२९ वागर्थकतत्त्ववर्णनम्

वायुरुवाच
निवेदयामि जगतो वागर्थात्म्यं कृतं यथा ॥ ॥१,२९।१अब्।
षडध्ववेदनं सम्यक् समासान्न तु विस्तरात् ॥ ॥१,२९।१च्द्।
नास्ति कश्चिदशब्दार्थो नापि शब्दो निरर्थकः ॥ ॥१,२९।२अब्।
ततो हि समये शब्दस्सर्वस्सर्वार्थबोधकः ॥ ॥१,२९।२च्द्।
प्रकृतेः परिणामो ऽयं द्विधा शब्दार्थभावना ॥ ॥१,२९।३अब्।
तामाहुः प्राकृतीं मूर्तिं शिवयोः परमात्मनोः ॥ ॥१,२९।३च्द्।
शब्दात्मिका विभूतिर्या सा त्रिधा कथ्यते बुधैः ॥ ॥१,२९।४अब्।
स्थूला सूक्ष्मा परा चेति स्थूला या श्रुतिगोचरा ॥ ॥१,२९।४च्द्।
सूक्ष्मा चिन्तामयी प्रोक्ता चिन्तया रहिता परा ॥ ॥१,२९।५अब्।
या शक्तिः सा परा शक्तिश्शिवतत्त्वसमाश्रया ॥ ॥१,२९।५च्द्।
ज्ञानशक्तिसमायोगादिच्छोपोद्बलिका तथा ॥ ॥१,२९।६अब्।
सर्वशक्तिसमष्ट्यात्मा शक्तितत्त्वसमाख्यया ॥ ॥१,२९।६च्द्।
समस्तकार्यजातस्य मूलप्रकृतितां गता ॥ ॥१,२९।७अब्।
सैव कुण्डलिनी माया शुद्धाध्वपरमा सती ॥ ॥१,२९।७च्द्।
सा विभागस्वरूपैव षडध्वात्मा विजृम्भते ॥ ॥१,२९।८अब्।
तत्र शब्दास्त्रयो ऽध्वानस्त्रयश्चार्थाः समीरिताः ॥ ॥१,२९।८च्द्।
सर्वेषामपि वै पुंसां नैजशुद्ध्यनुरूपतः ॥ ॥१,२९।९अब्।
लयभोगाधिकारास्स्युस्सर्वतत्त्वविभागतः ॥ ॥१,२९।९च्द्।
कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ ॥१,२९।१०अब्।
परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ ॥१,२९।१०च्द्।
कलाश्च ता निवृत्त्याद्याः पर्याप्ता इति निश्चयः ॥ ॥१,२९।११अब्।
मन्त्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः ॥ ॥१,२९।११च्द्।
भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् ॥ ॥१,२९।१२अब्।
अत्रान्योन्यं च सर्वेषां व्याप्यव्यापकतोच्यते ॥ ॥१,२९।१२च्द्।
मन्त्राः सर्वैः पदैर्व्याप्ता वाक्यभावात्पदानि च ॥ ॥१,२९।१३अब्।
वर्णैर्वर्णसमूहं हि पदमाहुर्विपश्चितः ॥ ॥१,२९।१३च्द्।
वर्णास्तु भुवनैर्व्याप्तास्तेषां तेषूपलम्भनात् ॥ ॥१,२९।१४अब्।
भुवनान्यपि तत्त्वौघैरुत्पत्त्यान्तर्बहिष्क्रमात् ॥ ॥१,२९।१४च्द्।
व्याप्तानि कारणैस्तत्त्वैरारब्धत्वादनेकशः ॥ ॥१,२९।१५अब्।
अन्तरादुत्थितानीह भुवनानि तु कानिचित् ॥ ॥१,२९।१५च्द्।
पौराणिकानि चान्यानि विज्ञेयानि शिवागमे ॥ ॥१,२९।१६अब्।
साङ्ख्ययोगप्रसिद्धानि तत्त्वान्यपि च कानिचित् ॥ ॥१,२९।१६च्द्।
शिवशास्त्रप्रसिद्धानि ततोन्यान्यपि कृत्स्नशः ॥ ॥१,२९।१७अब्।
कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ ॥१,२९।१७च्द्।
परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ ॥१,२९।१८अब्।
कलाश्च ता निवृत्त्याद्या व्याप्ताः पञ्च यथोत्तरम् ॥ ॥१,२९।१८च्द्।
व्यापिकातः परा शक्तिरविभक्ता षडध्वनाम् ॥ ॥१,२९।१९अब्।
परप्रकृतिभावस्य तत्सत्त्वाच्छिवतत्त्वतः ॥ ॥१,२९।१९च्द्।
शक्त्यादि च पृथिव्यन्तं शिवतत्त्वसमुद्भवम् ॥ ॥१,२९।२०अब्।
व्याप्तमेकेन तेनैव मृदा कुम्भादिकं यथा ॥ ॥१,२९।२०च्द्।
शैवं तत्परमं धाम यत्प्राप्यं षड्भिरध्वभिः ॥ ॥१,२९।२१अब्।
५३३ब्

