०६ शिवतत्त्ववर्णनम्

उपमन्युरुवाच
नशिवस्याणवो बन्धः कार्यो मायेय एव वा ॥ ॥२,६।१अब्।
प्राकृतो वाथ बोद्धा वा ह्यहङ्कारात्मकस्तथा ॥ ॥२,६।१च्द्।
नैवास्य मानसो बन्धो न चैत्तो नेन्द्रियात्मकः ॥ ॥२,६।२अब्।
न च तन्मात्रबन्धो ऽपि भूतबन्धो न कश्चन ॥ ॥२,६।२च्द्।
न च कालः कला चैव न विद्या नियतिस्तथा ॥ ॥२,६।३अब्।
न रागो न च विद्वेषः शम्भोरमिततेजसः ॥ ॥२,६।३च्द्।
न चास्त्यभिनिवेशो ऽस्य कुशला ऽकुशलान्यपि ॥ ॥२,६।४अब्।
कर्माणि तद्विपाकश्च सुखदुःखे च तत्फले ॥ ॥२,६।४च्द्।
आशयैर्नापि सम्बन्धः संस्कारैः कर्मणामपि ॥ ॥२,६।५अब्।
भोगैश्च भोगसंस्कारैः कालत्रितयगोचरैः ॥ ॥२,६।५च्द्।
न तस्य कारणं कर्ता नादिरन्तस्तथान्तरम् ॥ ॥२,६।६अब्।
न कर्म करणं वापि नाकार्यं कार्यमेव च ॥ ॥२,६।६च्द्।
नास्य बन्धुरबन्धुर्वा नियन्ता प्रेरको ऽपि वा ॥ ॥२,६।७अब्।
न पतिर्न गुरुस्त्राता नाधिको न समस्तथा ॥ ॥२,६।७च्द्।
न जन्ममरणे तस्य न काङ्क्षितमकाङ्क्षितम् ॥ ॥२,६।८अब्।
न विधिर्न निषेधश्च न मुक्तिर्न च बन्धनम् ॥ ॥२,६।८च्द्।
नास्ति यद्यदकल्याणं तत्तदस्य कदाचन ॥ ॥२,६।९अब्।
कल्याणं सकलं चास्ति परमात्मा शिवो यतः ॥ ॥२,६।९च्द्।
स शिवस्सर्वमेवेदमधिष्ठाय स्वशक्तिभिः ॥ ॥२,६।१०अब्।
अप्रच्युतस्स्वतो भावः स्थितः स्थाणुरतः स्मृतः ॥ ॥२,६।१०च्द्।
शिवेनाधिष्ठितं यस्माज्जगत्स्थावरजङ्गमम् ॥ ॥२,६।११अब्।
सर्वरूपः स्मृतश्शर्वस्तथा ज्ञात्वा न मुह्यति ॥ ॥२,६।११च्द्।
शर्वो रुद्रो नमस्तस्मै पुरुषः सत्परो महान् ॥ ॥२,६।१२अब्।
हिरण्यबाहुर्भगवान्हिरण्यपतिरीश्वरः ॥ ॥२,६।१२च्द्।
अम्बिकापतिरीशानः पिनाकी वृषवाहनः ॥ ॥२,६।१३अब्।
एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिङ्गलः ॥ ॥२,६।१३च्द्।
बालाग्रमात्रो हृन्मध्ये विचिन्त्यो दहरान्तरे ॥ ॥२,६।१४अब्।
हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च ॥ ॥२,६।१४च्द्।
यो ऽवसर्पत्य सौ देवो नीलग्रीवो हिरण्मयः ॥ ॥२,६।१५अब्।
सौम्यो घोरस्तथा मिश्रश्चाक्षारश्चामृतो ऽव्ययः ॥ ॥२,६।१५च्द्।
स पुंविशेषः परमो भगवानन्तकान्तकः ॥ ॥२,६।१६अब्।
चेतनचेतनोन्मुक्तः प्रपञ्चाच्च परात्परः ॥ ॥२,६।१६च्द्।
शिवेनातिशयत्वेन ज्ञानैश्वर्ये विलोकिते ॥ ॥२,६।१७अब्।
लोकेशातिशयत्वेन स्थितं प्राहुर्मनीषिणः ॥ ॥२,६।१७च्द्।
प्रतिसर्गप्रसूतानां ब्रह्मणां शास्त्रविस्तरम् ॥ ॥२,६।१८अब्।
उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् ॥ ॥२,६।१८च्द्।
कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः ॥ ॥२,६।१९अब्।
सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः ॥ ॥२,६।१९च्द्।
शुद्धा स्वाभाविकी तस्य शक्तिस्सर्वातिशायिनी ॥ ॥२,६।२०अब्।
ज्ञानमप्रतिमं नित्यं वपुरत्यन्तनिर्मितम् ॥ ॥२,६।२०च्द्।
ऐश्वर्यमप्रतिद्वन्द्वं सुखमात्यन्तिकं बलम् ॥ ॥२,६।२१अब्।
तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च ॥ ॥२,६।२१च्द्।
परिपूर्णस्य सर्गाद्यैर्नात्मनो ऽस्ति प्रयोजनम् ॥ ॥२,६।२२अब्।
परानुग्रह एवास्य फलं सर्वस्य कर्मणः ॥ ॥२,६।२२च्द्।
५५१अ

प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ॥ ॥२,६।२३अब्।
शिवरुद्रादिशब्दानां प्रणवो हि परस्स्मृतः ॥ ॥२,६।२३च्द्।
शम्भो प्रणववाच्यस्य भवनात्तज्जपादपि ॥ ॥२,६।२४अब्।
या सिद्धिस्सा परा प्राप्या भवत्येव न संशयः ॥ ॥२,६।२४च्द्।
तस्मादेकाक्षरं देवमाहुरागमपारगाः ॥ ॥२,६।२५अब्।
वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः ॥ ॥२,६।२५च्द्।
अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्धनि ॥ ॥२,६।२६अब्।
अकारश्चाप्युकारश्च मकारो नाद इत्यपि ॥ ॥२,६।२६च्द्।
अकारं बह्वृचं प्राहुरुकारो यजुरुच्यते ॥ ॥२,६।२७अब्।
मकारः सामनादोस्य श्रुतिराथर्वणी स्मृताः ॥ ॥२,६।२७च्द्।
अकारश्च महाबीजं रजः स्रष्टा चतुर्मुखः ॥ ॥२,६।२८अब्।
उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः ॥ ॥२,६।२८च्द्।
मकारः पुरुषो बीजं तमः संहारको हरः ॥ ॥२,६।२९अब्।
नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः ॥ ॥२,६।२९च्द्।
सर्वं तिसृभिरेवेदं मात्राभिर्निखिलं त्रिधा ॥ ॥२,६।३०अब्।
अभिधाय शिवात्मानं बोधयत्यर्धमात्रया ॥ ॥२,६।३०च्द्।
यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायो ऽस्ति किञ्चित् ॥ ॥२,६।३१अब्।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ॥२,६।३१च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः