३० शिवतत्त्वप्रश्नः

ऋषय ऊचुः
चरितानि विचित्राणि गृह्याणि गहनानि च ॥ ॥१,३०।१अब्।
दुर्विज्ञेयानि देवैश्च मोहयन्ति मनांसि नः ॥ ॥१,३०।१च्द्।
शिवयोस्तत्त्वसम्बन्धे न दोष उपलभ्यते ॥ ॥१,३०।२अब्।
चरितैः प्राकृतो भावस्तयोरपि विभाव्यते ॥ ॥१,३०।२च्द्।
ब्रह्मादयो ऽपि लोकानां सृष्टिस्थित्यन्तहेतवः ॥ ॥१,३०।३अब्।
निग्रहानुग्रहौ प्राप्य शिवस्य वशवर्तिनः ॥ ॥१,३०।३च्द्।
शिवः पुनर्न कस्यापि निग्रहानुग्रहास्पदम् ॥ ॥१,३०।४अब्।
अतो ऽनायत्तमैश्वर्यं तस्यैवेति विनिश्चितम् ॥ ॥१,३०।४च्द्।
५३४अ

यद्येवमीदृशैश्वर्यं तत्तु स्वातन्त्र्यलक्षणम् ॥ ॥१,३०।५अब्।
स्वभावसिद्धं चैतस्य मूर्तिमत्तास्पदं भवेत् ॥ ॥१,३०।५च्द्।
न मूर्तिश्च स्वतन्त्रस्य घटते मूलहेतुना ॥ ॥१,३०।६अब्।
मूर्तेरपि च कार्यत्वात्तत्सिद्धिः स्यादहैतुकी ॥ ॥१,३०।६च्द्।
सर्वत्र परमो भावो ऽपरमश्चान्य उच्यते ॥ ॥१,३०।७अब्।
परमापरमौ भावौ कथमेकत्र सङ्गतौ ॥ ॥१,३०।७च्द्।
निष्फलो हि स्वभावो ऽस्य परमः परमात्मनः ॥ ॥१,३०।८अब्।
स एव सकलः कस्मात्स्वभावो ह्यविपर्ययः ॥ ॥१,३०।८च्द्।
स्वभावो विपरीतश्चेत्स्वतन्त्रः स्वेच्छया यदि ॥ ॥१,३०।९अब्।
न करोति किमीशानो नित्यानित्यविपर्ययम् ॥ ॥१,३०।९च्द्।
मूर्तात्मा सकलः कश्चित्स चान्यो निष्फलः शिवः ॥ ॥१,३०।१०अब्।
शिवेनाधिष्ठितश्चेति सर्वत्र लघु कथ्यते ॥ ॥१,३०।१०च्द्।
मूर्त्यात्मैव तदा मूर्तिः शिवस्यास्य भवेदिति ॥ ॥१,३०।११अब्।
तस्य मूर्तौ मूर्तिमतोः पारतन्त्र्यं हि निश्चितम् ॥ ॥१,३०।११च्द्।
अन्यथा निरपेक्षेण मूर्तिः स्वीक्रियते कथम् ॥ ॥१,३०।१२अब्।
मूर्तिस्वीकरणं तस्मान्मूर्तौ साध्यफलेप्सया ॥ ॥१,३०।१२च्द्।
न हि स्वेच्छाशरीरत्वं स्वातन्त्र्यायोपपद्यते ॥ ॥१,३०।१३अब्।
स्वेच्छैव तादृशी पुंसां यस्मात्कर्मानुसारिणी ॥ ॥१,३०।१३च्द्।
स्वीकर्तुं स्वेच्छया देहं हातुं च प्रभवन्त्युत ॥ ॥१,३०।१४अब्।
ब्रह्मादयः पिशाचान्ताः किं ते कर्मातिवर्तिनः ॥ ॥१,३०।१४च्द्।
इच्छया देहनिर्माणमिन्द्रजालोपमं विदुः ॥ ॥१,३०।१५अब्।
अणिमादिगुणैश्वर्यवशीकारानतिक्रमात् ॥ ॥१,३०।१५च्द्।
विश्वरूपं दधद्विष्णुर्दधीचेन महर्षिणा ॥ ॥१,३०।१६अब्।
युध्यता समुपालब्धस्तद्रूपं दधता स्वयम् ॥ ॥१,३०।१६च्द्।
सर्वस्मादधिकस्यापि शिवस्य परमात्मनः ॥ ॥१,३०।१७अब्।
शरीरवत्तयान्यात्मसाधर्म्यं प्रतिभाति नः ॥ ॥१,३०।१७च्द्।
सर्वानुग्राहकं प्राहुश्शिवं परमकारणम् ॥ ॥१,३०।१८अब्।
स निर्गृह्णाति देवानां सर्वानुग्राहकः कथम् ॥ ॥१,३०।१८च्द्।
चिच्छेद बहुशो देवो ब्रह्मणः पञ्चमं शिरः ॥ ॥१,३०।१९अब्।
शिवनिन्दां प्रकुर्वन्तं पुत्रेति कुमतेर्हठात् ॥ ॥१,३०।१९च्द्।
विष्णोरपि नृसिंहस्य रभसा शरभाकृतिः ॥ ॥१,३०।२०अब्।
बिभेद पद्भ्यामाक्रम्य हृदयं नखरैः खरैः ॥ ॥१,३०।२०च्द्।
देवस्त्रीषु च देवेषु दक्षस्याध्वरकारणात् ॥ ॥१,३०।२१अब्।
वीरेण वीरभद्रेण न हि कश्चिददण्डितः ॥ ॥१,३०।२१च्द्।
पुरत्रयं च सस्त्रीकं सदैत्यं सह बालकैः ॥ ॥१,३०।२२अब्।
क्षणेनैकेन देवेन नेत्राग्नेरिन्धनीकृतम् ॥ ॥१,३०।२२च्द्।
प्रजानां रतिहेतुश्च कामो रतिपतिस्स्वयम् ॥ ॥१,३०।२३अब्।
क्रोशतामेव देवानां हुतो नेत्रहुताशने ॥ ॥१,३०।२३च्द्।
गावश्च कश्चिद्दुग्धौघं स्रवन्त्यो मूर्ध्नि खेचराः ॥ ॥१,३०।२४अब्।
सरुषा प्रेक्ष्य देवेन तत्क्षणे भस्मसात्कृतः ॥ ॥१,३०।२४च्द्।
जलन्धरासुरो दीर्णश्चक्रीकृत्य जलं पदा ॥ ॥१,३०।२५अब्।
बद्ध्वानन्तेन यो विष्णुं चिक्षेप शतयोजनम् ॥ ॥१,३०।२५च्द्।
तमेव जलसन्धायी शूलेनैव जघान सः ॥ ॥१,३०।२६अब्।
तच्चक्रं तपसा लब्ध्वा लब्धवीर्यो हरिस्सदा ॥ ॥१,३०।२६च्द्।
५३४ब्

