३३ पशुपतिव्रतविधानवर्णनम्

ऋषय ऊचुः
भगवञ्छ्रोतुमिच्छामो व्रतं पाशुपतं परम् ॥ ॥१,३३।१अब्।
ब्रह्मादयो ऽपि यत्कृत्वा सर्वे पाशुपताः स्मृताः ॥ ॥१,३३।१च्द्।
वायुरुवाच
रहस्यं वः प्रवक्ष्यामि सर्वपापनिकृन्तनम् ॥ ॥१,३३।२अब्।
व्रतं पाशुपतं श्रौतमथर्वशिरसि श्रुतम् ॥ ॥१,३३।२च्द्।
कालश्चैत्री पौर्णमासी देशः शिवपरिग्रहः ॥ ॥१,३३।३अब्।
क्षेत्रारामाद्यरण्यं वा प्रशस्तश्शुभलक्षणः ॥ ॥१,३३।३च्द्।
तत्र पूर्वं त्रयोदश्यां सुस्नातः सुकृताह्निकः ॥ ॥१,३३।४अब्।
अनुज्ञाप्य स्वमाचार्यं सम्पूज्य प्रणिपत्य च ॥ ॥१,३३।४च्द्।
पूजां वैशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम् ॥ ॥१,३३।५अब्।
शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥ ॥१,३३।५च्द्।
दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ॥ ॥१,३३।६अब्।
५३९अ

प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ॥ ॥१,३३।६च्द्।
ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥ ॥१,३३।६एफ़्।
व्रतमेतत्करोमीति भवेत्सङ्कल्प्य दीक्षितः ॥ ॥१,३३।७अब्।
यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥ ॥१,३३।७च्द्।
तदर्धं वा तदर्धं वा मासद्वादशकं तु वा ॥ ॥१,३३।८अब्।
तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥ ॥१,३३।८च्द्।
दिनद्वादशकं वा ऽथ दिनषट्कमथापि वा ॥ ॥१,३३।९अब्।
तदर्धं दिनमेकं वा व्रतसङ्कल्पनावधि ॥ ॥१,३३।९च्द्।
अग्निमाधाय विधिवद्विरजाहोमकारणात् ॥ ॥१,३३।१०अब्।
हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम् ॥ ॥१,३३।१०च्द्।
पूर्णामापूर्य तां भूयस्तत्त्वानां शुद्धिमुद्दिशन् ॥ ॥१,३३।११अब्।
जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ ॥१,३३।११च्द्।
तत्त्वान्येतानि मद्देहे शुद्ध्यन्ताम् १इत्यनुस्मरन् ॥ ॥१,३३।१२अब्।
पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥ ॥१,३३।१२च्द्।
ज्ञानकर्मविभेदेन पञ्चकर्मविभागशः ॥ ॥१,३३।१३अब्।
त्वगादिधातवस्सप्त पञ्च प्राणादिवायवः ॥ ॥१,३३।१३च्द्।
मनोबुद्धिरहं ख्यातिर्गुणाः प्रकृतिपूरुषौ ॥ ॥१,३३।१४अब्।
रागो विद्याकले चैव नियतिः काल एव च ॥ ॥१,३३।१४च्द्।
माया च शुद्धिविद्या च महेश्वरसदाशिवौ ॥ ॥१,३३।१५अब्।
शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ ॥१,३३।१५च्द्।
मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजा भवेत् ॥ ॥१,३३।१६अब्।
शिवानुग्रहमासाद्य ज्ञानवान्स हि जायते ॥ ॥१,३३।१६च्द्।
अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च ॥ ॥१,३३।१७अब्।
विन्यस्याग्नौ च सम्प्रोक्ष्य दिने तस्मिन्हविष्यभुक् ॥ ॥१,३३।१७च्द्।
प्रभाते तु चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ॥ ॥१,३३।१८अब्।
दिने तस्मिन्निराहारः कालं शेषं समापयेत् ॥ ॥१,३३।१८च्द्।
प्रातः पर्वणि चाप्येवं कृत्वा होमा वसानतः ॥ ॥१,३३।१९अब्।
उपसंहृत्य रुद्राग्निं गृह्णीयाद्भस्म यत्नतः ॥ ॥१,३३।१९च्द्।
ततश्च जटिलो मुण्डी शिखैकजट एव वा ॥ ॥१,३३।२०अब्।
भूत्वा स्नात्वा ततो वीतलज्जश्चेत्स्याद्दिगम्बरः ॥ ॥१,३३।२०च्द्।
अपि काषायवसनश्चर्मचीराम्बरो ऽथ वा ॥ ॥१,३३।२१अब्।
एकाम्बरो वल्कली वा भवेद्दण्डी च मेखली ॥ ॥१,३३।२१च्द्।
प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ॥ ॥१,३३।२२अब्।
सङ्कुलीकृत्य तद्भस्म विरजानलसम्भवम् ॥ ॥१,३३।२२च्द्।
अग्निरित्यादिभिर्मन्त्रैः षड्भिराथर्वणैः क्रमात् ॥ ॥१,३३।२३अब्।
विभृज्याङ्गानि मूर्धादिचरणान्तानि तैस्स्पृशेत् ॥ ॥१,३३।२३च्द्।
ततस्तेन क्रमेणैव समुद्धृत्य च भस्मना ॥ ॥१,३३।२४अब्।
सर्वाङ्गोद्धूलनं कुर्यात्प्रणवेन शिवेन वा ॥ ॥१,३३।२४च्द्।
ततस्त्रिपुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ॥ ॥१,३३।२५अब्।
शिवभावं समागम्य शिवयोगमथाचरेत् ॥ ॥१,३३।२५च्द्।
कुर्यात्स्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् ॥ ॥१,३३।२६अब्।
भुक्तिमुक्तिप्रदं चैतत्पशुत्वं विनिवर्तयेत् ॥ ॥१,३३।२६च्द्।
तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ॥ ॥१,३३।२७अब्।
पूजनीयो महादेवो लिङ्गमूर्तिस्सनातनः ॥ ॥१,३३।२७च्द्।
पद्ममष्टदलं हैमं नवरत्नैरलङ्कृतम् ॥ ॥१,३३।२८अब्।
कर्णिकाकेशरोपेतमासनं परिकल्पयेत् ॥ ॥१,३३।२८च्द्।
विभवे तदभावे तु रक्तं सितमथापि वा ॥ ॥१,३३।२९अब्।
पद्मं तस्याप्यभावे तु केवलं भावनामयम् ॥ ॥१,३३।२९च्द्।
तत्पद्मकर्णिकामध्ये कृत्वा लिङ्गं कनीयसम् ॥ ॥१,३३।३०अब्।
स्फीटिकं पीठिकोपेतं पूजयेद्विधिवत्क्रमात् ॥ ॥१,३३।३०च्द्।
प्रतिष्ठाप्य विधानेन तल्लिङ्गं कृतशोधनम् ॥ ॥१,३३।३१अब्।
परिकल्प्यासनं मूर्तिं पञ्चवक्त्रप्रकारतः ॥ ॥१,३३।३१च्द्।
