज्ञानयोगादयः कथम् ॥ ॥२,८।५अब्।
तत्सर्वं विस्तरादेव वक्तुमर्हसि सुव्रत ॥ ॥२,८।५च्द्।
उपमन्युरुवाच
शैवं सङ्क्षिप्य वेदोक्तं शिवेन परिभाषितम् ॥ ॥२,८।६अब्।
स्तुतिनिन्दादिरहितं सद्यः प्रत्ययकारणम् ॥ ॥२,८।६च्द्।
गुरुप्रसादजं दिव्यमनायासेन मुक्तिदम् ॥ ॥२,८।७अब्।
कथयिष्ये समासेन तस्य शक्यो न विस्तरः ॥ ॥२,८।७च्द्।
सिसृक्षया पुराव्यक्ताच्छिवः स्थाणुर्महेश्वरः ॥ ॥२,८।८अब्।
सत्कार्यकारणोपेतस्स्वयमाविरभूत्प्रभुः ॥ ॥२,८।८च्द्।
जनयामास च तदा ऋषिर्विश्वाधिकः प्रभुः ॥ ॥२,८।९अब्।
देवानां प्रथमं देवं ब्रह्माणं ब्रह्मणस्पतिम् ॥ ॥२,८।९च्द्।
ब्रह्मापि पितरं देवं जायमानं न्यवैक्षत ॥ ॥२,८।१०अब्।
तं जायमानं जनको देवः प्रापश्यदाज्ञया ॥ ॥२,८।१०च्द्।
दृष्टो रुद्रेण देवो ऽसावसृजद्विश्वमीश्वरः ॥ ॥२,८।११अब्।
वर्णाश्रमव्यवस्थां च चकार स पृथक्पृथक् ॥ ॥२,८।११च्द्।
सोमं ससर्ज यज्ञार्थे सोमाद्द्यौस्समजायत ॥ ॥२,८।१२अब्।
धरा च वह्निः सूर्यश्च यज्ञो विष्णुश्शचीपतिः ॥ ॥२,८।१२च्द्।
५५२ब्
ते चान्ये च सुरा रुद्रं रुद्राध्यायेन तुष्टुवुः ॥ ॥२,८।१३अब्।
प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः ॥ ॥२,८।१३च्द्।
अपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः ॥ ॥२,८।१४अब्।
तमपृच्छंस्ततो देवाः को भवानिति मोहिताः ॥ ॥२,८।१४च्द्।
सो ऽब्रवीद्भगवान्रुद्रो ह्यहमेकः पुरातनः ॥ ॥२,८।१५अब्।
आसं प्रथममेवाहं वर्तामि १ च सुरोत्तमाः ॥ ॥२,८।१५च्द्।
भविष्यामि च मत्तोन्यो व्यतिरिक्तो न कश्चन ॥ ॥२,८।१६अब्।
अहमेव जगत्सर्वं तर्पयामि स्वतेजसा ॥ ॥२,८।१६च्द्।
मत्तो ऽधिकः समो नास्ति मां यो वेद स मुच्यते ॥ ॥२,८।१७अब्।
इत्युक्त्वा भगवान्रुद्रस्तत्रैवान्तरधत्त स ॥ ॥२,८।१७च्द्।
अपश्यन्तस्तमीशानं स्तुवन्तश्चैव सामभिः ॥ ॥२,८।१७एफ़्।
व्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम् ॥ ॥२,८।१८अब्।
भस्मसञ्छन्नसर्वाङ्गा बभूवुरमरास्तदा ॥ ॥२,८।१८च्द्।
अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः ॥ ॥२,८।१९अब्।
सगणश्चोमया सार्धं सान्निध्यमकरोत्प्रभुः ॥ ॥२,८।२०अब्।
यं विनिद्रा जितश्वासा योगिनो दग्धकिल्बिषाः ॥ ॥२,८।२०च्द्।