जिघांसतां सुरारीणां कुलं निर्घृणचेतसाम् ॥ ॥१,३०।२७अब्।
त्रिशूलेनान्धकस्योरः शिखिनैवोपतापितम् ॥ ॥१,३०।२७च्द्।
कण्ठात्कालाङ्गनां सृष्ट्वा दारको ऽपि निपातितः ॥ ॥१,३०।२८अब्।
कौशिकीं जनयित्वा तु गौर्यास्त्वक्कोशगोचराम् ॥ ॥१,३०।२८च्द्।
शुम्भस्सह निशुम्भेन प्रापितो मरणं रणे ॥ ॥१,३०।२९अब्।
श्रुतं च महदाख्यानं स्कान्दे स्कन्दसमाश्रयम् ॥ ॥१,३०।२९च्द्।
वधार्थे तारकाख्यस्य दैत्येन्द्रस्येन्द्रविद्विषः ॥ ॥१,३०।३०अब्।
ब्रह्मणाभ्यर्थितो देवो मन्दरान्तःपुरं गतः ॥ ॥१,३०।३०च्द्।
विहृत्य सुचिरं देव्या विहारा ऽतिप्रसङ्गतः ॥ ॥१,३०।३१अब्।
रसां रसातलं नीतामिव कृत्वाभिधां ततः ॥ ॥१,३०।३१च्द्।
देवीं च वञ्चयंस्तस्यां स्ववीर्यमतिदुर्वहम् ॥ ॥१,३०।३२अब्।
अविसृज्य विसृज्याग्नौ हविः पूतमिवामृतम् ॥ ॥१,३०।३२च्द्।
गङ्गादिष्वपि निक्षिप्य वह्निद्वारा तदंशतः ॥ ॥१,३०।३३अब्।
तत्समाहृत्य शनकैस्तोकंस्तोकमितस्ततः ॥ ॥१,३०।३३च्द्।
स्वाहया कृत्तिकारूपात्स्वभर्त्रा रममाणया ॥ ॥१,३०।३४अब्।
सुवर्णीभूतया न्यस्तं मेरौ शरवणे क्वचित् ॥ ॥१,३०।३४च्द्।
सन्दीपयित्वा कालेन तस्य भासा दिशो दश ॥ ॥१,३०।३५अब्।
रञ्जयित्वा गिरीन्सर्वान्काञ्चनीकृत्य मेरुणा ॥ ॥१,३०।३५च्द्।
ततश्चिरेण कालेन सञ्जाते तत्र तेजसि ॥ ॥१,३०।३६अब्।
कुमारे सुकुमाराङ्गे कुमाराणां निदर्शने ॥ ॥१,३०।३६च्द्।
तच्छैशवं स्वरूपं च तस्य दृष्ट्वा मनोहरम् ॥ ॥१,३०।३७अब्।
सह देवसुरैर्लोकैर्विस्मिते च विमोहिते ॥ ॥१,३०।३७च्द्।
देवो ऽपि स्वयमायातः पुत्रदर्शनलालसः ॥ ॥१,३०।३८अब्।
सह देव्याङ्कमारोप्य ततो ऽस्य स्मेरमाननम् ॥ ॥१,३०।३८च्द्।
पीतामृतमिव स्नेहविवशेनान्तरात्मना ॥ ॥१,३०।३९अब्।
देवेष्वपि च पश्यत्सु वीतरागैस्तपस्विभिः ॥ ॥१,३०।३९च्द्।
स्वस्य वक्षःस्थले स्वैरं नर्तयित्वा कुमारकम् ॥ ॥१,३०।४०अब्।
अनुभूय च तत्क्रीडां सम्भाव्य च परस्परम् ॥ ॥१,३०।४०च्द्।
स्तन्यमाज्ञापयन्देव्याः पाययित्वामृतोपमम् ॥ ॥१,३०।४१अब्।
तवावतारो जगतां हितायेत्यनुशास्य च ॥ ॥१,३०।४१च्द्।
स्वयन्देवश्च देवी च न तृप्तिमुपजग्मतुः ॥ ॥१,३०।४२अब्।
ततः शक्रेण सन्धाय बिभ्यता तारकासुरात् ॥ ॥१,३०।४२च्द्।
कारयित्वाभिषेकं च सेनापत्ये दिवौकसाम् ॥ ॥१,३०।४३अब्।
पुत्रमन्तरतः कृत्वा देवेन त्रिपुरद्विषा ॥ ॥१,३०।४३च्द्।
स्वयमन्तर्हितेनैव स्कन्दमिन्द्रादिरक्षितम् ॥ ॥१,३०।४४अब्।
तच्छक्त्या क्रौञ्चभेदिन्या युधि कालाग्निकल्पया ॥ ॥१,३०।४४च्द्।
छेदितं तारकस्यापि शिरश्शक्रभिया सह ॥ ॥१,३०।४५अब्।
स्तुतिं चक्रुर्विशेषेण हरिधातृमुखाः सुराः ॥ ॥१,३०।४५च्द्।
तथा रक्षोधिपः साक्षाद्रावणो बलगर्वितः ॥ ॥१,३०।४६अब्।
उद्धरन्स्वभुजैर्दीर्घैः कैलासं गिरिमात्मनः ॥ ॥१,३०।४६च्द्।
तदागो ऽसहमानस्य देवदेवस्य शूलिनः ॥ ॥१,३०।४७अब्।
पदाङ्गुष्ठपरिस्पन्दान्ममज्ज मृदितो भुवि ॥ ॥१,३०।४७च्द्।
बटोः केनचिदर्थेन स्वाश्रितस्य गतायुषः ॥ ॥१,३०।४८अब्।
५३५अ