पञ्चगव्यादिभिः पूर्णैर्यथाविभवसम्भृतैः ॥ ॥१,३३।३२अब्।
स्नापयेत्कलशैः पूर्णैरष्टापदसमुद्भवैः ॥ ॥१,३३।३२च्द्।
गन्धद्रव्यैस्सकर्पूरैश्चन्दनाद्यैस्सकुङ्कुमैः ॥ ॥१,३३।३३अब्।
सवेदिकं समालिप्य लिङ्गं भूषणभूषितम् ॥ ॥१,३३।३३च्द्।
बिल्वपत्रैश्च पद्मैश्च रक्तैः श्वेतैस्तथोत्पलैः ॥ ॥१,३३।३४अब्।
नीलोत्पलैस्तथान्यैश्च पुष्पैस्तैस्तैस्सुगन्धिभिः ॥ ॥१,३३।३४च्द्।
पुण्यैः प्रशस्तैः पत्रैश्च चित्रैर्दूर्वाक्षतादिभिः ॥ ॥१,३३।३५अब्।
समभ्यर्च्य यथालाभं महापूजाविधानतः ॥ ॥१,३३।३५च्द्।
धूपं दीपं तथा चापि नैवेद्यं च समादिशेत् ॥ ॥१,३३।३६अब्।
निवेदयित्वा विभवे कल्याणं च समाचरेत् ॥ ॥१,३३।३६च्द्।
इष्टानि च विशिष्टानि न्यायेनोपार्जितानि च ॥ ॥१,३३।३७अब्।
सर्वद्रव्याणि देयानि व्रते तस्मिन्विशेषतः ॥ ॥१,३३।३७च्द्।
श्रीपत्रोत्पलपद्मानां सङ्ख्या साहस्रिकी मता ॥ ॥१,३३।३८अब्।
प्रत्येकमपरा सङ्ख्या शतमष्टोत्तरं द्विजाः ॥ ॥१,३३।३८च्द्।
तत्रापि च विशेषेण न त्यजेद्बिल्वपत्रकम् ॥ ॥१,३३।३९अब्।
हैममेकं परं प्राहुः पद्मं पद्मसहस्रकात् ॥ ॥१,३३।३९च्द्।
नीलोत्पलादिष्वप्येतत्समानं बिल्बपत्रकैः ॥ ॥१,३३।४०अब्।
पुष्पान्तरे न नियमो यथालाभं निवेदयेत् ॥ ॥१,३३।४०च्द्।
अष्टाङ्गमर्घ्यमुत्कृष्टं धूपालेपौ विशेषतः ॥ ॥१,३३।४१अब्।
चन्दनं वामदेवाख्ये हरितालं च पौरुषे ॥ ॥१,३३।४१च्द्।
ईशाने भसितं केचिदालेपनमितीदृशाम् ॥ ॥१,३३।४२अब्।
न धूपमिति मन्यन्ते धूपान्तरविधानतः ॥ ॥१,३३।४२च्द्।
सितागुरुमघोराख्ये मुखे कृष्णागुरुं पुनः ॥ ॥१,३३।४२एफ़्।
पौरुषे गुग्गुलं सव्ये सौम्ये सौगन्धिकं मुखे ॥ ॥१,३३।४३अब्।
ईशाने ऽपि ह्युशीरादि देयाद्धूपं विशेषतः ॥ ॥१,३३।४३च्द्।
शर्करामधुकर्पूरकपिलाघृतसंयुतम् ॥ ॥१,३३।४४अब्।
चन्दनागुरुकाष्ठाद्यं सामान्यं सम्प्रचक्षते ॥ ॥१,३३।४४च्द्।
कर्पूरवर्तिराज्याढ्या देया दीपावलिस्ततः ॥ ॥१,३३।४५अब्।
अर्घ्यमाचमनं देयं प्रतिवक्त्रमतः परम् ॥ ॥१,३३।४५च्द्।
प्रथमावरणे पूज्यो क्रमाद्धेरम्बषण्मुखौ ॥ ॥१,३३।४६अब्।
ब्रह्माङ्गानि ततश्चैव प्रथमावरणेर्चिते ॥ ॥१,३३।४६च्द्।
द्वितीयावरणे पूज्या विघ्नेशाश्चक्रवर्तिनः ॥ ॥१,३३।४७अब्।
तृतीयावरणे पूज्या भवाद्या अष्टमूर्तयः ॥ ॥१,३३।४७च्द्।
५४०अ

महादेवादयस्तत्र तथैकादशमूर्तयः ॥ ॥१,३३।४८अब्।
चतुर्थावरणे पूज्याः सर्व एव गणेश्वराः ॥ ॥१,३३।४८च्द्।
