०५ पशुपतित्वज्ञानयोगः

उपमन्युरुवाच
विग्रहं देवदेवस्य विश्वमेतच्चराचरम् ॥ ॥२,५।१अब्।
तदेवं न विजानन्ति पशवः पाशगौरवात् ॥ ॥२,५।१च्द्।
तमेकमेव बहुधा वदन्ति यदुनन्दन ॥ ॥२,५।२अब्।
अजानन्तः परं भावमविकल्पं महर्षयः ॥ ॥२,५।२च्द्।
अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा ॥ ॥२,५।३अब्।
केचिदाहुर्महादेवमनादिनिधनं परम् ॥ ॥२,५।३च्द्।
भूतेन्द्रियान्तःकरणप्रधानविषयात्मकम् ॥ ॥२,५।४अब्।
अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम् ॥ ॥२,५।४च्द्।
बृहत्त्वाद्बृहणत्वाद्वा ब्रह्म चेत्यभिधीयते ॥ ॥२,५।५अब्।
उभे ते ब्रह्मणो रूपे ब्रह्मणो ऽधिपतेः प्रभोः ॥ ॥२,५।५च्द्।
विद्या ऽविद्यास्वरूपीति कैश्चिदीशो निगद्यते ॥ ॥२,५।५एफ़्।
विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् ॥ ॥२,५।६अब्।
विद्या ऽविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः ॥ ॥२,५।६च्द्।
रूपमेव न सन्देहो विश्वं तस्य वशे यतः ॥ ॥२,५।७अब्।
भ्रान्तिर्विद्या परा चेति शार्वं रूपं परं विदुः ॥ ॥२,५।७च्द्।
अयथाबुद्धिरर्थेषु बहुधा भ्रान्तिरुच्यते ॥ ॥२,५।८अब्।
यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते ॥ ॥२,५।८च्द्।
विकल्परहितं तत्त्वं परमित्यभिधीयते ॥ ॥२,५।९अब्।
वैपरीत्यादसच्छब्दः कथ्यते वेदवादिभिः ॥ ॥२,५।९च्द्।
तयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते ॥ ॥२,५।१०अब्।
क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे ॥ ॥२,५।१०च्द्।
क्षरस्सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ ॥२,५।११अब्।
उभे ते परमेशस्य रूपे तस्य वशे यतः ॥ ॥२,५।११च्द्।
तयोः परः शिवः शान्तः क्षराक्षरापरस्स्मृतः ॥ ॥२,५।१२अब्।
समष्टिव्यष्ठिरूपं च समष्टिव्यष्टिकारणम् ॥ ॥२,५।१२च्द्।
वदन्ति मुनयः केचिच्छिवं परमकारणम् ॥ ॥२,५।१३अब्।
समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तं तथैव च ॥ ॥२,५।१३च्द्।
ते रूपे परमेशस्य तदिच्छायाः प्रवर्तनात् ॥ ॥२,५।१४अब्।
तयोः कारणभावेन शिवं परमकारणम् ॥ ॥२,५।१४च्द्।
कारणार्थविदः प्राहुः समष्टिव्यष्टिकारणम् ॥ ॥२,५।१५अब्।
जातिव्यक्तिस्वरूपीति कथ्यते कैश्चिदीश्वरः ॥ ॥२,५।१५च्द्।
या पिण्डेप्यनुवर्तेत सा जातिरिति कथ्यते ॥ ॥२,५।१६अब्।
व्यक्तिर्व्यावृत्तिरूपं तं पिण्डजातेः समाश्रयम् ॥ ॥२,५।१६च्द्।
जातयो व्यक्तयश्चैव तदाज्ञापरिपालिताः ॥ ॥२,५।१७अब्।
यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः ॥ ॥२,५।१७च्द्।
प्रधानपुरुषव्यक्तकालात्मा कथ्यते शिवः ॥ ॥२,५।१८अब्।
प्रधानं प्रकृतिं प्राहुःक्षेत्रज्ञं पुरुषं तथा ॥ ॥२,५।१८च्द्।
त्रयोविंशतितत्त्वानि व्यक्तमाहुर्मनीषिणः ॥ ॥२,५।१९अब्।
कालः कार्यप्रपञ्चस्य परिणामैककारणम् ॥ ॥२,५।१९च्द्।
एषामीशो ऽधिपो धाता प्रवर्तकनिवर्तकः ॥ ॥२,५।२०अब्।
आविर्भावतिरोभावहेतुरेकः स्वराडजः ॥ ॥२,५।२०च्द्।
तस्मात्प्रधानपुरुषव्यक्तकालस्वरूपवान् ॥ ॥२,५।२१अब्।
५५०अ

