३१ ज्ञानोपदेशः

वायुरुवाच
स्थने संशयितं विप्रा भवद्भिर्हेतुचोदितैः ॥ ॥१,३१।१अब्।
जिज्ञासा हि न नास्तिक्यं साधयेत्साधुबुद्धिषु ॥ ॥१,३१।१च्द्।
प्रमणमत्र वक्ष्यामि सताम्मोहनिवर्तकम् ॥ ॥१,३१।२अब्।
असतां त्वन्यथाभावः प्रसादेन विना प्रभोः ॥ ॥१,३१।२च्द्।
शिवस्य परिपूर्णस्य परानुग्रहमन्तरा ॥ ॥१,३१।३अब्।
न किञ्चिदपि कर्तव्यमिति साधु विनिश्चितम् ॥ ॥१,३१।३च्द्।
स्वभाव एव पर्याप्तः परानुग्रहकर्मणि ॥ ॥१,३१।४अब्।
अन्यथा निस्स्वभवेन न किमप्यनुगृह्यते ॥ ॥१,३१।४च्द्।
परं सर्वमनुग्राह्यं पशुपाशात्मकं जगत् ॥ ॥१,३१।५अब्।
परस्यानुग्रहार्थं तु पत्युराज्ञासमन्वयः ॥ ॥१,३१।५च्द्।
पतिराज्ञापकः सर्वमनुगृह्णाति सर्वदा ॥ ॥१,३१।६अब्।
तदर्थमर्थस्वीकारे परतन्त्रः कथं शिवः ॥ ॥१,३१।६च्द्।
अनुग्राह्यनपेक्षो ऽस्ति न हि कश्चिदनुग्रहः ॥ ॥१,३१।७अब्।
अतः स्वातन्त्र्यशब्दार्थाननपेक्षत्वलक्षणः ॥ ॥१,३१।७च्द्।
एतत्पुनरनुग्राह्यं परतन्त्रं तदिष्यते ॥ ॥१,३१।८अब्।
अनुग्रहादृते तस्य भुक्तिमुक्त्योरनन्वयात् ॥ ॥१,३१।८च्द्।
मूर्तात्मनो ऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात् ॥ ॥१,३१।९अब्।
अज्ञानाधिष्ठितं शम्भोर्न किञ्चिदिह विद्यते ॥ ॥१,३१।९च्द्।
येनोपलभ्यते ऽस्माभिस्सकलेनापि निष्कलः ॥ ॥१,३१।१०अब्।
स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते ॥ ॥१,३१।१०च्द्।
न ह्यसौ निष्कलः साक्षाच्छिवः परमकारणम् ॥ ॥१,३१।११अब्।
साकारेणानुभावेन केनाप्यनुपलक्षितः ॥ ॥१,३१।११च्द्।
प्रमाणगम्यतामात्रं तत्स्वभावोपपादकम् ॥ ॥१,३१।१२अब्।
न तावतात्रोपेक्षाधीरुपलक्षणमन्तरा ॥ ॥१,३१।१२च्द्।
आत्मोपमोल्वणं साक्षान्मूर्तिरेव हि काचन ॥ ॥१,३१।१३अब्।
शिवस्य मूर्तिर्मूर्त्यात्मा परस्तस्योपलक्षणम् ॥ ॥१,३१।१३च्द्।
यथा काष्ठेष्वनारूढो न वह्निरुपलभ्यते ॥ ॥१,३१।१४अब्।
एवं शिवो ऽपि मूर्त्यात्मन्यनारूढ इति स्थितिः ॥ ॥१,३१।१४च्द्।
यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम् ॥ ॥१,३१।१५अब्।
नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः ॥ ॥१,३१।१५च्द्।
अत एव हि पूजादौ मूर्त्यात्मपरिकल्पनम् ॥ ॥१,३१।१६अब्।
मूर्त्यात्मनि कृतं साक्षाच्छिव एव कृतं यतः ॥ ॥१,३१।१६च्द्।
लिङ्गादावपि तत्कृत्यमर्चायां च विशेषतः ॥ ॥१,३१।१७अब्।
तत्तन्मूर्त्यात्मभावेन शिवो ऽस्माभिरुपास्यते ॥ ॥१,३१।१७च्द्।
