वायुरुवाच
अथ सर्वे प्रदीप्ताङ्गा वैकुण्ठं प्रययुर्द्रुतम् ॥ ॥१,३५।१अब्।
प्रणम्याहुश्च तत्सर्वं हरये देवसत्तमाः ॥ ॥१,३५।१च्द्।
श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः ॥ ॥१,३५।२अब्।
किमिदन्त्विति सञ्चिन्त्य ज्ञात्वा तत्कारणं च सः ॥ ॥१,३५।२च्द्।
जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया ॥ ॥१,३५।३अब्।
दृष्ट्वा देवं प्रणम्यैवं प्रोवाच सुकृताञ्जलिः ॥ ॥१,३५।३च्द्।
विष्णुरुवाच
भगवन्ब्राह्मणः कश्चिदुपमन्युरिति श्रुतः ॥ ॥१,३५।४अब्।
क्षीरार्थमदहत्सर्वं तपसा तन्निवारय ॥ ॥१,३५।४च्द्।
वायुरुवाच
इति श्रुत्वा वचो विष्णोः प्राह देवो महेश्वरः ॥ ॥१,३५।५अब्।
शिशुं निवारयिष्यामि तत्त्वं गच्छ स्वमाश्रमम् ॥ ॥१,३५।५च्द्।
तच्छ्रुत्वा शम्भुवचनं स विष्णुर्देववल्लभः ॥ ॥१,३५।६अब्।
जगामाश्वास्य तान्सर्वान्स्वलोकममरादिकान् ॥ ॥१,३५।६च्द्।
एतस्मिन्नन्तरे देवः पिनाकी परमेश्वरः ॥ ॥१,३५।७अब्।
शक्रस्य रूपमास्थाय गन्तुं चक्रे मतिं ततः ॥ ॥१,३५।७च्द्।
अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः ॥ ॥१,३५।८अब्।
सह सुरासुरसिद्धमहोरगैरमरराजतनुं स्वयमास्थितः ॥ ॥१,३५।८च्द्।
स वारणश्चारु तदा विभुं तं निवीज्य वालव्यजनेन दिव्यम् ॥ ॥१,३५।९अब्।
दधार शच्या सहितं सुरेन्द्रं करेण वामेन शितातपत्रम् ॥ ॥१,३५।९च्द्।
रराज भगवान्सोमः शक्ररूपी सदाशिवः ॥ ॥१,३५।१०अब्।
तेनातपत्रेण यथा चन्द्रबिम्बेन मन्दरः ॥ ॥१,३५।१०च्द्।
आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः ॥ ॥१,३५।११अब्।
जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम् ॥ ॥१,३५।११च्द्।
तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम् ॥ ॥१,३५।१२अब्।
प्रणम्य शिरसा प्राह महामुनिवरः स्वयम् ॥ ॥१,३५।१२च्द्।
उपमन्युरुवाच
पावितश्चाश्रमस्सो ऽयं मम देवेश्वर स्वयम् ॥ ॥१,३५।१३अब्।
प्राप्तो यत्त्वं जगन्नाथ भगवन्देवसत्तम ॥ ॥१,३५।१३च्द्।
वायुरुवाच
एवमुक्त्वा स्थितं प्रेक्ष्य कृताञ्जलिपुटं द्विजम् ॥ ॥१,३५।१४अब्।
५४३अ
प्राह गम्भीरया वाचा शक्ररूपधरो हरः ॥ ॥१,३५।१४च्द्।
शक्र उवाच
तुष्टो ऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ॥ ॥१,३५।१५अब्।
ददामि चेप्सितान्सर्वान्धौम्याग्रज महामुने ॥ ॥१,३५।१५च्द्।
वायुरुवाच
एवमुक्तस्तदा तेन शक्रेण मुनिपुङ्गवः ॥ ॥१,३५।१६अब्।
वारयामि शिवे भक्तिमित्युवाच कृताञ्जलिः ॥ ॥१,३५।१६च्द्।
तन्निशम्य हरिः १ प्राह मां न जानासि लेखपम् ॥ ॥१,३५।१७अब्।