बहिरेव तु पद्मस्य पञ्चमावरणे क्रमात् ॥ ॥१,३३।४९अब्।
दशदिक्पतयः पूज्याः सास्त्राः सानुचरास्तथा ॥ ॥१,३३।४९च्द्।
ब्रह्मणो मानसाः पुत्राः सर्वे ऽपि ज्योतिषां गणाः ॥ ॥१,३३।५०अब्।
सर्वा देव्यश्च देवाश्च सर्वे सर्वे च खेचराः ॥ ॥१,३३।५०च्द्।
पातालवासिनश्चान्ये सर्वे मुनिगणा अपि ॥ ॥१,३३।५१अब्।
योगिनो हि सखास्सर्वे पतङ्गा मातरस्तथा ॥ ॥१,३३।५१च्द्।
क्षेत्रपालाश्च सगणाः सर्वं चैतच्चराचरम् ॥ ॥१,३३।५२अब्।
पूजनीयं शिवप्रीत्या मत्त्वा शम्भुविभूतिमत् ॥ ॥१,३३।५२च्द्।
अथावरणपूजान्ते सम्पूज्य परमेश्वरम् ॥ ॥१,३३।५३अब्।
साज्यं सव्यं जनं हृद्यं हविर्भक्त्या निवेदयेत् ॥ ॥१,३३।५३च्द्।
मुखवासादिकं दत्त्वा ताम्बूलं सोपदंशकम् ॥ ॥१,३३।५४अब्।
अलङ्कृत्य च भूयो ऽपि नानापुष्पविभूषणैः ॥ ॥१,३३।५४च्द्।
नीराजनान्ते विस्तीर्य पूजाशेषं समापयेत् ॥ ॥१,३३।५५अब्।
चषकं सोपकारं च शयनं च समर्पयेत् ॥ ॥१,३३।५५च्द्।
चन्द्रसङ्काशहारं च शयनीयं समर्पयेत् ॥ ॥१,३३।५६अब्।
आद्यं नृपोचितं हृद्यं तत्सर्वमनुरूपतः ॥ ॥१,३३।५६च्द्।
कृत्वा च कारयित्वा च हित्वा च प्रतिपूजनम् ॥ ॥१,३३।५७अब्।
स्तोत्रं व्यपोहनं जप्त्वा विद्यां पञ्चाक्षरीं जपेत् ॥ ॥१,३३।५७च्द्।
प्रदक्षिणां प्रणामं च कृत्वात्मानं समर्पयेत् ॥ ॥१,३३।५८अब्।
ततः पुरस्ताद्देवस्य गुरुविप्रौ च पूजयेत् ॥ ॥१,३३।५८च्द्।
दत्त्वार्घ्यमष्टौ पुष्पाणि देवमुद्वास्य लिङ्गतः ॥ ॥१,३३।५९अब्।
अग्नेश्चाग्निं सुसंयम्य ह्युद्वास्य च तमप्युत ॥ ॥१,३३।५९च्द्।
प्रत्यहं च जनस्त्वेवं कुर्यात्सेवां पुरोदिताम् ॥ ॥१,३३।६०अब्।
ततस्तत्साम्बुजं लिङ्गं सर्वोपकरणान्वितम् ॥ ॥१,३३।६०च्द्।
समर्पयेत्स्वगुरवे स्थापयेद्वा शिवालये ॥ ॥१,३३।६१अब्।
सम्पूज्य च गुरून्विप्रान्व्रतिनश्च विशेषतः ॥ ॥१,३३।६१च्द्।
भक्तान्द्विजांश्च शक्तश्चेद्दीनानाथांश्च तोषयेत् ॥ ॥१,३३।६२अब्।
स्वयं चानशने शक्तः फलमूलाशने ऽथ वा ॥ ॥१,३३।६२च्द्।
पयोव्रतो वा भिक्षाशी भवेदेकाशनस्तथा ॥ ॥१,३३।६३अब्।
नक्तं युक्ताशनो नित्यं भूशय्यानिरतः शुचिः ॥ ॥१,३३।६३च्द्।
भस्मशायी तृणेशायी चीराजिनधृतो ऽथवा ॥ ॥१,३३।६४अब्।
ब्रह्मचर्यव्रतो नित्यं व्रतमेतत्समाचरेत् ॥ ॥१,३३।६४च्द्।
अर्कवारे तथार्द्रायां पञ्चदश्यां च पक्षयोः ॥ ॥१,३३।६५अब्।
अष्टम्यां च चतुर्दश्यां शक्तस्तूपवसेदपि ॥ ॥१,३३।६५च्द्।