यथानुगृह्यते सो ऽपि मूर्त्यात्मा पारमेष्ठिना ॥ ॥१,३१।१८अब्।
तथा मूर्त्यात्मनिष्ठेन शिवेन पशवो वयम् ॥ ॥१,३१।१८च्द्।
लोकानुग्रहणायैव शिवेन परमेष्ठिना ॥ ॥१,३१।१९अब्।
सदाशिवादयस्सर्वे मूर्त्यात्मनो ऽप्यधिष्ठिताः ॥ ॥१,३१।१९च्द्।
आत्मनामेव भोगाय मोक्षाय च विशेषतः ॥ ॥१,३१।२०अब्।
तत्त्वातत्त्वस्वरूपेषु मूर्त्यात्मसु शिवान्वयः ॥ ॥१,३१।२०च्द्।
भोगः कर्मविपाकात्मा सुखदुःखात्मको मतः ॥ ॥१,३१।२१अब्।
न च कर्म शिवो ऽस्तीति तस्य भोगः किमात्मकः ॥ ॥१,३१।२१च्द्।
सर्वं शिवो ऽनुगृह्णाति न निगृह्णाति किञ्चन ॥ ॥१,३१।२२अब्।
निगृह्णतां तु ये दोषाश्शिवे तेषामसम्भवात् ॥ ॥१,३१।२२च्द्।
ये पुनर्निग्रहाः केचिद्ब्रह्मादिषु निदर्शिताः ॥ ॥१,३१।२३अब्।
ते ऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना ॥ ॥१,३१।२३च्द्।
ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः ॥ ॥१,३१।२४अब्।
श्रीकण्ठाख्यां शिवो मूर्तिं क्रीडतीमधितिष्ठति ॥ ॥१,३१।२४च्द्।
सदोषा एव देवाद्या निगृहीता यथोदितम् ॥ ॥१,३१।२५अब्।
ततस्तेपि विपाप्मानः प्रजाश्चापि गतज्वराः ॥ ॥१,३१।२५च्द्।
निग्रहो ऽपि स्वरूपेण विदुषां न जुगुप्सितः ॥ ॥१,३१।२६अब्।
अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते ॥ ॥१,३१।२६च्द्।
यत्सिद्धिरीश्वरत्वेन कार्यवर्गस्य कृत्स्नशः ॥ ॥१,३१।२७अब्।
न स चेदीशतां कुर्याज्जगतः कथमीश्वरः ॥ ॥१,३१।२७च्द्।
ईशेच्छा च विधातृत्वं विधेराज्ञापनं परम् ॥ ॥१,३१।२८अब्।
आज्ञावश्यमिदं कुर्यान्न कुर्यादिति शासनम् ॥ ॥१,३१।२८च्द्।
तच्छासनानुवर्तित्वं साधुभावस्य लक्षणम् ॥ ॥१,३१।२९अब्।
विपरीतसमाधोः स्यान्न सर्वं तत्तु दृश्यते ॥ ॥१,३१।२९च्द्।
साधु संरक्षणीयं चेद्विनिवर्त्यमसाधु यत् ॥ ॥१,३१।३०अब्।
निवर्तते च सामादेरन्ते दण्डो हि साधनम् ॥ ॥१,३१।३०च्द्।
हितार्थलक्षणं चेदं दण्डान्तमनुशासनम् ॥ ॥१,३१।३१अब्।
अतो यद्विपरीतं तदहितं सम्प्रचक्षते ॥ ॥१,३१।३१च्द्।
हिते सदा निषण्णानामीश्वरस्य निदर्शनम् ॥ ॥१,३१।३२अब्।
स कथं दुष्यते सद्भिरसतामेव निग्रहात् ॥ ॥१,३१।३२च्द्।
अयुक्तकारिणो लोके गर्हणीयाविवेकिता ॥ ॥१,३१।३३अब्।
यदुद्वेजयते लोकन्तदयुक्तं प्रचक्षते ॥ ॥१,३१।३३च्द्।
सर्वो ऽपि निग्रहो लोके न च विद्वेषपूर्वकः ॥ ॥१,३१।३४अब्।
न हि द्वेष्टि पिता पुत्रं यो निगृह्याति शिक्षयेत् ॥ ॥१,३१।३४च्द्।