हृदि पश्यन्ति तं देवं ददृशुर्देवपुङ्गवाः ॥ ॥२,८।२१अब्।
यामाहुः परमां शक्तिमीश्वरेच्छानुवर्तिनीम् ॥ ॥२,८।२१च्द्।
तामपश्यन्महेशस्य वामतो वामलोचनाम् ॥ ॥२,८।२२अब्।
ये विनिर्धूतसंसाराः प्राप्ताः शैवं परं पदम् ॥ ॥२,८।२२च्द्।
नित्यसिद्धाश्च ये वान्यं ते च दृष्टा गणेश्वराः ॥ ॥२,८।२३अब्।
अथ तं तुष्टुवुर्देवा देव्या सह महेश्वरम् ॥ ॥२,८।२३च्द्।
स्तोत्रैर्माहेश्वरैर्दिव्यैः श्रोतैः पौराणिकैरपि ॥ ॥२,८।२४अब्।
देवो ऽपि देवानालोक्य घृणया वृषभध्वजः ॥ ॥२,८।२४च्द्।
तुष्टो ऽस्मीत्याह सुप्रीतस्स्वभावमधुरां गिरम् ॥ ॥२,८।२५अब्।
अथ सुप्रीतमनसं प्रणिपत्य वृषध्वजम् ॥ ॥२,८।२५च्द्।
अर्थमहत्तमं देवाः पप्रच्छुरिममादरात् ॥ ॥२,८।२५एफ़्।
देवा ऊचुः
भगवन्केन मार्गेण पूजनीयो ऽसि भूतले ॥ ॥२,८।२६अब्।
कस्याधिकारः पूजायां वक्तुमर्हसि तत्त्वतः ॥ ॥२,८।२६च्द्।
ततः सस्मितमालोक्य देवीं देववरोहरः ॥ ॥२,८।२७अब्।
स्वरूपं दर्शयामास घोरं सूर्यात्मकं परम् ॥ ॥२,८।२७च्द्।
सर्वैश्वर्यगुणोपेतं सर्वतेजोमयं परम् ॥ ॥२,८।२८अब्।
शक्तिभिर्मूर्तिभिश्चाङ्गैर्ग्रहैर्देवैश्च संवृतम् ॥ ॥२,८।२८च्द्।
अष्टबाहुं चतुर्वक्त्रमर्धनारीकमद्भुतम् ॥ ॥२,८।२९अब्।
दृष्ट्वैवमद्भुताकारं देवा विष्णुपुरोगमाः ॥ ॥२,८।२९च्द्।
बुद्ध्वा दिवाकरं देवं देवीं चैव निशाकरम् ॥ ॥२,८।३०अब्।
पञ्चभूतानि शेषाणि तन्मयं च चराचरम् ॥ ॥२,८।३०च्द्।
एवमुक्त्वा नमश्चक्रुस्तस्मै चार्घ्यं प्रदाय वै ॥ ॥२,८३१अब्।
सिन्दूरवर्णाय सुमण्डलाय सुवर्णवर्णाभरणाय तुभ्यम् ॥ ॥२,८।३२अब्।
पद्माभनेत्राय सपङ्कजाय ब्रह्मेन्द्रनारायणकारणाय ॥ ॥२,८।३२च्द्।
सुरत्नपूर्णं ससुवर्णतोयं सुकुङ्कुमाद्यं सकुशं सपुष्पम् ॥ ॥२,८।३३अब्।
प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद ॥ ॥२,८।३३च्द्।
नमश्शिवाय शान्ताय सगणायादिहेतवे ॥ ॥२,८।३४अब्।
१ परस्मैपदमार्षम्
रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये ॥ ॥२,८।३४च्द्।
यश्शिवं मण्डले सौरे सम्पूज्यैव समाहितः ॥ ॥२,८।३५अब्।
प्रातर्मध्याह्नसायाह्ने प्रदद्यादर्घ्यमुत्तमम् ॥ ॥२,८।३५च्द्।
प्रणमेद्वा पठेदेताञ्छ्लोकाञ्छ्रुतिमुखानिमान् ॥ ॥२,८।३६अब्।
न तस्य दुर्ल्लभं किञ्चिद्भक्तश्चेन्मुच्यते दृढम् ॥ ॥२,८।३६च्द्।
