०४ गौरीशङ्करविभूतियोगः

कृष्ण उवाच
भगवन्परमेशस्य शर्वस्यामिततेजसः ॥ ॥२,४।१अब्।
मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम् ॥ ॥२,४।१च्द्।
अथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः ॥ ॥२,४।२अब्।
स्त्रीपुम्भावात्मकं चेदं ताभ्यां कथमधिष्ठितम् ॥ ॥२,४।२च्द्।
उपमन्युरुवाच
श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः ॥ ॥२,४।३अब्।
वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते ॥ ॥२,४।३च्द्।
शक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान् ॥ ॥२,४।४अब्।
तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम् ॥ ॥२,४।४च्द्।
वस्तु किञ्चिदचिद्रूपं किञ्चिद्वस्तु चिदात्मकम् ॥ ॥२,४।५अब्।
५४७ब्

द्वयं शुद्धमशुद्धं च परं चापरमेव च ॥ ॥२,४।५च्द्।
यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् ॥ ॥२,४।६अब्।
तदेवाशुद्धमपरमितरं तु परं शुभम् ॥ ॥२,४।६च्द्।
अपरं च परं चैव द्वयं चिदचिदात्मकम् ॥ ॥२,४।७अब्।
शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः ॥ ॥२,४।७च्द्।
शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ ॥ ॥२,४।८अब्।
ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ ॥ ॥२,४।८च्द्।
यथा शिवस्तथा देवी यथा देवी तथा शिवः ॥ ॥२,४।९अब्।
नानयोरन्तरं विद्याच्चन्द्रचन्द्रिकयोरिव ॥ ॥२,४।९च्द्।
चन्द्रो न खलु भात्येष यथा चन्द्रिकया विना ॥ ॥२,४।१०अब्।
न भाति विद्यमानो ऽपि तथा शक्त्या विना शिवः ॥ ॥२,४।१०च्द्।
प्रभया हि विनायद्वद्भानुरेष न विद्यते ॥ ॥२,४।११अब्।
प्रभा च भानुना तेन सुतरां तदुपाश्रया ॥ ॥२,४।११च्द्।
एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ॥ ॥२,४।१२अब्।
न शिवेन विना शक्तिर्न शक्त्या च विना शिवः ॥ ॥२,४।१२च्द्।
शक्तौयया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम् ॥ ॥२,४।१३अब्।
आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया ॥ ॥२,४।१३च्द्।
यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः ॥ ॥२,४।१४अब्।
समानधर्मिणीमेव शिवस्य परमात्मनः ॥ ॥२,४।१४च्द्।
सैका परा च चिद्रूपा शक्तिः प्रसवधर्मिणी ॥ ॥२,४।१५अब्।
विभज्य बहुधा विश्वं विदधाति शिवेच्छया ॥ ॥२,४।१५च्द्।
सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता ॥ ॥२,४।१६अब्।
शिवया च विपर्यस्तं यया ततमिदं जगत् ॥ ॥२,४।१६च्द्।
एकधा च द्विधा चैव तथा शतसहस्रधा ॥ ॥२,४।१७अब्।
शक्तयः खलु भिद्यन्ते बहुधा व्यवहारतः ॥ ॥२,४।१७च्द्।
शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता ॥ ॥२,४।१८अब्।
ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ ॥२,४।१८च्द्।
ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया ॥ ॥२,४।१९अब्।
तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ ॥ ॥२,४।१९च्द्।
नादाद्विनिःसृतो बिन्दुर्बिन्दोदेवस्सदाशिवः ॥ ॥२,४।२०अब्।
तस्मान्महेश्वरो जातः शुद्धविद्या महेश्वरात् ॥ ॥२,४।२०च्द्।
सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः ॥ ॥२,४।२१अब्।
या सा वर्णस्वरूपेण मातृकेपि विजृम्भते ॥ ॥२,४।२१च्द्।
अथानन्तसमावेशान्माया कालमवासृजत् ॥ ॥२,४।२२अब्।
नियतिञ्च कलां विद्यां कलातोरागपूरुषौ ॥ ॥२,४।२२च्द्।
मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् ॥ ॥२,४।२३अब्।