माध्यस्थेनापि निग्राह्यान्यो निगृह्णाति मार्गतः ॥ ॥१,३१।३५अब्।
तस्याप्यवश्यं यत्किञ्चिन्नैर्घृण्यमनुवर्तते ॥ ॥१,३१।३५च्द्।
अन्यथा न हिनस्त्येव सदोषानप्यसौ परान् ॥ ॥१,३१।३६अब्।
हिनस्ति चायमप्यज्ञान्परं माध्यस्थ्यमाचरन् ॥ ॥१,३१।३६च्द्।
तस्माद्दुःखात्मिकां हिंसां कुर्वाणो यः सनिर्घृणः ॥ ॥१,३१।३७अब्।
५३६अ

इति निर्बन्धयन्त्येके नियमो नेति चापरे ॥ ॥१,३१।३७च्द्।
निदानज्ञस्य भिषजो रुग्णो हिंसां प्रयुञ्जतः ॥ ॥१,३१।३८अब्।
न किञ्चिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका ॥ ॥१,३१।३८च्द्।
घृणापि न गुणायैव हिंस्रेषु प्रतियोगिषु ॥ ॥१,३१।३९अब्।
तादृशेषु घृणी भ्रान्त्या घृणान्तरितनिर्घृणः ॥ ॥१,३१।३९च्द्।
उपेक्षापीह दोषाह रक्ष्येषु प्रतियोगिषु ॥ ॥१,३१।४०अब्।
शक्तौ सत्यामुपेक्षातो रक्ष्यस्सद्यो विपद्यते ॥ ॥१,३१।४०च्द्।
सर्पस्या ऽ ऽस्यगतम्पश्यन्यस्तु रक्ष्यमुपेक्षते ॥ ॥१,३१।४१अब्।
दोषाभासान्समुत्प्रेक्ष्य फलतः सो ऽपि निर्घृणः ॥ ॥१,३१।४१च्द्।
तस्माद् घृणा गुणायैव सर्वथेति न सम्मतम् ॥ ॥१,३१।४२अब्।
सम्मतं प्राप्तकामित्वं सर्वं त्वन्यदसम्मतम् ॥ ॥१,३१।४२च्द्।
मूर्त्यात्मस्वपि रागाद्या दोषाः सन्त्येव वस्तुतः ॥ ॥१,३१।४३अब्।
तथापि तेषामेवैते न शिवस्य तु सर्वथा ॥ ॥१,३१।४३च्द्।
अग्नावपि समाविष्टं ताम्रं खलु सकालिकम् ॥ ॥१,३१।४३एफ़्।
इति नाग्निरसौ दुष्येत्ताम्रसंसर्गकारणात् ॥ ॥१,३१।४४अब्।
नाग्नेरशुचिसंसर्गादशुचित्वमपेक्षते ॥ ॥१,३१।४४च्द्।
अशुचेस्त्वग्निसंयोगाच्छुचित्वमपि जायते ॥ ॥१,३१।४५अब्।
एवं शोध्यात्मसंसर्गान्न ह्यशुद्धः शिवो भवेत् ॥ ॥१,३१।४५च्द्।
शिवसंसर्गतस्त्वेष शोध्यात्मैव हि शुध्यति ॥ ॥१,३१।४६अब्।
अयस्यग्नौ समाविष्टे दाहो ऽग्नेरेव नायसः ॥ ॥१,३१।४६च्द्।
मूर्तात्मन्येवमैश्वर्यमीश्वरस्यैव नात्मनाम् ॥ ॥१,३१।४७अब्।
न हि काष्ठं ज्वलत्यूर्ध्वमग्निरेव ज्वलत्यसौ ॥ ॥१,३१।४७च्द्।
काष्ठस्याङ्गारता नाग्नेरेवमत्रापि योज्यताम् ॥ ॥१,३१।४८अब्।
अत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि ॥ ॥१,३१।४८च्द्।
शिवावेशवशादेव शिवत्वमुपचर्यते ॥ ॥१,३१।४९अब्।
मैत्र्यादयो गुणा गौणास्तस्मात्ते भिन्नवृत्तयः ॥ ॥१,३१।४९च्द्।
तैर्गुणैरुपरक्तानां दोषाय च गुणाय च ॥ ॥१,३१।५०अब्।
यत्तु गौणमगौणं च तत्सर्वमनुगृह्णतः ॥ ॥१,३१।५०च्द्।
न गुणाय न दोषाय शिवस्य गुणवृत्तयः ॥ ॥१,३१।५०एफ़्।
