३४ उपमन्युतपोवर्णनम्

ऋषय ऊचुः
धौम्याग्रजेन शुशुना क्षीरार्थं हि तपः कृतम् ॥ ॥१,३४।१अब्।
तस्मात् क्षीरार्णवो दत्तस्तस्मै देवेन शूलिना ॥ ॥१,३४।१च्द्।
स कथं शिशुको लेभे शिवशास्त्रप्रवक्तृताम् ॥ ॥१,३४।२अब्।
कथं वा शिवसद्भावं ज्ञात्वा तपसि निष्ठितः ॥ ॥१,३४।२च्द्।
कथं च लब्धविज्ञानस्तपश्चरणपर्वणि ॥ ॥१,३४।३अब्।
रुद्राग्नेर्यत्परं वीर्यं लभे भस्म स्वरक्षकम् ॥ ॥१,३४।३च्द्।
वायुरुवाच
न ह्येष शिशुकः कश्चित्प्राकृतः कृतवांस्तपः ॥ ॥१,३४।४अब्।
मुनिवर्यस्य तनयो व्याघ्रपादस्य धीमतः ॥ ॥१,३४।४च्द्।
जन्मान्तरेण संसिद्धः केनापि खलु हेतुना ॥ ॥१,३४।५अब्।
स्वपदप्रच्युतो दिष्ट्या प्राप्तो मुनिकुमारताम् ॥ ॥१,३४।५च्द्।
महादेवप्रसादस्य भाग्यापन्नस्य भाविनः ॥ ॥१,३४।६अब्।
दुग्धाभिलाषप्रभवद्वारतामगमत्तपः ॥ ॥१,३४।६च्द्।
अतः सर्वगणेशत्वं कुमारत्वं च शाश्वतम् ॥ ॥१,३४।७अब्।
सह दुग्धाब्धिना तस्मै प्रददौ शङ्करः स्वयम् ॥ ॥१,३४।७च्द्।
तस्य ज्ञानागमोप्यस्य प्रसादादेव शाङ्करात् ॥ ॥१,३४।८अब्।
कौमारं हि परं साक्षाज्ज्ञानं शक्तिमयं विदुः ॥ ॥१,३४।८च्द्।
शिवशास्त्रप्रवक्तृत्वमपि तस्य हि तत्कृतम् ॥ ॥१,३४।९अब्।
कुमारो मुनितो लब्धज्ञानाब्धिरिव नन्दनः ॥ ॥१,३४।९च्द्।
दृष्टं तु कारणं तस्य शिवज्ञानसमन्वये ॥ ॥१,३४।१०अब्।
स्वमातृवचनं साक्षाच्छोकजं क्षीरकारणात् ॥ ॥१,३४।१०च्द्।
कदाचित्क्षीरमत्यल्पं पीतवान्मातुलाश्रमे ॥ ॥१,३४।११अब्।
ईर्षयया मातुलसुतं सन्तृप्तक्षीरमुत्तमम् ॥ ॥१,३४।११च्द्।
पीत्वा स्थितं यथाकामं दृष्ट्वा वै मातुलात्मजम् ॥ ॥१,३४।१२अब्।
उपमन्युर्व्याघ्रपादिः प्रीत्या प्रोवाच मातरम् ॥ ॥१,३४।१२च्द्।
उपमन्युरुवाच
मातर्मातर्महाभागे मम देहि तपस्विनि ॥ ॥१,३४।१३अब्।
५४१ब्

गव्यं क्षीरमतिस्वादु नाल्पमुष्णं पिबाम्यहम् ॥ ॥१,३४।१३च्द्।
वायुरुवाच
तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी ॥ ॥१,३४।१४अब्।
व्याघ्रपादस्य महिषी दुःखमापत्तदा च सा ॥ ॥१,३४।१४च्द्।
उपलाल्याथ सुप्रीत्या पुत्रमालिङ्ग्य सादरम् ॥ ॥१,३४।१५अब्।
दुःखिता विललापाथ स्मृत्वा नैर्धन्यमात्मनः ॥ ॥१,३४।१५च्द्।