व्यापिका ऽव्यापिका शक्तिः पञ्चतत्त्वविशोधनात् ॥ ॥१,२९।२१च्द्।
निवृत्त्या रुद्रपर्यन्तं स्थितिरण्डस्य शोध्यते ॥ ॥१,२९।२२अब्।
प्रतिष्ठया तदूर्ध्वं तु यावदव्यक्तगोचरम् ॥ ॥१,२९।२२च्द्।
तदूर्ध्वं विद्यया मध्ये यावद्विश्वेश्वरावधि ॥ ॥१,२९।२३अब्।
शान्त्या तदूर्ध्वं मध्वान्ते विशुद्धिः शान्त्यतीतया ॥ ॥१,२९।२३च्द्।
यामाहुः परमं व्योम परप्रकृतियोगतः ॥ ॥१,२९।२४अब्।
एतानि पञ्चतत्त्वानि यैर्व्याप्तमखिलं जगत् ॥ ॥१,२९।२४च्द्।
तत्रैव सर्वमेवेदं द्रष्टव्यं खलु साधकैः ॥ ॥१,२९।२५अब्।
अध्वव्याप्तिमविज्ञाय शुद्धिं यः कर्तुमिच्छति ॥ ॥१,२९।२५च्द्।
स विप्रलम्भकः शुद्धेर्नालम्प्रापयितुं फलम् ॥ ॥१,२९।२६अब्।
वृथा परिश्रमस्तस्य निरयायैव केवलम् ॥ ॥१,२९।२६च्द्।
शक्तिपातसमायोगादृते तत्त्वानि तत्त्वतः ॥ ॥१,२९।२७अब्।
तद्व्याप्तिस्तद्विवृद्धिश्च ज्ञातुमेवं न शक्यते ॥ ॥१,२९।२७च्द्।
शक्तिराज्ञा परा शैवी चिद्रूपा मरमेश्वरी ॥ ॥१,२९।२८अब्।
शिवो ऽधितिष्ठत्यखिलं यया कारणभूतया ॥ ॥१,२९।२८च्द्।
नात्मनो नैव मायैषा न विकारो विचारतः ॥ ॥१,२९।२९अब्।
न बन्धो नापि मुक्तिश्च बन्धमुक्तिविधायिनी ॥ ॥१,२९।२९च्द्।
सर्वैश्वर्यपराकाष्टा शिवस्य व्यभिचारिणी ॥ ॥१,२९।३०अब्।
समानधर्मिणी तस्य तैस्तैर्भावैर्विशेषतः ॥ ॥१,२९।३०च्द्।
स तयैव गृही सापि तेनैव गृहिणी सदा ॥ ॥१,२९।३१अब्।
तयोरपत्यं यत्कार्यं परप्रकृतिजं जगत् ॥ ॥१,२९।३१च्द्।
स कर्ता कारणं सेति तयोर्भेदो व्यवस्थितः ॥ ॥१,२९।३२अब्।
एक एव शिवः साक्षाद्द्विधा ऽसौ समवस्थितः ॥ ॥१,२९।३२च्द्।
स्त्रीपुंसभावेन तयोर्भेद इत्यपि केचन ॥ ॥१,२९।३३अब्।
अपरे तु परा शक्तिः शिवस्य समवायिनी ॥ ॥१,२९।३३च्द्।
प्रभेव भानोश्चिद्रूपा भिन्नैवेति व्यवस्थितः ॥ ॥१,२९।३४अब्।
तस्माच्छिवः परो हेतुस्तस्याज्ञा परमेश्वरी ॥ ॥१,२९।३४च्द्।
तयैव प्रेरिता शैवी मूलप्रकृतिरव्यया ॥ ॥१,२९।३५अब्।
महामाया च माया च प्रकृतिस्त्रिगुणेति च ॥ ॥१,२९।३५च्द्।
त्रिविधा कार्यवेधेन सा प्रसूते षडध्वनः ॥ ॥१,२९।३६अब्।
स वागर्थमयश्चाध्वा षड्विधो निखिलं जगत् ॥ ॥१,२९।३६च्द्।
अस्यैव विस्तरं प्राहुः शास्त्रजातमशेषतः ॥ ॥१,२९।३७अब्।

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वागर्थकतत्त्ववर्णनं नामैकोनत्रिंशो ऽध्यायः