०७ शिवतत्त्वकथनम्

उपमन्युरुवच
शक्तिस्स्वाभविकी तस्य विद्या विश्वविलक्षणा ॥ ॥२,७।१अब्।
एकानेकस्य रूपेण भाति भानोरिव प्रभा ॥ ॥२,७।१च्द्।
अनन्ताः शक्तयो यस्या इच्छाज्ञानक्रियादयः ॥ ॥२,७।२अब्।
मायाद्याश्चाभवन्वह्नोर्विस्फुलिङ्गा यथा तथा ॥ ॥२,७।२च्द्।
सदाशिवेश्वराद्या हि विद्या ऽविद्येश्वरादयः ॥ ॥२,७।३अब्।
अभवन्पुरुषाश्चास्याः प्रकृतिश्च परात्परा ॥ ॥२,७।३च्द्।
महदादिविशेषान्तास्त्वजाद्याश्चापि मूर्तयः ॥ ॥२,७।४अब्।
यच्चान्यदस्ति तत्सर्वं तस्याः कार्यं न संशयः ॥ ॥२,७।४च्द्।
सा शक्तिस्सर्वगा सूक्ष्मा प्रबोधानन्दरूपिणी ॥ ॥२,७।५अब्।
शक्तिमानुच्यते देवश्शिवश्शीतांशुभूषणः ॥ ॥२,७।५च्द्।
वेद्यश्शिवश्शिवा विद्या प्रज्ञा चैव श्रुतिः स्मृतिः ॥ ॥२,७।६अब्।
धृतिरेषा स्थितिर्निष्ठा ज्ञानेच्छाकर्मशक्तयः ॥ ॥२,७।६च्द्।
आज्ञा चैव परं ब्रह्म द्वे विद्ये च परापरे ॥ ॥२,७।७अब्।
शुद्धविद्या शुद्धकला सर्वं शक्तिकृतं यतः ॥ ॥२,७।७च्द्।
माया च प्रकृतिर्जीवो विकारो विकृतिस्तथा ॥ ॥२,७।८अब्।
असच्च सच्च यत्किञ्चित्तया सर्वमिदं ततम् ॥ ॥२,७।८च्द्।
सा देवी मायया सर्वं ब्रह्माण्डं सचराचरम् ॥ ॥२,७।९अब्।
मोहयत्यप्रयत्नेन मोचयत्यपि लीलया ॥ ॥२,७।९च्द्।
अनया सह सर्वेशः सप्तविंशप्रकारया ॥ ॥२,७।१०अब्।
विश्वं व्याप्य स्थितस्तस्मान्मुक्तिरत्र प्रवर्तते ॥ ॥२,७।१०च्द्।
मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः ॥ ॥२,७।११अब्।
संशयाविष्टमनसो विस्मृशन्ति यथातथम् ॥ ॥२,७।११च्द्।
५५१ब्