स्मृत्वास्मृत्वा पुनः क्षीरमुपमन्युस्स बालकः ॥ ॥१,३४।१६अब्।
देहि देहीति तामाह रुद्रन्भूयो महाद्युतिः ॥ ॥१,३४।१६च्द्।
तद्धठं सा परिज्ञाय द्विजपत्नी तपस्विनी ॥ ॥१,३४।१७अब्।
शान्तये तद्धठस्याथ शुभोपायमरीरचत् ॥ ॥१,३४।१७च्द्।
उञ्छवृत्त्यार्जितान्बीजान्स्वयं दृष्ट्वा च सा तदा ॥ ॥१,३४।१८अब्।
बीजपिष्टमथालोड्य तोयेन कलभाषिणी ॥ ॥१,३४।१८च्द्।
एह्येहि मम पुत्रेति सामपूर्वं ततस्सुतम् ॥ ॥१,३४।१९अब्।
आलिङ्ग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः ॥ ॥१,३४।१९च्द्।
पीत्वा च कृत्रिमं क्षीरं मात्रां दत्तं स बालकः ॥ ॥१,३४।२०अब्।
नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः ॥ ॥१,३४।२०च्द्।
दुःखिता सा तदा प्राह सम्प्रेक्ष्याघ्राय मूर्धनि ॥ ॥१,३४।२१अब्।
समार्ज्य नेत्र पुत्रस्य कराभ्यां कमलायते ॥ ॥१,३४।२१च्द्।
जनन्युवाच
तटिनी रत्नपूर्णास्तास्स्वर्गपातालगोचराः ॥ ॥१,३४।२२अब्।
भाग्यहीना न पश्यन्ति भक्तिहीनाश्च ये शिवे ॥ ॥१,३४।२२च्द्।
राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसम्भवम् ॥ ॥१,३४।२३अब्।
न लभन्ते प्रियाण्येषां न तुष्यति यदा शिवः ॥ ॥१,३४।२३च्द्।
भवप्रसादजं सर्वं नान्यद्देवप्रसादजम् ॥ ॥१,३४।२४अब्।
अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च ॥ ॥१,३४।२४च्द्।
क्षीरं तत्र कुतो ऽस्माकं वने निवसतां सदा ॥ ॥१,३४।२५अब्।
क्व दुग्धसाधनं वत्स क्व वयं वनवासिनः ॥ ॥१,३४।२५च्द्।
कृत्स्नाभावेन दारिद्र्यान्मया ते भाग्यहीनया ॥ ॥१,३४।२६अब्।
मिथ्यादुग्धमिदं दत्तम्पिष्टमालोड्य वारिणा ॥ ॥१,३४।२६च्द्।
त्वं मातुलगृहे स्वल्पं पीत्वा स्वादु पयः शृतम् ॥ ॥१,३४।२७अब्।
ज्ञात्वा स्वादु त्वया पीतं तज्जातीयमनुस्मरन् ॥ ॥१,३४।२७च्द्।
दत्तं न पय इत्युक्त्वा रुदन् दुःखीकरोषि माम् ॥ ॥१,३४।२८अब्।
प्रसादेन विना शम्भो पयस्तव न विद्यते ॥ ॥१,३४।२८च्द्।
पादपङ्कजयोस्तस्य साम्बस्य सगणस्य च ॥ ॥१,३४।२९अब्।
भक्त्या समर्पितं यत्तत्कारणं सर्वसम्पदाम् ॥ ॥१,३४।२९च्द्।
अधुना वसुदोस्माभिर्महादेवो न पूजितः ॥ ॥१,३४।३०अब्।