त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ॥ ॥१,३५।१७च्द्।
मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ॥ ॥१,३५।१८अब्।
ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम् ॥ ॥१,३५।१८च्द्।
रुद्रेण निर्गुणेनापि किं ते कार्यं भविष्यति ॥ ॥१,३५।१९अब्।
देवपङ्क्तिबहिर्भूतो यः पिशाचत्वमागतः ॥ ॥१,३५।१९च्द्।
वायुरुवाच
तच्छ्रुत्वा प्राह स मुनिर्जपन्पञ्चाक्षरं मनुम् ॥ ॥१,३५।२०अब्।
मन्यमानो धर्मविघ्नं प्राह तं कर्तुमागतम् ॥ ॥१,३५।२०च्द्।
उपमन्युरुवाच
त्वयैवं कथितं सर्वं भवनिन्दारतेन वै ॥ ॥१,३५।२१अब्।
प्रसङ्गादेव देवस्य निर्गुणत्वं महात्मनः ॥ ॥१,३५।२१च्द्।
त्वं न जानामि वै रुद्रं सर्वदेवेश्वरेश्वरम् ॥ ॥१,३५।२२अब्।
ब्रह्मविष्णुमहेशानां जनक प्रकृतेः परम् ॥ ॥१,३५।२२च्द्।
सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ॥ ॥१,३५।२३अब्।
नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम् ॥ ॥१,३५।२३च्द्।
हेतुवादविनिर्मुक्तं साङ्ख्ययोगार्थदम्परम् ॥ ॥१,३५।२४अब्।
उपासते यं तत्त्वज्ञा वरं तस्माद्वृणोम्यहम् ॥ ॥१,३५।२४च्द्।
नास्ति शम्भोः परं तत्त्वं सर्वकारणकारणात् ॥ ॥१,३५।२५अब्।
ब्रह्मविष्ण्वादिदेवानां स्रष्टुर्गुणपराद्विभोः ॥ ॥१,३५।२५च्द्।
बहुनात्र किमुक्तेन मयाद्यानुमितं महत् ॥ ॥१,३५।२६अब्।
भवान्तरे कृतं पापं श्रुता निन्दा भवस्य चेत् ॥ ॥१,३५।२६च्द्।
श्रुत्वा निन्दां भवस्याथ तत्क्षणादेव सन्त्यजेत् ॥ ॥१,३५।२७अब्।
स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति ॥ ॥१,३५।२७च्द्।
आस्तां तावन्ममेच्छेयं क्षीरं प्रति सुराधम ॥ ॥१,३५।२८अब्।
निहत्य त्वां शिवास्त्रेण त्यजाम्येतं कलेवरम् ॥ ॥१,३५।२८च्द्।
वायुरुवाच
एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितस्स्वयम् ॥ ॥१,३५।२९अब्।
क्षीरे वाञ्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः ॥ ॥१,३५।२९च्द्।
भस्मादाय तदा घोरमघोरास्त्राभिमन्त्रितम् ॥ ॥१,३५।३०अब्।
विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा ॥ ॥१,३५।३०च्द्।
स्मृत्वा शम्भुपदद्वन्द्वं स्वदेहं दुग्धुमुद्यतः ॥ ॥१,३५।३१अब्।
आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः ॥ ॥१,३५।३१च्द्।
एवं व्यवसिते विप्रे भगवान्भगनेत्रहा ॥ ॥१,३५।३२अब्।
वारयामास सौम्येन धारणां तस्य योगिनः ॥ ॥१,३५।३२च्द्।
तद्विसृष्टमघोरास्त्रं नन्दीश्वरनियोगतः ॥ ॥१,३५।३३अब्।
