ऋषय ऊचुः
कृत्वा गौरं वपुर्दिव्यं देवी गिरिवरात्मजा ॥ ॥१,२७।१अब्।
कथं ददर्श भर्तारं प्रविष्टा मन्दितं सती ॥ ॥१,२७।१च्द्।
प्रवेशसमये तस्या भवनद्वारगोचरैः ॥ ॥१,२७।२अब्।
गणेशैः किं कृतं देवस्तान्दृष्ट्वा किन्तदा ऽकरोत् ॥ ॥१,२७।२च्द्।
वायुरुवाच
प्रवक्तुमञ्जसा ऽशक्यः तादृशः परमो रसः ॥ ॥१,२७।३अब्।
येन प्रणयगर्भेण भावो भाववतां हृतः ॥ ॥१,२७।३च्द्।
द्वास्थैस्ससम्भ्रमैरेव देवो देव्यागमोत्सुकः ॥ ॥१,२७।४अब्।
शङ्कमाना प्रविष्टान्तस्तञ्च सा समपश्यत ॥ ॥१,२७।४च्द्।
तैस्तैः प्रणयभावैश्च भवनान्तरवर्तिभिः ॥ ॥१,२७।५अब्।
गणेन्द्रैर्वन्दिता वाचा प्रणनाम त्रियम्बकम् ॥ ॥१,२७।५च्द्।
प्रणम्य नोत्थिता यावत्तावत्तां परमेश्वरः ॥ ॥१,२७।६अब्।
प्रगृह्य दोर्भ्यामाश्लिष्य परितः परया मुदा ॥ ॥१,२७।६च्द्।
स्वाङ्के धर्तुं प्रवृत्तो ऽपि सा पर्यङ्के न्यषीदत ॥ ॥१,२७।७अब्।
पर्यङ्कतो बलाद्देवीं सोङ्कमारोप्य सुस्मिताम् ॥ ॥१,२७।७च्द्।
सस्मितो विवृतैर्नेत्रैस्तद्वक्त्रं प्रपिबन्निव ॥ ॥१,२७।८अब्।
तया सम्भाषणायेशः पूर्वभाषितमब्रवीत् ॥ ॥१,२७।८च्द्।
देवदेव उवाच
सा दशा च व्यतीता किं तव सर्वाङ्गसुन्दरि ॥ ॥१,२७।९अब्।
यस्यामनुनयोपायः को ऽपि कोपान्न लभ्यते ॥ ॥१,२७।९च्द्।
स्वेच्छयापि न कालीति नान्यवर्णवतीति च ॥ ॥१,२७।१०अब्।
त्वत्स्वभावाहृतं चित्तं सुभ्रु चिन्तावहं मम ॥ ॥१,२७।१०च्द्।
विस्मृतः परमो भावः कथं स्वेच्छाङ्गयोगतः ॥ ॥१,२७।११अब्।
न सम्भवन्ति ये तत्र चित्तकालुष्यहेतवः ॥ ॥१,२७।११च्द्।
पृथग्जनवदन्योन्यं विप्रियस्यापि कारणम् ॥ ॥१,२७।१२अब्।
आवयोरपि यद्यस्ति नास्त्येवैतच्चराचरम् ॥ ॥१,२७।१२च्द्।
अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता ॥ ॥१,२७।१३अब्।
अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम् ॥ ॥१,२७।१३च्द्।
जगद्धिताय चरतोः स्वेच्छाधृतशरीरयोः ॥ ॥१,२७।१४अब्।
आवयोर्विप्रयोगे हि स्यान्निरालम्बनं जगत् ॥ ॥१,२७।१४च्द्।
अस्ति हेत्वन्तरं चात्र शास्त्रयुक्तिविनिश्चितम् ॥ ॥१,२७।१५अब्।
वागर्थमिव मे वैतज्जगत्स्थावरजङ्गमम् ॥ ॥१,२७।१५च्द्।
त्वं हि वागमृतं साक्षादहमर्थामृतं परम् ॥ ॥१,२७।१६अब्।
द्वयमप्यमृतं कस्माद्वियुक्तमुपपद्यते ॥ ॥१,२७।१६च्द्।
५३२अ
विद्याप्रत्यायिका त्वं मे वेद्यो ऽहं प्रत्ययात्तव ॥ ॥१,२७।१७अब्।
विद्यावेद्यात्मनोरेव विश्लेषः कथमावयोः ॥ ॥१,२७।१७च्द्।
न कर्मणा सृजामीदं जगत्प्रतिसृजामि च ॥ ॥१,२७।१८अब्।
सर्वस्याज्ञैकलभ्यत्वादाज्ञात्वं हि गरीयसी ॥ ॥१,२७।१८च्द्।
आज्ञैकसारमैश्वर्यं यस्मात्स्वातन्त्र्यलक्षणम् ॥ ॥१,२७।१९अब्।