सकामानां यथाकामं यथोक्तफलदायकः ॥ ॥१,३४।३०च्द्।
धनान्युद्दिश्य नास्माभिरितः प्रागर्चितः शिवः ॥ ॥१,३४।३१अब्।
अतो दरिद्रास्सञ्जाता वयं तस्मान्न ते पयः ॥ ॥१,३४।३१च्द्।
पूर्वजन्मनि यद्दत्तं शिवमुद्दिश्य वै सुतः ॥ ॥१,३४।३२अब्।
तदेव लभ्यते नान्यद्विष्णुमुद्दिश्य वा प्रभुम् ॥ ॥१,३४।३२च्द्।
वायुरुवाच
इति मातृवचः श्रुत्वा तथ्यं शोकादिसूचकम् ॥ ॥१,३४।३३अब्।
बालो ऽप्यनुतपन्नन्तः प्रगल्भमिदमब्रवीत् ॥ ॥१,३४।३३च्द्।
५४२अ

उपमन्युरुवाच
शोकेनालमितो मतः साम्बो यद्यस्ति शङ्करः ॥ ॥१,३४।३४अब्।
त्यज शोकं महाभागे सर्वं भद्रं भविष्यति ॥ ॥१,३४।३४च्द्।
शृणु मातर्वचो मेद्य महादेवो ऽस्ति चेत्क्वचित् ॥ ॥१,३४।३५अब्।
चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम् ॥ ॥१,३४।३५च्द्।
वायुरुवाच
इति श्रुत्वा वचस्तस्य बालकस्य महामतेः ॥ ॥१,३४।३६अब्।
प्रय्तुवाच तदा माता सुप्रसन्ना मनस्विनी ॥ ॥१,३४।३६च्द्।
मातोवाच
शुभं विचारितं तात त्वया मत्प्रीतिवर्धनम् ॥ ॥१,३४।३७अब्।
विलम्बं मा कथास्त्वं हि भज साम्बं सदाशिवम् ॥ ॥१,३४।३७च्द्।
सर्वस्मादधिको ऽस्त्येव शिवः परमकारणम् ॥ ॥१,३४।३८अब्।
तत्कृतं हि जगत्सर्वं ब्रह्माद्यास्तस्य किङ्कराः ॥ ॥१,३४।३८च्द्।
तत्प्रसादकृतैश्वर्या दासास्तस्य वयं प्रभोः ॥ ॥१,३४।३९अब्।
तं विनान्यं न जानीमश्शङ्करं लोकशङ्करम् ॥ ॥१,३४।३९च्द्।
अन्यान्देवान्परित्यज्य कर्मणा मनसा गिरा ॥ ॥१,३४।४०अब्।
तमेव साम्बं सगणं भज भावपुरस्सरम् ॥ ॥१,३४।४०च्द्।
तस्य देवाधिदेवस्य शिवस्य वरदायिनः ॥ ॥१,३४।४१अब्।
साक्षान्नमश्शिवायेति मन्त्रो ऽयं वाचकः स्मृतः ॥ ॥१,३४।४१च्द्।
सप्तकोटिमहामन्त्राः सर्वे सप्रणवाः परे ॥ ॥१,३४।४२अब्।
तस्मिन्नेव विलीयन्ते पुनस्तस्माद्विनिर्गताः ॥ ॥१,३४।४२च्द्।
सप्रसादाश्च ते मन्त्राः स्वाधिकाराद्यपेक्षया ॥ ॥१,३४।४३अब्।
सर्वाधिकारस्त्वेको ऽयं मन्त्र एवेश्वराज्ञया ॥ ॥१,३४।४३च्द्।
यथा निकृष्टानुत्कृष्टान्सर्वानप्यात्मनः शिवः ॥ ॥१,३४।४४अब्।
क्षमते रक्षितुं तद्वन्मन्त्रो ऽयमपि सर्वदा ॥ ॥१,३४।४४च्द्।
प्रबलश्च तथा ह्येष मन्त्रो मन्त्रान्तरादपि ॥ ॥१,३४।४५अब्।