किं कारणं कुतो जाता जीवामः केन वा वयम् ॥ ॥२,७।१२अब्।
कुत्रास्माकं सम्प्रतिष्ठा केन वाधिष्ठिता वयम् ॥ ॥२,७।१२च्द्।
केन वर्तामहे शश्वत्सुखेष्वन्येषु चानिशम् ॥ ॥२,७।१३अब्।
अविलङ्घ्या च विश्वस्य व्यवस्था केन वा कृता ॥ ॥२,७।१३च्द्।
कालस्य भावो नियतिर्यदृच्छा नात्र युज्यते ॥ ॥२,७।१४अब्।
भूतानि योनिः पुरुषो योगी चैषां परो ऽथ वा ॥ ॥२,७।१४च्द्।
अचेतनत्वात्कालादेश्चेतनत्वेपि चात्मनः ॥ ॥२,७।१५अब्।
सुखदुःखानि भूतत्वादनीशत्वाद्विचार्यते ॥ ॥२,७।१५च्द्।
तद्ध्यानयोगानुगतां प्रपश्यञ्छक्तिमैश्वरीम् ॥ ॥२,७।१६अब्।
पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम् ॥ ॥२,७।१६च्द्।
तया विच्छिन्नपाशास्ते सर्वकारणकारणम् ॥ ॥२,७।१७अब्।
शक्तिमन्तं महादेवमपश्यन्दिव्यचक्षुषा ॥ ॥२,७।१७च्द्।
यः कारणान्यशेषाणि कालात्मसहितानि च ॥ ॥२,७।१८अब्।
अप्रमेयो ऽनया शक्त्या सकलं यो ऽधितिष्ठति ॥ ॥२,७।१८च्द्।
ततः प्रसादयोगेन योगेन परमेण च ॥ ॥२,७।१९अब्।
दृष्टेन भक्तियोगेन दिव्यः गतिमवाप्नुयुः ॥ ॥२,७।१९च्द्।
तस्मात्सह तथा शक्त्या हृदि पश्यन्ति ये शिवम् ॥ ॥२,७।२०अब्।
तेषां शाश्वतिकी शान्तिर्नैतरेषामिति श्रुतिः ॥ ॥२,७।२०च्द्।
न हि शक्तिमतश्शक्त्या विप्रयोगो ऽस्ति जातुचित् ॥ ॥२,७।२१अब्।
तस्माच्छक्तेः शक्तिमतस्तादात्म्यान्निर्वृतिर्द्वयोः ॥ ॥२,७।२१च्द्।
क्रमो विवक्षितो नूनं विमुक्तौ ज्ञानकर्मणोः ॥ ॥२,७।२२अब्।
प्रसादे सति सा मूर्तिर्यस्मात्करतले स्थिता ॥ ॥२,७।२२च्द्।
देवो वा दानवो वापि पशुर्वा विहगो ऽपि वा ॥ ॥२,७।२३अब्।
कीरो वाथ कृमिर्वापि मुच्यते तत्प्रसादतः ॥ ॥२,७।२३च्द्।
गर्भस्थो जायमानो वा बालो वा तरुणो।पि वा ॥ ॥२,७।२४अब्।
वृद्धो वा म्रियमाणो वा स्वर्गस्थो वाथ नारकी ॥ ॥२,७।२४च्द्।
पतितो वापि धर्मात्मा पण्डितो मूढ एव वा ॥ ॥२,७।२५अब्।
प्रसादे तत्क्षणादेव मुच्यते नात्र संशयः ॥ ॥२,७।२५च्द्।
अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः ॥ ॥२,७।२६अब्।
प्रसीदति न सन्देहो विगृह्य विविधान्मलान् ॥ ॥२,७।२६च्द्।
प्रसदादेव सा भक्तिः प्रसादो भक्तिसम्भवः ॥ ॥२,७।२७अब्।
अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति ॥ ॥२,७।२७च्द्।
प्रसादपूर्विका येयं भुक्तिमुक्तिविधायिनी ॥ ॥२,७।२८अब्।
नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना ॥ ॥२,७।२८च्द्।
अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ॥ ॥२,७।२९अब्।
विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः ॥ ॥२,७।२९च्द्।
प्रसन्ने सति देवेश पशौ तस्मिन्प्रवर्तते ॥ ॥२,७।३०अब्।
अस्ति नाथो ममेत्यल्पा भक्तिर्बुद्धिपुरस्सरा ॥ ॥२,७।३०च्द्।
तपसा विविधैश्शैवैर्धर्मैस्संयुज्यते नरः ॥ ॥२,७।३१अब्।
तत्र योगे तदभ्यासस्ततो भक्तिः परा भवेत् ॥ ॥२,७।३१च्द्।
परया च तया भक्त्या प्रसादो लभ्यते परः ॥ ॥२,७।३२अब्।
प्रसादात्सर्वपाशेभ्यो मुक्तिर्मुक्तस्य निर्वृतिः ॥ ॥२,७।३२च्द्।
५५२अ

अल्पभावो ऽपि यो मर्त्यस्सो ऽपि जन्मत्रयात्परम् ॥ ॥२,७।३३अब्।
नयोनियन्त्रपीडायै भवेन्नैवात्र संशयः ॥ ॥२,७।३३च्द्।
साङ्गा ऽनङ्गा च या सेवा सा भक्तिरिति कथ्यते ॥ ॥२,७।३४अब्।
सा पुनर्भिद्यते त्रेधा मनोवाक्कायसाधनैः ॥ ॥२,७।३४च्द्।
शिवरूपादिचिन्ता या सा सेवा मानसी स्मृता ॥ ॥२,७।३५अब्।
जपादिर्वाचिकी सेवा कर्मपूजादि कायिकी ॥ ॥२,७।३५च्द्।
सेयं त्रिसाधना सेवा शिवधर्मश्च कथ्यते ॥ ॥२,७।३६अब्।
स तु पञ्चविधः प्रोक्तः शिवेन परमात्मना ॥ ॥२,७।३६च्द्।
तपः कर्म जपो ध्यानं ज्ञानं चेति समासतः ॥ ॥२,७।३७अब्।
कर्मलिङ्गार्चनाद्यं च तपश्चान्द्रायणादिकम् ॥ ॥२,७।३७च्द्।
जपस्त्रिधा शिवाभ्यासश्चिन्ता ध्यानं शिवस्य तु ॥ ॥२,७।३८अब्।
शिवागमोक्तं यज्ज्ञानं तदत्र ज्ञानमुच्यते ॥ ॥२,७।३८च्द्।
श्रीकण्ठेन शिवेनोक्तं शिवायै च शिवागमः ॥ ॥२,७।३९अब्।
शिवाश्रितानां कारुण्याच्छ्रेयसामेकसाधनम् ॥ ॥२,७।३९च्द्।
तस्माद्विवर्धयेद्भक्तिं शिवे परमकारणे ॥ ॥२,७।४०अब्।
त्यजेच्च विषयासङ्गं श्रेयो ऽर्थी मतिमान्नरः ॥ ॥२,७।४०च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वकथनं नाम सप्तमो ऽध्यायः