आज्ञया विप्रयुक्तस्य चैश्वर्यं मम कीदृशम् ॥ ॥१,२७।१९च्द्।
न कदाचिदवस्थानमावयोर्विप्रयुक्तयोः ॥ ॥१,२७।२०अब्।
देवानां कार्यमुद्दिश्य लीलोक्तिं कृतवानहम् ॥ ॥१,२७।२०च्द्।
त्वयाप्यविदितं नास्ति कथं कुपितवत्यसि ॥ ॥१,२७।२१अब्।
ततस्त्रिलोकरक्षार्थे कोपो मय्यपि ते कृतः ॥ ॥१,२७।२१च्द्।
यदनर्थाय भूतानां न तदस्ति खलु त्वयि ॥ ॥१,२७।२२अब्।
इति प्रियंवदे साक्षादीश्वरे परमेश्वरे ॥ ॥१,२७।२२च्द्।
शृङ्गारभावसाराणां जन्मभूमिरकृत्रिमा ॥ ॥१,२७।२३अब्।
स्वभर्त्रा ललितन्तथ्यमुक्तं मत्वा स्मितोत्तरम् ॥ ॥१,२७।२३च्द्।
लज्जया न किमप्यूचे कौशिकी वर्णनात्परम् ॥ ॥१,२७।२४अब्।
तदेव वर्णयाम्यद्य शृणु देव्याश्च वर्णनम् ॥ ॥१,२७।२४च्द्।
देव्युवाच
किं देवेन न सा दृष्टा या सृष्टा कौशिकी मया ॥ ॥१,२७।२५अब्।
तादृशी कन्यका लोके न भूता न भविष्यति ॥ ॥१,२७।२५च्द्।
तस्या वीर्यं बलं विन्ध्यनिलयं विजयं तथा ॥ ॥१,२७।२६अब्।
शुम्भस्य च निशुम्भस्य मारणे च रणे तयोः ॥ ॥१,२७।२६च्द्।
प्रत्यक्षफलदानं च लोकाय भजते सदा ॥ ॥१,२७।२७अब्।
लोकानां रक्षणं शश्वद्ब्रह्मा विज्ञापयिष्यति ॥ ॥१,२७।२७च्द्।
इति सम्भाषमाणाया देव्या एवाज्ञया तदा ॥ ॥१,२७।२८अब्।
व्याघ्रः सख्या समानीय पुरो ऽवस्थापितस्तदा ॥ ॥१,२७।२८च्द्।
तं प्रेक्ष्याह पुनर्देवी देवानीतमुपायतम् ॥ ॥१,२७।२९अब्।
व्याघ्रं पश्य न चानेन सदृशो मदुपासकः ॥ ॥१,२७।२९च्द्।
अनेन दुष्टसङ्घेभ्यो रक्षितं मत्तपोवनम् ॥ ॥१,२७।३०अब्।
अतीव मम भक्तश्च विश्रब्धश्च स्वरक्षणात् ॥ ॥१,२७।३०च्द्।
स्वदेशं च परित्यज्य प्रसादार्थं समागतः ॥ ॥१,२७।३१अब्।
यदि प्रीतिरभून्मत्तः परां प्रीतिं करोषि मे ॥ ॥१,२७।३१च्द्।
नित्यमन्तःपुरद्वारि नियोगान्नन्दिनः स्वयम् ॥ ॥१,२७।३२अब्।
रक्षिभिस्सह तच्चिह्नैर्वर्ततामयमीश्वर ॥ ॥१,२७।३२च्द्।
वायुरुवाच
मधुरं प्रणयोदर्कं श्रुत्वा देव्याः शुभं वचः ॥ ॥१,२७।३३अब्।
प्रीतो ऽस्मीत्याह तं देवस्स चादृश्यत तत्क्षणात् ॥ ॥१,२७।३३च्द्।
बिभ्रद्वेत्रलतां हैमीं रत्नचित्रं च कञ्चुकम् ॥ ॥१,२७।३४अब्।
छुरिकामुरगप्रख्यां गणेशो रक्षवेषधृक् ॥ ॥१,२७।३४च्द्।
यस्मात्सोमो महादेवो नन्दी चानेन नन्दितः ॥ ॥१,२७।३५अब्।
सोमनन्दीति विख्यातस्तस्मादेष समाख्यया ॥ ॥१,२७।३५च्द्।
इत्थं देव्याः प्रियं कृत्वा देवश्चर्धेन्दुभूषणः ॥ ॥१,२७।३६अब्।
भूषयामास तन्दिव्यैर्भूषणै रत्नभूषितैः ॥ ॥१,२७।३६च्द्।
ततस्स गौरीं गिरिशो गिरीन्द्रजां सगौरवां सर्वमनोहरां हरः ॥ ॥१,२७।३७अब्।
पर्यङ्कमारोप्य वराङ्गभूषणैर्विभूषयामास शशाङ्कभूषणः ॥ ॥१,२७।३७च्द्।
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सप्तविंशो ऽध्यायः