सर्वरक्षाक्षमो ऽप्येष नापरः कश्चिदिष्यते ॥ ॥१,३४।४५च्द्।
तस्मान्मन्त्रान्तरांस्त्यक्त्वा पञ्चाक्षरपरो भव ॥ ॥१,३४।४६अब्।
तस्मिञ्जिह्वान्तरगते न किञ्चिदिह दुर्लभम् ॥ ॥१,३४।४६च्द्।
अधोरास्त्रं च शैवानां रक्षाहेतुरनुत्तमम् ॥ ॥१,३४।४७अब्।
तच्च तत्प्रभवं मत्वा तत्परो भव नान्यथा ॥ ॥१,३४।४७च्द्।
भस्मेदन्तु मया लब्धं पितुरेव तवोत्तमम् ॥ ॥१,३४।४८अब्।
विरजानलसंसिद्धं महाव्यापन्निवारणम् ॥ ॥१,३४।४८च्द्।
मन्त्रं च ते मया दत्तं गृहाण मदनुज्ञया ॥ ॥१,३४।४९अब्।
अनेनैवाशु जप्तेन रक्षा तव भविष्यति ॥ ॥१,३४।४९च्द्।
वायुरुवाच
एवं मात्रा समादिश्य शिवमस्त्वित्युदीर्य च ॥ ॥१,३४।५०अब्।
विसृष्टस्तद्वचो मूर्ध्नि कुर्वन्नेव तदा मुनिः ॥ ॥१,३४।५०च्द्।
तां प्रणम्यैवमुक्त्वा च तपः कर्तुं प्रचक्रमे ॥ ॥१,३४।५१अब्।
तमाह च तदा माता शुभं कुर्वन्तु ते सुराः ॥ ॥१,३४।५१च्द्।
अनुज्ञातस्तया तत्र तपस्तेपे स दुश्चरम् ॥ ॥१,३४।५२अब्।
हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः ॥ ॥१,३४।५२च्द्।
अष्टेष्टकाभिः प्रसादं कृत्वा लिङ्गं च मृन्मयम् ॥ ॥१,३४।५३अब्।
तत्रावाह्य महादेवं साम्बं सगणमव्ययम् ॥ ॥१,३४।५३च्द्।
५४२ब्

भक्त्या पञ्चाक्षरेणैव पुत्रैः पुष्पैर्वनोद्भवैः ॥ ॥१,३४।५४अब्।
समभ्यर्च्य चिरं कालं चचार परमं तपः ॥ ॥१,३४।५४च्द्।
ततस्तपश्चरत्तं तं बालमेकाकिनं कृशम् ॥ ॥१,३४।५५अब्।
उपमन्युं द्विजवरं शिवसंसक्तमानसम् ॥ ॥१,३४।५५च्द्।
पुरा मरीचिना शप्ताः केचिन्मुनिपिशाचकाः ॥ ॥१,३४।५६अब्।
सम्पीड्य राक्षसैर्भावैस्तपसोविघ्नमाचरन् ॥ ॥१,३४।५६च्द्।
स च तैः पीड्यमानो ऽपि तपः कुर्वन्कथञ्चन ॥ ॥१,३४।५७अब्।
सदा नमः शिवायेति क्रोशति स्मार्तनादवत् ॥ ॥१,३४।५७च्द्।
तन्नादश्रवणादेव तपसो विघ्नकारिणः ॥ ॥१,३४।५८अब्।
ते तं बालं समुत्सृज्य मुनयस्समुपाचरन् ॥ ॥१,३४।५८च्द्।
तपसा तस्य विप्रस्य चोपमन्योर्महात्मनः ॥ ॥१,३४।५९अब्।
चराचरं च मुनयः प्रदीपितमभूज्जगत् ॥ ॥१,३४।५९च्द्।
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युतपोवर्णनं नाम चतुस्त्रिंशो ऽध्यायः