त्रिगुणाच्च ततो व्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः ॥ ॥२,४।२३च्द्।
सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत् ॥ ॥२,४।२४अब्।
गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्तयः ॥ ॥२,४।२४च्द्।
अभवन्महदादीनि तत्त्वानि च यथाक्रमम् ॥ ॥२,४।२५अब्।
तेभ्यस्स्युरण्डपिण्डानि त्वसङ्ख्यानि शिवाज्ञया ॥ ॥२,४।२५च्द्।
५४८अ

अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः ॥ ॥२,४।२५च्द्।
शरीरान्तरभेदेन शक्तेर्भेदाः प्रकीर्तिताः ॥ ॥२,४।२६अब्।
नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः ॥ ॥२,४।२६च्द्।
रुद्रस्य रौद्री सा शक्तिर्विष्णौर्वै वैष्णवी मता ॥ ॥२,४।२७अब्।
ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्रस्यैन्द्रीति कथ्यते ॥ ॥२,४।२७च्द्।
किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् ॥ ॥२,४।२८अब्।
शक्यात्मनैव तद्व्याप्तं यथा देहे ऽन्तरात्मना ॥ ॥२,४।२८च्द्।
तस्माच्छक्तिमयं सर्वं जगत्स्थावरजङ्गमम् ॥ ॥२,४।२९अब्।
कला या परमा शक्तिः कथिता परमात्मनः ॥ ॥२,४।२९च्द्।
एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी ॥ ॥२,४।३०अब्।
स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः ॥ ॥२,४।३०च्द्।
ज्ञानक्रिया चिकीर्षाभिस्तिसृभिस्स्वात्मशक्तिभिः ॥ ॥२,४।३१अब्।
शक्तिमानीश्वरः शश्वद्विश्वं व्याप्याधितिष्ठति ॥ ॥२,४।३१च्द्।
इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका ॥ ॥२,४।३२अब्।
इच्छाशक्तिर्महेशस्य नित्या कार्यनियामिका ॥ ॥२,४।३२च्द्।
ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा ॥ ॥२,४।३३अब्।
प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति ॥ ॥२,४।३३च्द्।
यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत् ॥ ॥२,४।३४अब्।
कल्पयत्यखिलं कार्यं क्षणात्सङ्कल्परूपिणी ॥ ॥२,४।३४च्द्।
यथा शक्तित्रयोत्थानं शक्तिप्रसवधर्मिणी ॥ ॥२,४।३५अब्।
शक्त्या परमया नुन्ना प्रसूते सकलं जगत् ॥ ॥२,४।३५च्द्।
एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः ॥ ॥२,४।३६अब्।
शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत् ॥ ॥२,४।३६च्द्।
यथा न जायते पुत्रः पितरं मातरं विना ॥ ॥२,४।३७अब्।
तथा भवं भवानीं च विना नैतच्चराचरम् ॥ ॥२,४।३७च्द्।
स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च ॥ ॥२,४।३७एफ़्।
स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् ॥ ॥२,४।३८अब्।
परमात्मा शिवः प्रोक्तश्शिवा सा च प्रकीर्तिता ॥ ॥२,४।३८च्द्।
शिवस्सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी ॥ ॥२,४।३९अब्।
शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते ॥ ॥२,४।३९च्द्।
पुरुषः परमेशानः प्रकृतिः परमेश्वरी ॥ ॥२,४।४०अब्।
रुद्रो महेश्वरस्साक्षाद्रुद्राणी रुद्रवल्लभा ॥ ॥२,४।४०च्द्।
विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया ॥ ॥२,४।४१अब्।
ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया ॥ ॥२,४।४१च्द्।
भास्करो भगवाञ्छम्भुः प्रभा भगवती शिवा ॥ ॥२,४।४२अब्।
महेन्द्रो मन्मथारातिः शची शैलेन्द्रकन्यका ॥ ॥२,४।४२च्द्।
जातवेदा महादेवः स्वाहा शर्वार्धदेहिनी ॥ ॥२,४।४३अब्।
यमस्त्रियम्बको देवस्तत्प्रिया गिरिकन्यका ॥ ॥२,४।४३च्द्।