त्वरयागत्य देवेन पादान्तं गमितोन्तकः ॥ ॥१,३०।४८च्द्।
स्ववाहनमविज्ञाय वृषेन्द्रं वडवानलः ॥ ॥१,३०।४९अब्।
सगलग्रहमानीतस्ततो ऽस्त्येकोदकं जगत् ॥ ॥१,३०।४९च्द्।
अलोकविदितैस्तैस्तैर्वृत्तैरानन्दसुन्दरैः ॥ ॥१,३०।५०अब्।
अङ्गहारस्वसेनेदमसकृच्चालितं जगत् ॥ ॥१,३०।५०च्द्।
शान्त एव सदा सर्वमनुगृह्णाति चेच्छिवः ॥ ॥१,३०।५१अब्।
सर्वाणि पूरयेदेव कथं शक्तेन मोचयेत् ॥ ॥१,३०।५१च्द्।
अनादिकर्म वैचित्र्यमपि नात्र नियामकम् ॥ ॥१,३०।५२अब्।
कारणं खलु कर्मापि भवेदीश्वरकारितम् ॥ ॥१,३०।५२च्द्।
किमत्र बहुनोक्तेन नास्तिक्यं हेतुकारकम् ॥ ॥१,३०।५३अब्।
यथा ह्याशु निवर्तेत तथा कथय मारुत ॥ ॥१,३०।५३च्द्।

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वप्रश्नो नाम त्रिंशो ऽध्यायः