न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः ॥ ॥१,३१।५१अब्।
संसारमोचनं किं तु शैवमाज्ञामयं हितम् ॥ ॥१,३१।५१च्द्।
हितं तदाज्ञाकरणं यद्धितं तदनुग्रहः ॥ ॥१,३१।५२अब्।
सर्वं हिते नियुञ्जावः सर्वानुग्रहकारकः ॥ ॥१,३१।५२च्द्।
यस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम् ॥ ॥१,३१।५३अब्।
तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः ॥ ॥१,३१।५३च्द्।
हिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम् ॥ ॥१,३१।५४अब्।
स्वभावप्रतिबन्धं तत्समं न लभते हितम् ॥ ॥१,३१।५४च्द्।
यथा विकासयत्येव रविः पद्मानि भानुभिः ॥ ॥१,३१।५५अब्।
समं न विकसन्त्येव स्वस्वभावानुरोधतः ॥ ॥१,३१।५५च्द्।
स्वभावो ऽपि हि भावानां भाविनो ऽर्थस्य कारणम् ॥ ॥१,३१।५६अब्।
न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत् ॥ ॥१,३१।५६च्द्।
सुवर्णमेव नाङ्गारं द्रावयत्यग्निसङ्गमः ॥ ॥१,३१।५७अब्।
एवं पक्वमलानेव मोचयेन्न शिवपरान् ॥ ॥१,३१।५७च्द्।
५३६ब्

यद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम् ॥ ॥१,३१।५८अब्।
विना भावनया कर्ता स्वतन्त्रस्सन्ततो भवेत् ॥ ॥१,३१।५८च्द्।
स्वभावविमलो यद्वत्सर्वानुग्राहकश्शिवः ॥ ॥१,३१।५९अब्।
स्वभावमलिनास्तद्वदात्मनो जीवसञ्ज्ञिताः ॥ ॥१,३१।५९च्द्।
अन्यथा संसरन्त्येते नियमान्न शिवः कथम् ॥ ॥१,३१।६०अब्।
कर्ममायानुबन्धोस्य संसारः कथ्यते बुधैः ॥ ॥१,३१।६०च्द्।
अनुबन्धो ऽयमस्यैव न शिवस्येति हेतुमान् ॥ ॥१,३१।६१अब्।
स हेतुरात्मनामेव निजो नागन्तुको मलः ॥ ॥१,३१।६१च्द्।
आगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना ॥ ॥१,३१।६२अब्।
यो ऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः ॥ ॥१,३१।६२च्द्।
आत्मतायाः समत्वे ऽपि बद्धा मुक्ताः परे यतः ॥ ॥१,३१।६३अब्।
बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः ॥ ॥१,३१।६३च्द्।
ज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः ॥ ॥१,३१।६४अब्।
केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः ॥ ॥१,३१।६४च्द्।
मूर्त्यात्मसु शिवाः केचिदध्वनां मूर्धसु स्थिताः ॥ ॥१,३१।६५अब्।
मध्ये महेश्वरा रुद्रास्त्वर्वाचीनपदे स्थिताः ॥ ॥१,३१।६५च्द्।
आसन्ने ऽपि च मायायाः परस्मात्कारणात्त्रयम् ॥ ॥१,३१।६६अब्।
तत्राप्यात्मा स्थितो ऽधस्तादन्तरात्मा च मध्यतः ॥ ॥१,३१।६६च्द्।
