२८ भस्मतत्त्ववर्णनम्

ऋषय ऊचुः
देवीं समादधानेन देवेनेदं किमीरितम् ॥ ॥१,२८।१अब्।
अग्निषोमात्मकं विश्वं वागर्थात्मकमित्यपि ॥ ॥१,२८।१च्द्।
आज्ञैकसारमैश्वर्यमाज्ञा त्वमिति चोदितम् ॥ ॥१,२८।२अब्।
तदिदं श्रोतुमिच्छामो यथावदनुपूर्वशः ॥ ॥१,२८।२च्द्।
वायुरुवाच
अग्निरित्युच्यते रौद्री घोरा या तैजसी तनुः ॥ ॥१,२८।३अब्।
सोमः शाक्तो ऽमृतमयः शक्तेः शान्तिकरी तनुः ॥ ॥१,२८।३च्द्।
अमृतं यत्प्रतिष्ठा सा तेजो विद्या कला स्वयम् ॥ ॥१,२८।४अब्।
भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी ॥ ॥१,२८।४च्द्।
द्विविधा तेजसो वृत्तिसूर्यात्मा चानलात्मिका ॥ ॥१,२८।५अब्।
तथैव रसवृत्तिश्च सोमात्मा च जलात्मिका ॥ ॥१,२८।५च्द्।
विद्युदादिमयन्तेजो मधुरादिमयो रसः ॥ ॥१,२८।६अब्।
तेजोरसविभेदैस्तु धृतमेतच्चराचरम् ॥ ॥१,२८।६च्द्।
अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ॥ ॥१,२८।७अब्।
अत एव हि विक्रान्तमग्नीषोमं जगद्धितम् ॥ ॥१,२८।७च्द्।
हविषे सस्यसम्पत्तिर्वृष्टिः सस्याभिवृद्धये ॥ ॥१,२८।८अब्।
वृष्टेरेव हविस्तस्मादग्नीषोमधृतं जगत् ॥ ॥१,२८।८च्द्।
अग्निरूर्ध्वं ज्वलत्येष यावत्सौम्यं परामृतम् ॥ ॥१,२८।९अब्।
यावदग्न्यास्पदं सौम्यममृतं च स्रवत्यधः ॥ ॥१,२८।९च्द्।
अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वतः ॥ ॥१,२८।१०अब्।
यावदादहनं चोर्ध्वमधश्चाप्लावनं भवेत् ॥ ॥१,२८।१०च्द्।
आधारशक्त्यैव धृतः कालाग्निरयमूर्ध्वगः ॥ ॥१,२८।११अब्।
तथैव निम्नगः सोमश्शिवशक्तिपदास्पदः ॥ ॥१,२८।११च्द्।
शिवश्चोर्ध्वमधश्शक्तिरूर्ध्वं शक्तिरधः शिवः ॥ ॥१,२८।१२अब्।
तदित्थं शिवशक्तिभ्यान्नाव्याप्तमिह किञ्चन ॥ ॥१,२८।१२च्द्।
असकृच्चाग्निना दग्धं जगद्यद्भस्मसात्कृतम् ॥ ॥१,२८।१३अब्।
अग्नेर्वीर्यमिदं चाहुस्तद्वीर्यं भस्म यत्ततः ॥ ॥१,२८।१३च्द्।
यश्चेत्थं भस्मसद्भावं ज्ञात्वा स्नाति च भस्मना ॥ ॥१,२८।१४अब्।
अग्निरित्यादिभिर्मन्त्रैर्बद्धः पाशात्प्रमुच्यते ॥ ॥१,२८।१४च्द्।
अग्नेर्वीर्यं तु यद्भस्म सोमेनाप्लावितम्पुनः ॥ ॥१,२८।१५अब्।
अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥ ॥१,२८।१५च्द्।
योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः ॥ ॥१,२८।१६अब्।
शाक्तेनामृतवर्षेण चाधिकारान्निवर्तयेत् ॥ ॥१,२८।१६च्द्।
अतो मृत्युञ्जयायेत्थममृतप्लावनं सदा ॥ ॥१,२८।१७अब्।
शिवशक्त्यमृतस्पर्शे लब्धं येन कुतो मृतिः ॥ ॥१,२८।१७च्द्।
यो वेद दहनं गुह्यं प्लावनं च यथोदितम् ॥ ॥१,२८।१८अब्।
अग्नीषोमपदं हित्वा न स भूयो ऽभिजायते ॥ ॥१,२८।१८च्द्।
शिवाग्निना तनुं दग्ध्वा शक्तिसौम्या मृतेन यः ॥ ॥१,२८।१९अब्।
प्लावयेद्योगमार्गेण सो ऽमृतत्वाय कल्पते ॥ ॥१,२८।१९च्द्।
हृदि कृत्वेममर्थं वै देवेन समुदाहृतम् ॥ ॥१,२८।२०अब्।
अग्नीषोमात्मकं विश्वं जगदित्यनुरूपतः ॥ ॥१,२८।२०च्द्।
५३३अ

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे भस्मतत्त्ववर्णनं नामाष्टाविंशो ऽध्यायः