हेतुर्नेताधिपस्तेषां धाता चोक्ता महेश्वरः ॥ ॥२,५।२१च्द्।
विराड्ढिरण्यगर्भात्मा कैश्चिदीशो निगद्यते ॥ ॥२,५।२२अब्।
हिरण्यगर्भो लोकानां हेतुर्विश्वात्मको विराट् ॥ ॥२,५।२२च्द्।
अन्तर्यामी परश्चेति कथ्यते कविभिश्शिवः ॥ ॥२,५।२३अब्।
प्राज्ञस्तैजसविश्वात्मेत्यपरे सम्प्रचक्षते ॥ ॥२,५।२३च्द्।
तुरीयमपरे प्राहुः सौम्यमेव परे विदुः ॥ ॥२,५।२४अब्।
माता मानं च मेयं च मतिं चाहुरथापरे ॥ ॥२,५।२४च्द्।
कर्ता क्रिया च कार्यं च करणं कारणं परे ॥ ॥२,५।२५अब्।
जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे सम्प्रचक्षते ॥ ॥२,५।२५च्द्।
तुरीयमपरे प्राहुस्तुर्यातीतमितीतरे ॥ ॥२,५।२६अब्।
तमाहुर्विगुणं केचिद्गुणवन्तं परे विदुः ॥ ॥२,५।२६च्द्।
केचित्संसारिणं प्राहुस्तमसंसारिणं परे ॥ ॥२,५।२७अब्।
स्वतन्त्रमपरे प्राहुरस्वतन्त्रं परे विदुः ॥ ॥२,५।२७च्द्।
घोरमित्यपरे प्राहुः सौम्यमेव परे विदुः ॥ ॥२,५।२८अब्।
रागवन्तं परे प्राहुर्वीतरागं तथा परे ॥ ॥२,५।२८च्द्।
निष्क्रियं च परे प्राहुः सक्रियं चेतरे जनाः ॥ ॥२,५।२९अब्।
निरिन्द्रियं परे प्राहुः सेन्द्रियं च तथापरे ॥ ॥२,५।२९च्द्।
ध्रुवमित्यपरे प्राहुस्तमध्रुवामितीरते ॥ ॥२,५।३०अब्।
अरूपं केचिदाहुर्वै रूपवन्तं परे विदुः ॥ ॥२,५।३०च्द्।
अदृश्यमपरे प्राहुर्दृश्यमित्यपरे विदुः ॥ ॥२,५।३१अब्।
वाच्यमित्यपरे प्राहुरवाच्यमिति चापरे ॥ ॥२,५।३१च्द्।
शब्दात्मकं परे प्राहुश्शब्दातीतमथापरे ॥ ॥२,५।३१एफ़्।
केचिच्चिन्तामयं प्राहुश्चिन्तया रहितं परे ॥ ॥२,५।३२अब्।
ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे ॥ ॥२,५।३२च्द्।
केचिच्ज्ञेयमिति प्राहुरज्ञेयमिति केचन ॥ ॥२,५।३३अब्।
परमेके तमेवाहुरपरं च तथा परे ॥ ॥२,५।३३च्द्।
एवं विकल्प्यमानं तु याथात्म्यं परमेष्ठिनः ॥ ॥२,५।३४अब्।
नाध्यवस्यन्ति मुनयो नानाप्रत्ययकारणात् ॥ ॥२,५।३४च्द्।
ये पुनस्सर्वभावेन प्रपन्नाः परमेश्वरम् ॥ ॥२,५।३५अब्।
ते हि जानन्त्ययत्नेन शिवं परमकारणम् ॥ ॥२,५।३५च्द्।
यावत्पशुर्नैव पश्यत्यनीशं १ पुराणं भुवनस्येशितारम् ॥ ॥२,५।३६अब्।
तावद्दुःखे वर्तते बद्धपाशः संसारे ऽस्मिञ्चक्रनेमिक्रमेण ॥ ॥२,५।३६च्द्।
यदा २ पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ॥ ॥२,५।३७अब्।
तदाविद्वान्पुण्यपापे विधूय निरञ्जनः परममुपैति साम्यम् ॥ ॥२,५।३७च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो नाम पञ्चमो ऽध्यायः

१ नास्तीशो यस्मात्सो ऽनीश इति बहुव्रीहिः परन्तु क्लिष्टकल्पनापेक्षया यावत्पशुश्चेश्वरं न प्रपश्येदिति पाठे ऽर्थस्सुगमः
२ यदा पश्यो वीक्षते रुक्मेति पाठे तु भग्नप्रक्रमस्तस्मादात्मनेपदमार्षमित्येव समाधिः
५५०ब्