ऋषय ऊचुः
किं तत्पाशुपतं ज्ञानं कथं पशुपतिश्शिवः ॥ ॥२,२।१अब्।
कथं धौम्याग्रजः पृष्टः कृष्णेनाक्लिष्टकर्मणा ॥ ॥२,२।१च्द्।
एतत्सर्वं समाचक्ष्व वायो शङ्करविग्रह ॥ ॥२,२।२अब्।
तत्समो न हि वक्तास्ति त्रैलोक्येष्वपरः प्रभुः ॥ ॥२,२।२च्द्।
सूत उवाच
इत्याकर्ण्य वचस्तेषां महर्षीणां प्रभञ्जनः ॥ ॥२,२।३अब्।
संस्मृत्य शिवमीशानं प्रवक्तुमुपचक्रमे ॥ ॥२,२।३च्द्।
वायुरुवाच
पुरा साक्षान्महेशेन श्रीकण्ठाख्येन मन्दरे ॥ ॥२,२।४अब्।
देव्यै देवेन कथितं ज्ञानं पाशुपतं परम् ॥ ॥२,२।४च्द्।
तदेव पृष्टं कृष्णेन विष्णुना विश्वयोनिना ॥ ॥२,२।५अब्।
पशुत्वं च सुरादीनां पतित्वं च शिवस्य च ॥ ॥२,२।५च्द्।
यथोपदिष्टं कृष्णाय मुनिना ह्युपमन्युना ॥ ॥२,२।६अब्।
तथा समासतो वक्ष्ये तच्छृणुध्वमतन्द्रिताः ॥ ॥२,२।६च्द्।
पुरोपमन्युमासीनं विष्णुःकृष्णवपुर्धरः ॥ ॥२,२।७अब्।
प्रणिपत्य यथान्यायमिदं वचनमब्रवीत् ॥ ॥२,२।७च्द्।
श्रीकृष्ण उवाच
भगवञ्छ्रोतुमिच्छामि देव्यै देवेन भाषितम् ॥ ॥२,२।८अब्।
दिव्यं पाशुपतं ज्ञानं विभूतिं वास्य कृत्स्नशः ॥ ॥२,२।८च्द्।
कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः ॥ ॥२,२।९अब्।
कैः पाशैस्ते निबध्यन्ते विमुच्यन्ते च ते कथम् ॥ ॥२,२।९च्द्।
इति सञ्चोदितः श्रीमानुपमन्युर्महात्मना ॥ ॥२,२।१०अब्।
प्रणम्य देवं देवीं च प्राह पुष्टो यथा तथा ॥ ॥२,२।१०च्द्।
उपमन्युरुवाच
ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य शूलिनः ॥ ॥२,२।११अब्।
पशवः परिकीर्त्यन्ते संसारवशवर्तिनः ॥ ॥२,२।११च्द्।
तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः ॥ ॥२,२।१२अब्।
मलमायादिभिः पाशैः स बध्नाति पशून्पतिः ॥ ॥२,२।१२च्द्।
स एव मोचकस्तेषां भक्त्या सम्यगुपासितः ॥ ॥२,२।१३अब्।
चतुर्विंशतितत्त्वानि मायाकर्मगुणा अमी ॥ ॥२,२।१३च्द्।
विषया इति कथ्यन्ते पाशा जीवनिबन्धनाः ॥ ॥२,२।१४अब्।
ब्रह्मादिस्तम्बपर्यन्तान् पशून्बद्ध्वा महेश्वरः ॥ ॥२,२।१४च्द्।
५४५ब्
पाशैरेतैः पतिर्देवः कार्यं कारयति स्वकम् ॥ ॥२,२।१५अब्।
तस्याज्ञया महेशस्य प्रकृतिः पुरुषोचिताम् ॥ ॥२,२।१५च्द्।
बुद्धिं प्रसूते सा बुद्धिरहङ्कारमहङ्कृतिः ॥ ॥२,२।१६अब्।
इन्द्रियाणि दशैकं च तन्मात्रापञ्चकं तथा ॥ ॥२,२।१६च्द्।
शासनाद्देवदेवस्य शिवस्य शिवदायिनः ॥ ॥२,२।१७अब्।
तन्मात्राण्यपि तस्यैव शासनेन महीयसा ॥ ॥२,२।१७च्द्।
महाभूतान्यशेषाणि भावयन्त्यनुपूर्वशः ॥ ॥२,२।१८अब्।
ब्रह्मादीनां तृणान्तानां देहिनां देहसङ्गतिम् ॥ ॥२,२।१८च्द्।
महाभूतान्यशेषाणि जनयन्ति शिवाज्ञया ॥ ॥२,२।१९अब्।
अध्यवस्यति वै बुद्धिरहङ्कारोभिमन्यते ॥ ॥२,२।१९च्द्।
चित्तं चेतयते चापि मनः सङ्कल्पयत्यपि ॥ ॥२,२।२०अब्।
श्रोत्रादीनि च गृह्णन्ति शब्दादीन्विषयान् पृथक् ॥ ॥२,२।२०च्द्।
स्वानेव नान्यान्देवस्य दिव्येनाज्ञाबलेन वै ॥ ॥२,२।२१अब्।
