०३

उपमन्युरुवाच
शृणु कृष्ण महेशस्य शिवस्य परमात्मनः ॥ ॥२,३।१अब्।
मूर्त्यात्मभिस्ततं कृत्स्नं जगदेतच्चराचरम् ॥ ॥२,३।१च्द्।
स शिवस्सर्वमेवेदं स्वकीयाभिश्च मूर्तिभिः ॥ ॥२,३।२अब्।
अधितिष्ठत्यमेयात्मा ह्येतत्सर्वमनुस्मृतम् ॥ ॥२,३।२च्द्।
ब्रह्मा विष्णुस्तथा रुद्रो महेशानस्सदाशिवः ॥ ॥२,३।३अब्।
मूर्तयस्तस्य विज्ञेया याभिर्विश्वमिदं ततम् ॥ ॥२,३।३च्द्।
अथान्याश्चापि तनवः पञ्च ब्रह्मसमाह्वयाः ॥ ॥२,३।४अब्।
तनूभिस्ताभिराव्याप्तमिह किञ्चिन्न विद्यते ॥ ॥२,३।४च्द्।
ईशानः पुरुषो ऽघोरो वामः सद्यस्तथैव च ॥ ॥२,३।५अब्।
ब्रह्माण्येतानि देवस्य मूर्तयः पञ्च विश्रुताः ॥ ॥२,३।५च्द्।
ईशानाख्या तु या तस्य मूर्तिराद्या गरीयसी ॥ ॥२,३।६अब्।
भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति ॥ ॥२,३।६च्द्।
स्थाणोस्तत्पुरुषाख्या या मूर्तिर्मूर्तिमतः प्रभोः ॥ ॥२,३।७अब्।
गुणाश्रयात्मकं भोग्यमव्यक्तमधितिष्ठति ॥ ॥२,३।७च्द्।
धर्माद्यष्टाङ्गसंयुक्तं बुद्धितत्त्वं पिनाकिनः ॥ ॥२,३।८अब्।
अधितिष्ठत्यघोराख्या मूर्तिरत्यन्तपूजिता ॥ ॥२,३।८च्द्।
वामदेवाह्वयां मूर्तिं महादेवस्य वेधसः ॥ ॥२,३।९अब्।
अहङ्कृतेरधिष्ठात्रीमाहुरागमवेदिनः ॥ ॥२,३।९च्द्।
सद्यो जाताह्वयां मूर्तिं शम्भोरमितवर्चसः ॥ ॥२,३।१०अब्।
मानसः समधिष्ठात्रीं मतिमन्तः प्रचक्षते ॥ ॥२,३।१०च्द्।
श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च ॥ ॥२,३।११अब्।
ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः ॥ ॥२,३।११च्द्।
त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् ॥ ॥२,३।१२अब्।
पुरुषाख्यं विदुस्सर्वे पुराणार्थविशारदाः ॥ ॥२,३।१२च्द्।
चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च ॥ ॥२,३।१३अब्।
अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः ॥ ॥२,३।१३च्द्।
रमनायाश्च पायोश्च रसस्यापां तथैव च ॥ ॥२,३।१४अब्।
ईश्वरीं वामदेवाख्यां मूर्तिं तन्निरतां विदुः ॥ ॥२,३।१४च्द्।
घ्राणस्य चैवोपस्थस्य गन्धस्य च भुवस्तथा ॥ ॥२,३।१५अब्।
सद्यो जाताह्वयां मूर्तिमीश्वरीं सम्प्रचक्षते ॥ ॥२,३।१५च्द्।
मूर्तयः पञ्च देवस्य वन्दनीयाः प्रयत्नतः ॥ ॥२,३।१६अब्।
श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः ॥ ॥२,३।१६च्द्।
तस्य देवादिदेवस्य मूर्त्यष्टकमयं जगत् ॥ ॥२,३।१७अब्।
तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ॥ ॥२,३।१७च्द्।
शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः १ ॥ ॥२,३।१८अब्।

१ अलुक्समास आर्षः

५४७अ

ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः ॥ ॥२,३।१८च्द्।
भूम्यम्भोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ॥ ॥२,३।१९अब्।
अधिष्ठिता महेशस्य शर्वाद्यैरष्टमूर्तिभिः ॥ ॥२,३।१९च्द्।
चराचरात्मकं विश्वं धत्ते विश्वम्भरात्मिका ॥ ॥२,३।२०अब्।
शार्वीर्शिवाह्वया मूर्तिरिति शास्त्रस्य निश्चयः ॥ ॥२,३।२०च्द्।
सञ्जीवनं समस्तस्य जगतस्सलिलात्मिका ॥ ॥२,३।२१अब्।
भावीति गीयते मूर्तिभवस्य परमात्मनः ॥ ॥२,३।२१च्द्।
बहिरन्तर्गता विश्वं व्याप्य तेजोमयी शुभा ॥ ॥२,३।२२अब्।
रौद्री रुद्राव्यया मूर्तिरास्थिता घोररूपिणी ॥ ॥२,३।२२च्द्।
स्पन्दयत्यनिलात्मदं बिभर्ति स्पन्दते स्वयम् ॥ ॥२,३।२३अब्।
औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः ॥ ॥२,३।२३च्द्।
सर्वावकाशदा सर्वव्यापिका गगनात्मिका ॥ ॥२,३।२४अब्।
मूर्तिर्भीमस्य भीमाख्या भूतवृन्दस्य भेदिका ॥ ॥२,३।२४च्द्।
सर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी ॥ ॥२,३।२५अब्।
मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृन्तनी ॥ ॥२,३।२५च्द्।
दीपयन्ती जगत्सर्वं दिवाकरसमाह्वया ॥ ॥२,३।२६अब्।
ईशानाख्यमहेशस्य मूर्तिर्दिवि विसर्पति ॥ ॥२,३।२६च्द्।
आप्याययति यो विश्वममृतांशुर्निशाकरः ॥ ॥२,३।२७अब्।
महादेवस्य सा मूर्तिर्महादेवसमाह्वया ॥ ॥२,३।२७च्द्।
आत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मनः ॥ ॥२,३।२८अब्।
व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥ ॥२,३।२८च्द्।
वृक्षस्य मूलसेकेन शाखाः पुष्यन्ति वै यथा ॥ ॥२,३।२९अब्।
शिवस्य पूजया तद्वत्पुष्यत्यस्य वपुर्जगत् ॥ ॥२,३।२९च्द्।
सर्वाभयप्रदानं च सर्वानुग्रहणं तथा ॥ ॥२,३।३०अब्।
सर्वोपकारकरणं शिवस्याराधनं विदुः ॥ ॥२,३।३०च्द्।
यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ॥ ॥२,३।३१अब्।
तथा सर्वस्य सम्प्रीत्या प्रीतो भवति शङ्करः ॥ ॥२,३।३१च्द्।
देहिनो यस्य कस्यापि क्रियते यदि निग्रहः ॥ ॥२,३।३२अब्।
अनिष्टमष्टमूर्तेस्तत्कृतमेव न संशयः ॥ ॥२,३।३२च्द्।
अष्टमूर्त्यात्मना विश्वमधिष्ठाय स्थितं शिवम् ॥ ॥२,३।३३अब्।
भजस्व सर्वभावेन रुद्रः परमकारणम् ॥ ॥२,३।३३च्द्।

ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे तृतीयो ऽध्यायः