०१ कृष्णपुत्रप्राप्तिवर्णनम्


नमस्समस्तसंसारचक्रभ्रमणहेतवे ॥ ॥२,१।१अब्।
गौरीकुचतटद्वन्द्वकुङ्कुमाङ्कितवक्षसे ॥ ॥२,१।१च्द्।
सूत उवाच
उक्त्वा भगवतो लब्धप्रसादादुपमन्युना ॥ ॥२,१।२अब्।
नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे ॥ ॥२,१।२च्द्।
ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः ॥ ॥२,१।३अब्।
अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम् ॥ ॥२,१।३च्द्।
कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा ॥ ॥२,१।४अब्।
भगवन्तमुपायान्तं समीक्ष्य समुपाविशन् ॥ ॥२,१।४च्द्।
अथासौ नियमस्यान्ते भगवानम्बरोद्भवः ॥ ॥२,१।५अब्।
मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम् ॥ ॥२,१।५च्द्।
सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः ॥ ॥२,१।६अब्।
श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत् ॥ ॥२,१।६च्द्।
तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् ॥ ॥२,१।७अब्।
विभूतिस्सकलं यस्य चराचरमिदं जगत् ॥ ॥२,१।७च्द्।
इत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः ॥ ॥२,१।८अब्।
विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः ॥ ॥२,१।८च्द्।
ऋषय ऊचुः
उक्तं भगवता वृत्तमुपमन्योर्महात्मनः ॥ ॥२,१।९अब्।
क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात् ॥ ॥२,१।९च्द्।
दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ॥ ॥२,१।१०अब्।
धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम् ॥ ॥२,१।१०च्द्।
प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम ॥ ॥२,१।११अब्।
कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम् ॥ ॥२,१।११च्द्।
वायुरुवाच
स्वेच्छया ह्यवतीर्णोपि वासुदेवस्सनातनः ॥ ॥२,१।१२अब्।
निन्दयन्निव मानुष्यं देहशुद्धिं चकार सः ॥ ॥२,१।१२च्द्।
पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः ॥ ॥२,१।१३अब्।
आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम् ॥ ॥२,१।१३च्द्।
भस्मावदातसर्वाङ्गं त्रिपुण्ड्राङ्कितमस्तकम् ॥ ॥२,१।१४अब्।
रुद्राक्षमालाभरणं जटामण्डलमण्डितम् ॥ ॥२,१।१४च्द्।
तच्छिष्यभूतैर्मुनिभिश्शास्त्रैर्वेदमिवावृतम् ॥ ॥२,१।१५अब्।
शिवध्यानरतं शान्तमुपमन्युं महाद्युतिम् ॥ ॥२,१।१५च्द्।
नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः ॥ ॥२,१।१६अब्।
बहुमानेन कृष्णो ऽसौ त्रिः कृत्वा तु प्रदक्षिणाम् ॥ ॥२,१।१६च्द्।
स्तुतिं चकार सुप्रीत्या नतस्कन्धः कृताञ्जलिः ॥ ॥२,१।१६एफ़्।
तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः ॥ ॥२,१।१७अब्।
नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च ॥ ॥२,१।१७च्द्।
तपःक्षीणमलं कृष्णमुपमन्युर्यथाविधिः ॥ ॥२,१।१८अब्।
भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात् ॥ ॥२,१।१८च्द्।
अथ पाशुपतं साक्षाद्व्रतं द्वादशमासिकम् ॥ ॥२,१।१९अब्।
कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम् ॥ ॥२,१।१९च्द्।
तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः ॥ ॥२,१।२०अब्।
दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे ॥ ॥२,१।२०च्द्।
ततो गुरुनियोगाद्वै कृष्णः परमशक्तिमान् ॥ ॥२,१।२१अब्।
५४५अ

तपश्चकार पुत्रार्थं साम्बमुद्दिश्य शङ्करम् ॥ ॥२,१।२१च्द्।
तपसो तेन वर्षान्ते दृष्टो ऽसौ परमेश्वरः ॥ ॥२,१।२२अब्।
श्रिया परमया युक्तस्साम्बश्च सगणश्शिवः ॥ ॥२,१।२२च्द्।
वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः ॥ ॥२,१।२३अब्।
स्तुतिं चकार नत्वासौ कृष्णः सम्यक्कृताञ्जलिः ॥ ॥२,१।२३च्द्।
साम्बं समगणव्यग्रो लब्धवान्पुत्रमात्मनः ॥ ॥२,१।२४अब्।
तपसा तुष्टचित्तेन दत्तं विष्णोश्शिवेन वै ॥ ॥२,१।२४च्द्।
यस्मात्साम्बो महादेवः प्रददौ पुत्रमात्मनः ॥ ॥२,१।२५अब्।
तस्माज्जाम्बवतीसूनुं साम्बं चक्रे स नामतः ॥ ॥२,१।२५च्द्।
तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः ॥ ॥२,१।२६अब्।
महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शङ्करात् ॥ ॥२,१।२६च्द्।
य इदं कीर्तयेन्नित्यं शृणुयाच्छ्रावयेत्तथा ॥ ॥२,१।२७अब्।
स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते ॥ ॥२,१।२७च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णपुत्रप्राप्तिवर्णनं नाम प्रथमो ऽध्यायः