जगृहे मध्यतः क्षिप्तं नन्दी शङ्करवल्लभः ॥ ॥१,३५।३३च्द्।
१ इन्द्रः
५४३ब्
स्वं रूपमेव भगवानास्थाय परमेश्वरः ॥ ॥१,३५।३४अब्।
दर्शयामास शिप्राय बालेन्दुकृतशेखरम् ॥ ॥१,३५।३४च्द्।
क्षीरार्णवसहस्रं च पीयूषार्णवमेव वा ॥ ॥१,३५।३५अब्।
दध्यादेरर्णवांश्चैव घृतोदार्णवमेव च ॥ ॥१,३५।३५च्द्।
फलार्णवं च बालस्य भक्ष्य भोज्यार्णवं तथा ॥ ॥१,३५।३६अब्।
अपूपानां गिरिं चैव दर्शयामास स प्रभुः ॥ ॥१,३५।३६च्द्।
एवं स ददृशे देवो देव्या सार्धं वृषोपरि ॥ ॥१,३५।३७अब्।
गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः ॥ ॥१,३५।३७च्द्।
दिवि दुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ॥ ॥१,३५।३८अब्।
विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश ॥ ॥१,३५।३८च्द्।
अथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः ॥ ॥१,३५।३९अब्।
पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा ॥ ॥१,३५।३९च्द्।
एतस्मिन्समये तत्र सस्मितो भगवान्भवः ॥ ॥१,३५।४०अब्।
एह्येहीति तमाहूय मूर्ध्न्याघ्राय ददौ वरान् ॥ ॥१,३५।४०च्द्।
शिव उवाच
भक्ष्यभोज्यान्यथाकामं बान्धवैर्भुक्ष्व सर्वदा ॥ ॥१,३५।४१अब्।
सुखी भव सदा दुःखान्निर्मुक्ता भक्तिमान्मम ॥ ॥१,३५।४१च्द्।
उपमन्यो महाभाग तवाम्बैषा हि पार्वती ॥ ॥१,३५।४२अब्।
मया पुत्रीकृतो ह्यद्य दत्तः क्षीरोदकार्णवः ॥ ॥१,३५।४२च्द्।
मधुनश्चार्णवश्चैव दध्यन्नार्णव एव च ॥ ॥१,३५।४३अब्।
आज्यौदनार्णवश्चैव फलाद्यर्णव एव च ॥ ॥१,३५।४३च्द्।
अपूपगिरयश्चैव भक्ष्यभोज्यार्णवस्तथा ॥ ॥१,३५।४४अब्।
एते दत्ता मया ते हि त्वं गृह्णीष्व महामुने ॥ ॥१,३५।४४च्द्।
पिता तव महादेवो माता वै जगदम्बिका ॥ ॥१,३५।४५अब्।
अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम् ॥ ॥१,३५।४५च्द्।
वरान्वरय सुप्रीत्या मनो ऽभिलषितान्परान् ॥ ॥१,३५।४६अब्।
प्रसन्नो ऽहं प्रदास्यामि नात्र कार्या विचारणा ॥ ॥१,३५।४६च्द्।
वायुरुवाच
एवमुक्त्वा महादेवः कराभ्यामुपगृह्यतम् ॥ ॥१,३५।४७अब्।
मूर्ध्न्याघ्राय सुतस्ते ऽयमिति देव्यै न्यवेदयत् ॥ ॥१,३५।४७च्द्।
देवी च गुहवत्प्रीत्या मूर्ध्नि तस्य कराम्बुजम् ॥ ॥१,३५।४८अब्।
विन्यस्य प्रददौ तस्मै कुमारपदमव्ययम् ॥ ॥१,३५।४८च्द्।
क्षीराब्धिरपि साकारः क्षीरं स्वादु करे दधत् ॥ ॥१,३५।४९अब्।
उपस्थाय ददौ पिण्डीभूतं क्षीरमनश्वरम् ॥ ॥१,३५।४९च्द्।
योगैश्वर्यं सदा तुष्टिं ब्रह्मविद्यामनश्वराम् ॥ ॥१,३५।५०अब्।
समृद्धिं परमान्तस्मै ददौ सन्तुष्टमानसः ॥ ॥१,३५।५०च्द्।