निरृतिर्भगवानीशो नैरृती नगनन्दनी ॥ ॥२,४।४४अब्।
वरुणो भगवान्रुद्रो वारुणी भूधरात्मजा ॥ ॥२,४।४४च्द्।
बालेन्दुशेखरो वायुः शिवा शिवमनोहरा ॥ ॥२,४।४५अब्।
यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा ॥ ॥२,४।४५च्द्।
५४८ब्

चन्द्रार्धशेखरश्चन्द्रो रोहिणी रुद्रवल्लभा ॥ ॥२,४।४६अब्।
ईशानः परमेशानस्तदार्या परमेश्वरी ॥ ॥२,४।४६च्द्।
अनन्तवलयो ऽनन्तो ह्यनन्तानन्तवल्लभा ॥ ॥२,४।४७अब्।
कालाग्निरुद्रः कालारिः काली कालान्तकप्रिया ॥ ॥२,४।४७च्द्।
पुरुषाख्यो मनुश्शम्भुः शतरूपा शिवप्रिया ॥ ॥२,४।४८अब्।
दक्षस्साक्षान्महादेवः प्रसूतिः परमेश्वरी ॥ ॥२,४।४८च्द्।
रुचिर्भवो भवानी च बुधैराकूतिरुच्यते ॥ ॥२,४।४९अब्।
भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया ॥ ॥२,४।४९च्द्।
मरीचिभगवान्रुद्रः सम्भूतिश्शर्ववल्लभा ॥ ॥२,४।५०अब्।
गङ्गाधरो ऽङ्गिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता ॥ ॥२,४।५०च्द्।
पुलस्त्यः शशभृन्मौलिः प्रीतिः कान्ता पिनाकिनः ॥ ॥२,४।५१अब्।
पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया ॥ ॥२,४।५१च्द्।
क्रतुध्वंसी क्रतुः प्रोक्तः सन्नतिर्दयिता विभोः ॥ ॥२,४।५२अब्।
त्रिनेत्रो ऽत्रिरुमा साक्षादनसूया स्मृता बुधैः ॥ ॥२,४।५२च्द्।
कश्यपः कालहा देवो देवमाता महेश्वरी ॥ ॥२,४।५३अब्।
वसिष्ठो मन्मथारातिर्देवी साक्षादरुन्धती ॥ ॥२,४।५३च्द्।
शङ्करः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी ॥ ॥२,४।५४अब्।
सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः ॥ ॥२,४।५४च्द्।
विषयी भगवानीशो विषयः परमेश्वरी ॥ ॥२,४।५५अब्।
श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः ॥ ॥२,४।५५च्द्।
प्रष्टव्यं वस्तुजातं तु धत्ते शङ्करवल्लभा ॥ ॥२,४।५६अब्।
प्रष्टा स एव विश्वात्मा बालचन्द्रावतंसकः ॥ ॥२,४।५६च्द्।
द्रष्टव्यं वस्तुरूपं तु बिभर्ति वक्तवल्लभा ॥ ॥२,४।५७अब्।
द्रष्टा विश्वेश्वरो देवः शशिखण्डशिखामणिः ॥ ॥२,४।५७च्द्।
रसजातं महादेवी देवो रसयिता शिवः ॥ ॥२,४।५८अब्।
प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः ॥ ॥२,४।५८च्द्।
मन्तव्यवस्तुतां धत्ते सदा देवी महेश्वरी ॥ ॥२,४।५९अब्।
मन्ता स एव विश्वात्मा महादेवो महेश्वरः ॥ ॥२,४।५९च्द्।
बोद्धव्यवस्तुरूपं तु बिभर्ति भववल्लभा ॥ ॥२,४।६०अब्।
देवस्स एव भगवान्बोद्धा मुग्धेन्दुशेखरः ॥ ॥२,४।६०च्द्।
प्राणः पिनाकी सर्वेषां प्राणिनां भगवान्प्रभुः ॥ ॥२,४।६१अब्।
प्राणस्थितिस्तु सर्वेषामम्बिका चाम्बुरूपिणी ॥ ॥२,४।६१च्द्।
बिभर्ति क्षेत्रतां देवी त्रिपुरान्तकवल्लभा ॥ ॥२,४।६२अब्।
क्षेत्रज्ञत्वं तदा धत्ते भगवानन्तकान्तकः ॥ ॥२,४।६२च्द्।
अहः शूलायुधो देवः शूलपाणिप्रिया निशा ॥ ॥२,४।६३अब्।
आकाशः शङ्करो देवः पृथिवी शङ्करप्रिया ॥ ॥२,४।६३च्द्।
समुद्रो भगवानीशो वेला शैलेन्द्रकन्यका ॥ ॥२,४।६४अब्।
वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया ॥ ॥२,४।६४च्द्।
पुंल्लिङ्गमखिलं धत्ते भगवान्पुरशासनः ॥ ॥२,४।६५अब्।
स्त्रिलिङ्गं चाखिलं धत्ते देवी देवमनोरमा ॥ ॥२,४।६५च्द्।
शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा ॥ ॥२,४।६६अब्।
अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः ॥ ॥२,४।६६च्द्।
यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता ॥ ॥२,४।६७अब्।
सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः ॥ ॥२,४।६७च्द्।
५४९अ

यत्परं यत्पवित्रं च यत्पुण्यं यच्च मङ्गलम् ॥ ॥२,४।६८अब्।
तत्तदाह महाभागास्तयोस्तेजोविजृम्भितम् ॥ ॥२,४।६८च्द्।
यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् ॥ ॥२,४।६९अब्।
तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत् ॥ ॥२,४।६९च्द्।
तृणादिशिवमूर्त्यन्तं विश्वख्यातिशयक्रमः ॥ ॥२,४।७०अब्।
सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः ॥ ॥२,४।७०च्द्।
सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ ॥ ॥२,४।७१अब्।
पूजनीयौ नमस्कार्यौ चिन्तनीयौ च सर्वदा ॥ ॥२,४।७१च्द्।
यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः ॥ ॥२,४।७२अब्।
कथितं हि मया ते ऽद्य न तु तावदियत्तया ॥ ॥२,४।७२च्द्।
तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः ॥ ॥२,४।७३अब्।
महतामपि सर्वेषां मनसो ऽपि बहिर्गतम् ॥ ॥२,४।७३च्द्।
अन्तर्गतमनन्यानामीश्वरार्पितचेतसाम् ॥ ॥२,४।७४अब्।
अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत् ॥ ॥२,४।७४च्द्।
येयमुक्ता विभूतिर्वै प्राकृती सा परा मता ॥ ॥२,४।७५अब्।
अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः ॥ ॥२,४।७५च्द्।
यतो वाचो निवर्तन्ते मनसा चेन्द्रियैस्सह ॥ ॥२,४।७६अब्।
अप्राकृती परा चैषा विभूतिः पारमेश्वरी ॥ ॥२,४।७६च्द्।
सैवेह परमं धाम सैवेह परमा गतिः ॥ ॥२,४।७७अब्।
सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः ॥ ॥२,४।७७च्द्।
तां प्राप्तुं प्रयतन्ते ऽत्र जितश्वासा जितेन्द्रियाः ॥ ॥२,४।७८अब्।
गर्भकारा गृहद्वारं निश्छिद्रं घटितुं यथा ॥ ॥२,४।७८च्द्।
संसाराशीविषालीढमृतसञ्जीवनौषधम् ॥ ॥२,४।७९अब्।
विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन ॥ ॥२,४।७९च्द्।
यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः ॥ ॥२,४।८०अब्।
सो ऽपरो भूतिमुल्लङ्घ्य परां भूतिं समश्नुते ॥ ॥२,४।८०च्द्।
एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः ॥ ॥२,४।८१अब्।
रहस्यमपि योग्यो ऽसि भर्गभक्तो भवानिति ॥ ॥२,४।८१च्द्।
नाशिष्येभ्यो ऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन ॥ ॥२,४।८२अब्।
व्याहरेदीशयोर्भूतिमिति वेदानुशासनम् ॥ ॥२,४।८२च्द्।
तस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि ॥ ॥२,४।८३अब्।
त्वादृशेभ्यो ऽनुरूपेभ्यः कथयैतन्न चान्यथा ॥ ॥२,४।८३च्द्।
विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् ॥ ॥२,४।८४अब्।
संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात् ॥ ॥२,४।८४च्द्।
कीर्तनादस्य नश्यन्ति महान्त्यः पापकोटयः ॥ ॥२,४।८५अब्।
त्रिश्चतुर्धासमभ्यस्तैर्विनश्यन्ति ततो ऽधिकाः ॥ ॥२,४।८५च्द्।
नश्यन्त्यनिष्टरिपवो वर्धन्ते सुहृदस्तथा ॥ ॥२,४।८६अब्।
विद्या च वर्धते शैवी मतिस्सत्ये प्रवर्तते ॥ ॥२,४।८६च्द्।
भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे ॥ ॥२,४।८७अब्।
यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम् ॥ ॥२,४।८७च्द्।
अन्तःशुचिः शिवे भक्तो विस्रब्धः कीर्तयेद्यदि ॥ ॥२,४।८८अब्।
प्रबलैः कर्मभिः पूर्वैः फलं चेत्प्रतिबध्यते ॥ ॥२,४।८८च्द्।
पुनः पुनः समभ्यस्येत्तस्य नास्तीह दुर्ल्लभम् ॥ ॥२,४।८८एफ़्।
५४९ब्

ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो नाम चतुर्थो ऽध्यायः