वागादीन्यपि यान्यासंस्तानि कर्मेन्द्रियाणि च ॥ ॥२,२।२१च्द्।
यथा स्वं कर्म कुर्वन्ति नान्यत्किञ्चिच्छिवाज्ञया ॥ ॥२,२।२२अब्।
शब्दादयोपि गृह्यन्ते क्रियन्ते वचनादयः ॥ ॥२,२।२२च्द्।
अविलङ्घ्या हि सर्वेषामाज्ञा शम्भोर्गरीयसी ॥ ॥२,२।२३अब्।
अवकाशमशेषाणां भूतानां सम्प्रयच्छति ॥ ॥२,२।२३च्द्।
आकाशः परमेशस्य शासनादेव सर्वगः ॥ ॥२,२।२४अब्।
प्राणाद्यैश्च तथा नामभेदैरन्तर्बहिर्जगत् ॥ ॥२,२।२४च्द्।
बिभर्ति सर्वं शर्वस्य शासनेन प्रभञ्जनः ॥ ॥२,२।२५अब्।
हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥ ॥२,२।२५च्द्।
पाकाद्यं च करोत्यग्निः परमेश्वरशासनात् ॥ ॥२,२।२६अब्।
सञ्जीवनाद्यं सर्वस्य कुर्वत्यापस्तदाज्ञया ॥ ॥२,२।२६च्द्।
विश्वम्भरा जगन्नित्यं धत्ते विश्वेश्वराज्ञया ॥ ॥२,२।२७अब्।
देवान्पात्यसुरान् हन्ति त्रिलोकमभिरक्षति ॥ ॥२,२।२७च्द्।
आज्ञया तस्य देवेन्द्रः सर्वैर्देवैरलङ्घ्यया ॥ ॥२,२।२८अब्।
आधिपत्यमपां नित्यं कुरुते वरुणस्सदा ॥ ॥२,२।२८च्द्।
पाशैर्बध्नाति च यथा दण्ड्यांस्तस्यैव शासनात् ॥ ॥२,२।२९अब्।
ददाति नित्यं यक्षेन्द्रो द्रविणं द्रविणेश्वरः ॥ ॥२,२।२९च्द्।
पुण्यानुरूपं भूतेभ्यः पुरुषस्यानुशासनात् ॥ ॥२,२।३०अब्।
करोति सम्पदः शश्वज्ज्ञानं चापि सुमेधसाम् ॥ ॥२,२।३०च्द्।
निग्रहं चाप्यसाधूनामीशानश्शिवशासनात् ॥ ॥२,२।३१अब्।
धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः ॥ ॥२,२।३१च्द्।
यामाहुस्तामसीं रौद्रीं मूर्तिमन्तकरीं हरेः ॥ ॥२,२।३२अब्।
सृजत्यशेषमीशस्य शासनाच्चतुराननः ॥ ॥२,२।३२च्द्।
अन्याभिर्मूर्तिभिः स्वाभिः पाति चान्ते निहन्ति च ॥ ॥२,२।३३अब्।
विष्णुः पालयते विश्वं कालकालस्य शासनात् ॥ ॥२,२।३३च्द्।
सृजते त्रसते चापि स्वकाभिस्तनुभिस्त्रिभिः ॥ ॥२,२।३४अब्।
हरत्यन्ते जगत्सर्वं हरस्तस्यैव शासनात् ॥ ॥२,२।३४च्द्।
सृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति ॥ ॥२,२।३५अब्।
कालः करोति सकलं कालस्संहरति प्रजाः ॥ ॥२,२।३५च्द्।
कालः पालयते विश्वं कालकालस्य शासनात् ॥ ॥२,२।३६अब्।
५४६अ
त्रिभिरंशैर्जगद्बिभ्रत्तेजोभिर्वृष्टिमादिशन् ॥ ॥२,२।३६च्द्।
दिवि वर्षत्यसौ भानुर्देवदेवस्य शासनात् ॥ ॥२,२।३७अब्।
पुष्णात्योषधिजातानि भूतान्याह्लादयत्यपि ॥ ॥२,२।३७च्द्।
देवैश्च पीयते चन्द्रश्चन्द्रभूषणशासनात् ॥ ॥२,२।३८अब्।
आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ॥ ॥२,२।३८च्द्।
खेचरा ऋषयस्सिद्धा भोगिनो मनुजा मृगाः ॥ ॥२,२।३९अब्।
पशवः पक्षिणश्चैव कीटाद्याः स्थावराणि च ॥ ॥२,२।३९च्द्।
नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ ॥२,२।४०अब्।
वेदाः साङ्गाश्च शास्त्राणि मन्त्रस्तोममखादयः ॥ ॥२,२।४०च्द्।
कालाग्न्यादिशिवान्तानि भुवनानि सहाधिपैः ॥ ॥२,२।४१अब्।