परस्तात्परमात्मेति ब्रह्मविष्णुमहेश्वराः ॥ ॥१,३१।६७अब्।
वर्तन्ते वसवः केचित्परमात्मपदाश्रयाः ॥ ॥१,३१।६७च्द्।
अन्तरात्मपदे केचित्केचिदात्मपदे तथा ॥ ॥१,३१।६८अब्।
शान्त्यतीतपदे शैवाः शान्ते माहेश्वरे ततः ॥ ॥१,३१।६८च्द्।
विद्यायान्तु यथा रौद्राः प्रतिष्ठायां तु वैष्णवाः ॥ ॥१,३१।६९अब्।
निवृत्तौ च तथात्मानो ब्रह्मा ब्रह्माङ्गयोनयः ॥ ॥१,३१।६९च्द्।
देवयोन्यष्टकं मुख्यं मानुष्यमथ मध्यमम् ॥ ॥१,३१।७०अब्।
पक्ष्यादयो ऽधमाः पञ्चयोनयस्ताश्चतुर्दश ॥ ॥१,३१।७०च्द्।
उत्तराधरभावो ऽपि ज्ञेयस्संसारिणो मलः ॥ ॥१,३१।७१अब्।
यथामभावो मुक्तस्य पूर्वं पश्चात्तु पक्वता ॥ ॥१,३१।७१च्द्।
मलो ऽप्यामश्च पक्वश्च भवेत्संसारकारणम् ॥ ॥१,३१।७२अब्।
आमे त्वधरता पुंसां पक्वे तूत्तरता क्रमात् ॥ ॥१,३१।७२च्द्।
पश्वात्मानस्त्रिधाभिन्ना एकद्वित्रिमलाः क्रमात् ॥ ॥१,३१।७३अब्।
अत्रोत्तरा एकमला द्विमला मध्यमा मताः ॥ ॥१,३१।७३च्द्।
त्रिमलास्त्वधमा ज्ञेया यथोत्तरमधिष्ठिताः ॥ ॥१,३१।७३एफ़्।
त्रिमलानधितिष्ठन्ति द्विमलैकमलाः क्रमात् ॥ ॥१,३१।७४अब्।
इत्थमौपाधिको भेदो विश्वस्य परिकल्पितः ॥ ॥१,३१।७४च्द्।
एकद्वित्रिमलान्सर्वाञ्छिव एको ऽधितिष्ठति ॥ ॥१,३१।७५अब्।
अशिवात्मकमप्येतच्छिवेनाधिष्ठितं यथा ॥ ॥१,३१।७५च्द्।
अरुद्रात्मकमित्येवं रुद्रैर्जगदधिष्ठितम् ॥ ॥१,३१।७६अब्।
अण्डान्ता हि महाभूमिश्शतरुद्राद्यधिष्ठिता ॥ ॥१,३१।७६च्द्।
मायान्तमन्तरिक्षं तु ह्यमरेशादिभिः क्रमात् ॥ ॥१,३१।७७अब्।
अङ्गुष्ठमात्रपर्यन्तैस्समन्तात्सन्ततं ततम् ॥ ॥१,३१।७७च्द्।
महामायावसाना द्यौर्वाय्वाद्यैर्भुवनाधिपैः ॥ ॥१,३१।७८अब्।
५३७अ

अनाश्रितान्तैरध्वान्तर्वर्तिभिस्समधिष्ठिताः ॥ ॥१,३१।७८च्द्।
ते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा ॥ ॥१,३१।७९अब्।
पृथिवीपद इत्येवं देवा देवव्रतैः स्तुता ॥ ॥१,३१।७९च्द्।
एवन्त्रिभिर्मलैरामैः पक्वैरेव पृथक्पृथक् ॥ ॥१,३१।८०अब्।
निदानभूतैस्संसाररोगः पुंसां प्रवर्तते ॥ ॥१,३१।८०च्द्।
अस्य रोगस्य भैषज्यं ज्ञानमेव न चापरम् ॥ ॥१,३१।८१अब्।
भिषगाज्ञापकः शम्भुश्शिवः परमकारणम् ॥ ॥१,३१।८१च्द्।
अदुःखेना ऽपि शक्तो ऽसौ पशून्मोचयितुं शिवः ॥ ॥१,३१।८२अब्।
कथं दुःखं करोतीति नात्र कार्या विचारणा ॥ ॥१,३१।८२च्द्।
दुःखमेव हि सर्वो ऽपि संसार इति निश्चितम् ॥ ॥१,३१।८३अब्।
कथं दुःखमदुःखं स्यात्स्वभावो ह्यविपर्ययः ॥ ॥१,३१।८३च्द्।