अथ शम्भुः प्रसन्नात्मा दृष्ट्वा तस्य तपोमहः ॥ ॥१,३५।५१अब्।
पुनर्ददौ वरं दिव्यं मुनये ह्युपमन्यवे ॥ ॥१,३५।५१च्द्।
व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः ॥ ॥१,३५।५२अब्।
ददौ तस्मै प्रवक्तृत्वपाटवं सुचिरं परम् ॥ ॥१,३५।५२च्द्।
सो ऽपि लब्ध्वा वरान्दिव्यान्कुमारत्वं च सर्वदा ॥ ॥१,३५।५३अब्।
तस्माच्छिवाच्च तस्याश्च शिवाया मुदितो ऽभवत् ॥ ॥१,३५।५३च्द्।
ततः प्रसन्नचेतस्कः सुप्रणम्य कृताञ्जलिः ॥ ॥१,३५।५४अब्।
ययाचे स वरं विप्रो देवदेवान्महेश्वरात् ॥ ॥१,३५।५४च्द्।
उपमन्युरुवाच
प्रसीद देवदेवेश प्रसीद परमेश्वर ॥ ॥१,३५।५५अब्।
स्वभक्तिन्देहि परमान्दिव्यामव्यभिचारिणीम् ॥ ॥१,३५।५५च्द्।
५४४अ
श्रद्धान्देहि महादेव द्वसम्बन्धिषु मे सदा ॥ ॥१,३५।५६अब्।
स्वदास्यं परमं स्नेहं सान्निध्यं चैव सर्वदा ॥ ॥१,३५।५६च्द्।
एवमुक्त्वा प्रसन्नात्माहर्षगद्गदया गिरा ॥ ॥१,३५।५७अब्।
सतुष्टाव महादेवमुपमन्युर्द्विजोत्तमः ॥ ॥१,३५।५७च्द्।
उपमन्युरुवाच
देवदेव महादेव शरणागतवत्सल ॥ ॥१,३५।५८अब्।
प्रसीद करुणासिन्धो साम्ब शङ्कर सर्वदा ॥ ॥१,३५।५८च्द्।
वायुरुवाच
एवमुक्तो महादेवः सर्वेषां च वरप्रदः ॥ ॥१,३५।५९अब्।
प्रत्युवाच प्रसन्नात्मोपमन्युं मुनिसत्तमम् ॥ ॥१,३५।५९च्द्।
शिव उवाच
वत्सोपमन्यो तुष्टो ऽस्मि सर्वं दत्तं मया हि ते ॥ ॥१,३५।६०अब्।
दृढभक्तो ऽसि विप्रर्षे मया विज्ञासितो ह्यसि ॥ ॥१,३५।६०च्द्।
अजरश्चामरश्चैव भव त्वन्दुःखवर्जितः ॥ ॥१,३५।६१अब्।
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥ ॥१,३५।६१च्द्।
अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ॥ ॥१,३५।६२अब्।
भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती ॥ ॥१,३५।६२च्द्।
सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम ॥ ॥१,३५।६३अब्।
उपकण्ठं मम त्वं वै सानन्दं विहरिष्यसि ॥ ॥१,३५।६३च्द्।
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः ॥ ॥१,३५।६४अब्।
ईशानस्स वरान्दत्त्वा तत्रैवान्तर्दधे हरः ॥ ॥१,३५।६४च्द्।
उपमन्युः प्रसन्नात्मा प्राप्य तस्माद्वराद्वरान् ॥ ॥१,३५।६५अब्।
जगाम जननीस्थानं सुखं प्रापाधिकं च सः ॥ ॥१,३५।६५च्द्।
इति श्रीशिवमहापुराणे वैयासिक्यां चतुर्विंशतिसाहस्र्यां संहितायां तदन्तर्गतायां सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युचरितवर्णनं नाम पञ्चत्रिंशो ऽध्यायः
समाप्तो ऽयं सप्तम्या वायवीयसंहितायाः पूर्वखण्डः ॥
श्रीः ॥
५४४ब्