पाखण्डिपतितोदक्यास्सूतकान्त्यजपूर्वकान् ॥ ॥१,३३।६६अब्।
वर्जयेत्सर्वयत्नेन मनसा कर्मणा गिरा ॥ ॥१,३३।६६च्द्।
क्षमदानदयासत्याहिंसाशीलः सदा भवेत् ॥ ॥१,३३।६७अब्।
सन्तुष्टश्च प्रशान्तश्च जपध्यानरतस्तथा ॥ ॥१,३३।६७च्द्।
कुर्यात्त्रिषवणस्नानं भस्मस्नानमथापि वा ॥ ॥१,३३।६८अब्।
पूजां वैशेषिकीं चैव मनसा वचसा गिरा ॥ ॥१,३३।६८च्द्।
बहुनात्र किमुक्तेन नाचरेदशिवं व्रती ॥ ॥१,३३।६९अब्।
प्रमादात्तु तथाचारे निरूप्य गुरुलाघवे ॥ ॥१,३३।६९च्द्।
५४०ब्

उचितां निष्कृतिं कुर्यात्पूजाहोमजपादिभिः ॥ ॥१,३३।७०अब्।
आसमाप्तेर्व्रतस्यैवमाचरेन्न प्रमादतः ॥ ॥१,३३।७०च्द्।
गोदानं च वृषोत्सर्गं कुर्यात्पूजां च सम्पदा ॥ ॥१,३३।७१अब्।
भक्तश्च शिवप्रीत्यर्थं सर्वकामविवर्जितः ॥ ॥१,३३।७१च्द्।
सामान्यमेतत्कथितं व्रतस्यास्य समासतः ॥ ॥१,३३।७२अब्।
प्रतिमासं विशेषं च प्रवदामि यथाश्रुतम् ॥ ॥१,३३।७२च्द्।
वैशाखे वज्रलिङ्गं तु ज्येष्ठे मारकतं शुभम् ॥ ॥१,३३।७३अब्।
आषाढे मौक्तिकं विद्याच्छ्रावणे नीलनिर्मितम् ॥ ॥१,३३।७३च्द्।
मासे भाद्रपदे चैव पद्मरागमयं परम् ॥ ॥१,३३।७४अब्।
आश्विने मासि विद्याद्वै लिङ्गं गोमेदकं वरम् ॥ ॥१,३३।७४च्द्।
कार्तिक्यां वैद्रुमं लिङ्गं वैदूर्यं मार्गशीर्षके ॥ ॥१,३३।७५अब्।
पुष्परागमयं पौषे माघे द्युमणिजन्तथा ॥ ॥१,३३।७५च्द्।
फाल्गुणे चन्द्रकान्तोत्थं चैत्रे तद्व्यत्ययो ऽथवा ॥ ॥१,३३।७६अब्।
सर्वमासेषु रत्नानामलाभे हैममेव वा ॥ ॥१,३३।७६च्द्।
हैमाभावे राजतं वा ताम्रजं शैलजन्तथा ॥ ॥१,३३।७७अब्।
मृन्मयं वा यथालाभं जातुषं चान्यदेव वा ॥ ॥१,३३।७७च्द्।
सर्वगन्धमयं वाथ लिङ्गं कुर्याद्यथारुचि ॥ ॥१,३३।७८अब्।
व्रतावसानसमये समाचरितनित्यकः ॥ ॥१,३३।७८च्द्।
कृत्वा वैशेषिकीं पूजां हुत्वा चैव यथा पुरा ॥ ॥१,३३।७९अब्।
सम्पूज्य च तथाचार्यं व्रतिनश्च विशेषतः ॥ ॥१,३३।७९च्द्।
देशिकेनाप्यनुज्ञातः प्राङ्मुखो वाप्युदङ्मुखः ॥ ॥१,३३।८०अब्।
दर्भासनो दर्भपाणिः प्राणापानौ नियम्य च ॥ ॥१,३३।८०च्द्।
जपित्वा शक्तितो मूलं ध्यात्वा साम्बं त्रियम्बकम् ॥ ॥१,३३।८१अब्।
अनुज्ञाप्य यथापूर्वं नमस्कृत्य कृताञ्जलिः ॥ ॥१,३३।८१च्द्।
समुत्सृजामि भगवन्व्रतमेतत्त्वदाज्ञया ॥ ॥१,३३।८२अब्।
इत्युक्त्वा लिङ्गमूलस्थान्दर्भानुत्तरतस्त्यजेत् ॥ ॥१,३३।८२च्द्।