ब्रह्माण्डान्यप्यसङ्ख्यानि तेषामावरणानि च ॥ ॥२,२।४१च्द्।
वर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः ॥ ॥२,२।४२अब्।
दिशश्च विदिशश्चैव कालभेदाः कलादयः ॥ ॥२,२।४२च्द्।
यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयते ऽपि वा ॥ ॥२,२।४३अब्।
तत्सर्वं शङ्करस्याज्ञा बलेन समधिष्ठितम् ॥ ॥२,२।४३च्द्।
आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः ॥ ॥२,२।४४अब्।
ज्योतिर्गणाः शक्रमुखाश्च देवाः स्थिरं चिरं वा चिदचिद्यदस्ति ॥ ॥२,२।४४च्द्।
उपमन्युरुवाच
अत्याश्चर्यमिदं कृष्ण शम्भोरमितकर्मणः ॥ ॥२,२।४५अब्।
आज्ञाकृतं शृणुष्वैतच्छ्रुतं श्रुतिमुखे मया ॥ ॥२,२।४५च्द्।
पुरा किल सुराः सेन्द्रा विवदन्तः परस्परम् ॥ ॥२,२।४६अब्।
असुरान्समरे जित्वा जेताहमहमित्युत ॥ ॥२,२।४६च्द्।
तदा महेश्वरस्तेषां मध्यतो वरवेषधृक् ॥ ॥२,२।४७अब्।
स्वलक्षणैर्विहीनाङ्गः स्वयं यक्ष इवाभवत् ॥ ॥२,२।४७च्द्।
स तानाह सुरानेकं तृणमादाय भूतले ॥ ॥२,२।४८अब्।
य एतद्विकृतं कर्तुं क्षमते स तु दैत्यजित् ॥ ॥२,२।४८च्द्।
यक्षस्य वचनं श्रुत्वा वज्रपाणिः शचीपतिः ॥ ॥२,२।४९अब्।
किञ्चित्क्रुद्धो विहस्यैनं तृणमादातुमुद्यतः ॥ ॥२,२।४९च्द्।
न तत्तृणमुपदातुं मनसापि च शक्यते ॥ ॥२,२।५०अब्।
यथा तथापि तच्छेत्तुं वज्रं वज्रधरो ऽसृजत् ॥ ॥२,२।५०च्द्।
तद्वज्रं निजवज्रेण संसृष्टमिव सर्वतः ॥ ॥२,२।५१अब्।
तृणेनाभिहतं तेन तिर्यगग्रं पपात ह ॥ ॥२,२।५१च्द्।
ततश्चान्ये सुसंरब्धा लोकपाला महाबलाः ॥ ॥२,२।५२अब्।
ससृजुस्तृणमुद्दिश्य स्वायुधानि सहस्रशः ॥ ॥२,२।५२च्द्।
प्रजज्ज्वाल महावह्निः प्रचण्डः पवनो ववौ ॥ ॥२,२।५३अब्।
प्रवृद्धो ऽपाम्पतिर्यद्वत्प्रलये समुपस्थिते ॥ ॥२,२।५३च्द्।
एवं देवैस्समारब्धं तृणमुद्दिश्य यत्नतः ॥ ॥२,२।५४अब्।
व्यर्थमासीदहो कृष्ण यक्षस्यात्मबलेन वै ॥ ॥२,२।५४च्द्।
तदाह यक्षं देवेन्द्रः को भवानित्यमर्षितः ॥ ॥२,२।५५अब्।
ततस्स पश्यतामेव तेषामन्तरधादथ ॥ ॥२,२।५५च्द्।
तदन्तरे हैमवती देवी दिव्यविभूषणा ॥ ॥२,२।५६अब्।
आविरासीन्नभोरङ्गे शोभमाना शुचिस्मिता ॥ ॥२,२।५६च्द्।
तां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः ॥ ॥२,२।५७अब्।
५४६ब्
प्रणम्य यक्षं पप्रच्छुः को ऽसौ यक्षो विलक्षणः ॥ ॥२,२।५७च्द्।
सा ऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः ॥ ॥२,२।५८अब्।
तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम् ॥ ॥२,२।५८च्द्।
तेनादौ क्रियते विश्वं तेन संह्रियते पुनः ॥ ॥२,२।५९अब्।
न तन्नियन्ता कश्चित्स्यात्तेन सर्वं नियम्यते ॥ ॥२,२।५९च्द्।
इत्युक्त्वा सा महादेवी तत्रैवान्तरधत्त वै ॥ ॥२,२।६०अब्।
देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः ॥ ॥२,२।६०च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे द्वितीयो ऽध्यायः