न हि रोगी ह्यरोगी स्याद्भिषग्भैषज्यकारणात् ॥ ॥१,३१।८४अब्।
रोगार्तं तु भिषग्रोगाद्भैषजैस्सुखमुद्धरेत् ॥ ॥१,३१।८४च्द्।
एवं स्वभावमलिनान्स्वभावाद्दुःखिनः पशून् ॥ ॥१,३१।८५अब्।
स्वाज्ञौषधविधानेन दुःखान्मोचयते शिवः ॥ ॥१,३१।८५च्द्।
न भिषक्कारणं रोगे शिवः संसारकारणम् ॥ ॥१,३१।८६अब्।
इत्येतदपि वैषम्यं न दोषायास्य कल्पते ॥ ॥१,३१।८६च्द्।
दुःखे स्वभावसंसिद्धे कथन्तत्कारणं शिवः ॥ ॥१,३१।८७अब्।
स्वाभाविको मलः पुंसां स हि संसारयत्यमून् ॥ ॥१,३१।८७च्द्।
संसारकारणं यत्तु मलं मायाद्यचेतनम् ॥ ॥१,३१।८८अब्।
तत्स्वयं न प्रवर्तेत शिवसान्निध्यमन्तरा ॥ ॥१,३१।८८च्द्।
यथा मणिरयस्कान्तस्सान्निध्यादुपकारकः ॥ ॥१,३१।८९अब्।
अयसश्चलतस्तद्वच्छिवो ऽप्यस्येति सूरयः ॥ ॥१,३१।८९च्द्।
न निवर्तयितुं शक्यं सान्निध्यं सदकारणम् ॥ ॥१,३१।९०अब्।
अधिष्ठाता ततो नित्यमज्ञातो जगतश्शिवः ॥ ॥१,३१।९०च्द्।
न शिवेन विना किञ्चित्प्रवृत्तमिह विद्यते ॥ ॥१,३१।९१अब्।
तत्प्रेरितमिदं सर्वं तथापि न स मुह्यति ॥ ॥१,३१।९१च्द्।
शक्तिराज्ञात्मिका तस्य नियन्त्री विश्वतोमुखी ॥ ॥१,३१।९२अब्।
तया ततमिदं शश्वत्तथापि स न दुष्यति ॥ ॥१,३१।९२च्द्।
अनिदं प्रथमं सर्वमीशितव्यं स ईश्वरः ॥ ॥१,३१।९३अब्।
ईशनाच्च तदीयाज्ञा तथापि स न दुष्यति ॥ ॥१,३१।९३च्द्।
यो ऽन्यथा मन्यते मोहात्स विनष्यति दुर्मतिः ॥ ॥१,३१।९४अब्।
तच्छक्तिवैभवादेव तथापि स न दुष्यति ॥ ॥१,३१।९४च्द्।
एतस्मिन्नन्तरे व्योम्नः श्रुताः वागरीरिणी ॥ ॥१,३१।९५अब्।
सत्यमोममृतं सौम्यमित्याविरभवत्स्फुटम् ॥ ॥१,३१।९५च्द्।
ततो हृष्टतराः सर्वे विनष्टाशेषसंशयाः ॥ ॥१,३१।९६अब्।
मुनयो विस्मयाविष्टाः प्रेणेमुः पवनं प्रभुम् ॥ ॥१,३१।९६च्द्।
तथा विगतसन्देहान्कृत्वापि पवनो मुनीन् ॥ ॥१,३१।९७अब्।
नैते प्रतिष्ठितज्ञाना इति मत्वैवमब्रवीत् ॥ ॥१,३१।९७च्द्।
वायुरुवाच्व
परोक्षमपरोक्षं च द्विविधं ज्ञानमिष्यते ॥ ॥१,३१।९८अब्।
परोक्षमस्थिरं प्राहुरपरोक्षं तु सुस्थिरम् ॥ ॥१,३१।९८च्द्।
हेतूपदेशगम्यं यत्तत्परोक्षं प्रचक्षते ॥ ॥१,३१।९९अब्।
५३७ब्

अपरोक्षं पुनः श्रेष्ठादनुष्ठानाद्भविष्यति ॥ ॥१,३१।९९च्द्।
नापरोक्षादृते मोक्ष इति कृत्वा विनिश्चयम् ॥ ॥१,३१।१००अब्।
श्रेष्ठानुष्ठानसिद्ध्यर्थं प्रयतध्वमतन्द्रिताः ॥ ॥१,३१।१००च्द्।

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ज्ञानोपदेशो नामैकत्रिंशो ऽध्यायः