ततो दण्डजटाचीरमेखला अपि चोत्सृजेत् ॥ ॥१,३३।८३अब्।
पुनराचम्य विधिवत्पञ्चाक्षरमुदीरयेत् ॥ ॥१,३३।८३च्द्।
यः कृत्वात्यन्तिकीं दीक्षामादेहान्तमनाकुलः ॥ ॥१,३३।८४अब्।
व्रतमेतत्प्रकुर्वीत स तु वै नैष्ठिकः स्मृतः ॥ ॥१,३३।८४च्द्।
सो ऽत्याश्रमी च विज्ञेयो महापाशुपतस्तथा ॥ ॥१,३३।८५अब्।
स एव तपतां श्रेष्ठ स एव च महाव्रती ॥ ॥१,३३।८५च्द्।
न तेन सदृशः कश्चित्कृतकृत्यो मुमुक्षुषु ॥ ॥१,३३।८६अब्।
यो यतिर्नैष्ठिको जातस्तमाहुर्नैष्ठिकोत्तमम् ॥ ॥१,३३।८६च्द्।
यो ऽन्वहं द्वादशाहं वा व्रतमेतत्समाचरेत् ॥ ॥१,३३।८७अब्।
सो ऽपि नैष्ठिकतुल्यः स्यात्तीव्रव्रतसमन्वयात् ॥ ॥१,३३।८७च्द्।
घृताक्तो यश्चरेदेतद्व्रतं व्रतपरायणः ॥ ॥१,३३।८८अब्।
द्वित्रैकदिवसं वापि स च कश्चन नैष्ठिकः ॥ ॥१,३३।८८च्द्।
कृत्यमित्येव निष्कामो यश्चरेद्व्रतमुत्तमम् ॥ ॥१,३३।८९अब्।
शिवार्पितात्मा सततं न तेन सदृशः क्वचित् ॥ ॥१,३३।८९च्द्।
भस्मच्छन्नो द्विजो विद्वान्महापातकसम्भवैः ॥ ॥१,३३।९०अब्।
पापैस्सुदारुणैस्सद्यो मुच्यते नात्र संशयः ॥ ॥१,३३।९०च्द्।
रुद्राग्निर्यत्परं वीर्यन्तद्भस्म परिकीर्तितम् ॥ ॥१,३३।९१अब्।
तस्मात्सर्वेषु कालेषु वीर्यवान्भस्मसंयुतः ॥ ॥१,३३।९१च्द्।
५४१अ

भस्मनिष्ठस्य नश्यन्ति देषा भस्माग्निसङ्गमात् ॥ ॥१,३३।९२अब्।
भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ॥ ॥१,३३।९२च्द्।
भस्मना दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः ॥ ॥१,३३।९३अब्।
भस्मस्नायी च पुरुषो भस्मनिष्ठ इति स्मृतः ॥ ॥१,३३।९३च्द्।
भूतप्रेतपिशासाश्च रोगाश्चातीव दुस्सहाः ॥ ॥१,३३।९४अब्।
भस्मनिष्ठस्य सान्निध्याद्विद्रवन्ति न संशयः ॥ ॥१,३३।९४च्द्।
भासनाद्भासितं प्रोक्तं भस्म कल्मषभक्षणात् ॥ ॥१,३३।९५अब्।
भूतिभूतिकरी चैव रक्षा रक्षाकरी परम् ॥ ॥१,३३।९५च्द्।
किमन्यदिह वक्तव्यं भस्ममाहात्म्यकारणम् ॥ ॥१,३३।९६अब्।
व्रती च भस्मना स्नातस्स्वयं देवो महेश्वरः ॥ ॥१,३३।९६च्द्।
परमास्त्रं च शैवानां भस्मैतत्पारमेश्वरम् ॥ ॥१,३३।९७अब्।
धौम्याग्रजस्य तपसि व्यापदो यन्निवारिताः ॥ ॥१,३३।९७च्द्।
तस्मात्सर्वप्रयत्नेन कृत्वा पाशुपतव्रतम् ॥ ॥१,३३।९८अब्।
धनवद्भस्म सङ्गृह्य भस्मस्नानरतो भवेत् ॥ ॥१,३३।९८च्द्।

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे पशुपतिव्रतविधानवर्णनं नाम त्रयस्त्रिंशो ऽध्यायः