तस्मादभ्यर्चयेनित्यं शिवमादित्यरूपिणम् ॥ ॥२,८।३७अब्।
धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा ॥ ॥२,८।३७च्द्।
अथ देवान्समालोक्य मण्डलस्थो महेश्वरः ॥ ॥२,८।३८अब्।
सर्वागमोत्तरं दत्त्वा शास्त्रमन्तरधाद्धरः ॥ ॥२,८।३८च्द्।
तत्र पूजाधिकारो ऽयं ब्रह्मक्षत्रविशामिति ॥ ॥२,८।३९अब्।
ज्ञात्वा प्रणम्य देवेशं देवा जग्मुर्यथागतम् ॥ ॥२,८।३९च्द्।
अथ कालेन महता तस्मिञ्छास्त्रे तिरोहिते ॥ ॥२,८।४०अब्।
भर्तारं परिपप्रच्छ तदङ्कस्था महेश्वरी ॥ ॥२,८।४०च्द्।
तया स चोदितो देवो देव्या चन्द्रविभूषणः ॥ ॥२,८।४१अब्।
अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम् ॥ ॥२,८।४१च्द्।
प्रवर्तितं च तल्लोके नियोगात्परमेष्ठिनः ॥ ॥२,८।४२अब्।
मयागस्त्येन गुरुणा दधीचेन महर्षिणा ॥ ॥२,८।४२च्द्।
स्वयमप्यवतीर्योर्व्यां युगावर्तेषु शूलधृक् ॥ ॥२,८।४३अब्।
स्वाश्रितानां विमुक्त्यर्थं कुरुते ज्ञानसन्ततिम् ॥ ॥२,८।४३च्द्।
ऋभुस्सत्यो भार्गवश्च ह्यङ्गिराः सविता द्विजाः ॥ ॥२,८।४४अब्।
मृत्युः शतक्रतुर्धीमान्वसिष्ठो मुनिपुङ्गवः ॥ ॥२,८।४४च्द्।
सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुङ्गवः ॥ ॥२,८।४५अब्।
शततेजास्स्वयं धर्मो नारायण इति श्रुतः ॥ ॥२,८।४५च्द्।
स्वरक्षश्चारुणिर्धीमांस्तथा चैव कृतञ्जयः ॥ ॥२,८।४६अब्।
कृतञ्जयो भरद्वाजो गौतमः कविरुत्तमः ॥ ॥२,८।४६च्द्।
वाचःस्रवा मुनिस्साक्षात्तथा सूक्ष्मायणिः शुचिः ॥ ॥२,८।४७अब्।
तृणबिन्दुर्मुनिः कृष्णः शक्तिः शाक्तेय उत्तरः ॥ ॥२,८।४७च्द्।
जातूकर्ण्यो हरिस्साक्षात्कृष्णद्वैपायनो मुनिः ॥ ॥२,८।४८अब्।
व्यासावताराञ्छृण्वन्तु कल्पयोगेश्वरान्क्रमात् ॥ ॥२,८।४८च्द्।
लैङ्गे व्यासावतारा हि द्वापरां तेषु सुव्रताः ॥ ॥२,८।४९अब्।
योगाचार्यावताराश्च तथा शिष्येषु शूलिनः ॥ ॥२,८।४९च्द्।
तत्र तत्र विभोः शिष्याश्चत्वारः स्युर्महौजसः ॥ ॥२,८।५०अब्।
शिष्यास्तेषां प्रशिष्याश्च शतशो ऽथ सहस्रशः ॥ ॥२,८।५०च्द्।
तेषां सम्भावनाल्लोके शैवाज्ञाकरणादिभिः ॥ ॥२,८।५१अब्।
भाग्यवन्तो विमुच्यन्ते भक्त्या चात्यन्तभाविताः ॥ ॥२,८।५१च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वज्ञाने व्यासावतारवर्णनं नामाष्टमो ऽध्यायः