२६ व्याघ्रगतिवर्णनम्

वायुरुवाच
उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ ॥१,२६।१अब्।
तस्य प्रत्युपकाराय पितामहमथाब्रवीत् ॥ ॥१,२६।१च्द्।
देव्युवाच
दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः ॥ ॥१,२६।२अब्।
अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम् ॥ ॥१,२६।२च्द्।
मय्यर्पितमना एष भजते मामनन्यधीः ॥ ॥१,२६।३अब्।
अस्य संरक्षणादन्यत्प्रियं मम न विद्यते ॥ ॥१,२६।३च्द्।
भवितव्यमनेनातो ममान्तःपुरचारिणा ॥ ॥१,२६।४अब्।
गणेश्वरपदं चास्मै प्रीत्या दास्यति शङ्करः ॥ ॥१,२६।४च्द्।
एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे ॥ ॥१,२६।५अब्।
प्रदीयतामनुज्ञा मे प्रजानां पतिना १ त्वया ॥ ॥१,२६।५च्द्।

१ धित्वमार्षम्

५३१अ

इत्युक्तः प्रहसन्ब्रह्मा देवीम्मुग्धामिव स्मयन् ॥ ॥१,२६।६अब्।
तस्य तीव्रैः पुरावृत्तैर्दौरात्म्यं समवर्णयत् १ ॥ ॥१,२६।६च्द्।
ब्रह्मोवाच
पशौ देवि मृगाः क्रूराः क्व च ते ऽनुग्रहः शुभः ॥ ॥१,२६।७अब्।
आशीविषमुखे साक्षादमृतं किं निषिच्यते ॥ ॥१,२६।७च्द्।
व्याघ्रमात्रेण सन्नेष दुष्टः को ऽपि निशाचरः ॥ ॥१,२६।८अब्।
अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः ॥ ॥१,२६।८च्द्।
तर्पयंस्तान्यथाकामं कामरूपी चरत्यसौ ॥ ॥१,२६।९अब्।
अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः ॥ ॥१,२६।९च्द्।
अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु ॥ ॥१,२६।१०अब्।
अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना ॥ ॥१,२६।१०च्द्।
देव्युवाच
यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः ॥ ॥१,२६।११अब्।
तथापि मां प्रपन्नो ऽभून्न त्याज्यो मामुपाश्रितः ॥ ॥१,२६।११च्द्।
ब्रह्मोवाच
अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम् ॥ ॥१,२६।१२अब्।
भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति ॥ ॥१,२६।१२च्द्।
पुण्यकर्मापि किं कुर्यात्त्वदीयाज्ञानपेक्षया ॥ ॥१,२६।१३अब्।
अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी ॥ ॥१,२६।१३च्द्।
त्वदधीना हि सर्वेषां बन्धमोक्षव्यवस्थितिः ॥ ॥१,२६।१४अब्।
त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा ॥ ॥१,२६।१४च्द्।
त्वमेव विविधा शक्तिः भवानामथ वा स्वयम् ॥ ॥१,२६।१५अब्।
अशक्तः कर्मकरणे कर्ता वा किं करिष्यति ॥ ॥१,२६।१५च्द्।
विष्णोश्च मम चान्येषां देवदानवरक्षसाम् ॥ ॥१,२६।१६अब्।
तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम् ॥ ॥१,२६।१६च्द्।
अतीताः खल्वसङ्ख्याता ब्रह्माणो हरयो भवाः ॥ ॥१,२६।१७अब्।
अनागतास्त्वसङ्ख्यातास्त्वदाज्ञानुविधायिनः ॥ ॥१,२६।१७च्द्।
त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् ॥ ॥१,२६।१८अब्।
लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः ॥ ॥१,२६।१८च्द्।
व्यत्यासो ऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः ॥ ॥१,२६।१९अब्।
सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः ॥ ॥१,२६।१९च्द्।
त्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः ॥ ॥१,२६।२०अब्।
अनादिमध्यनिधना शक्तिराद्या सनातनी ॥ ॥१,२६।२०च्द्।
समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि ॥ ॥१,२६।२१अब्।
क्रीडसे २ विविधैर्भावैः कस्त्वां जानाति तत्त्वतः ॥ ॥१,२६।२१च्द्।
अतो दुष्कृतकर्मापि व्याघ्रो ऽयं त्वदनुग्रहात् ॥ ॥१,२६।२२अब्।
प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः ॥ ॥१,२६।२२च्द्।
इत्यात्मनः परं भावं स्मारयित्वानुरूपतः ॥ ॥१,२६।२३अब्।
ब्रह्मणाभ्यर्थिता गौरी तपसो ऽपि न्यवर्तत ॥ ॥१,२६।२३च्द्।
ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति ॥ ॥१,२६।२४अब्।
देवीं च मातरं दृष्ट्वा मेनां हिमवता सह ॥ ॥१,२६।२४च्द्।
प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ ॥ ॥१,२६।२५अब्।

१ परस्मैपदमार्षम्
२ आत्मनेपदमार्षम्

५३१ब्

तपः प्रणयिनो देवी तपोवनमहीरुहान् ॥ ॥१,२६।२५च्द्।
विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुञ्चतः ॥ ॥१,२६।२६अब्।
तत्तुच्छाखासमारूढविहगो दीरितै रुतैः ॥ ॥१,२६।२६च्द्।
व्याकुलं बहुधा दीनं विलापमिव कुर्वतः ॥ ॥१,२६।२७अब्।
सखीभ्यः कथयन्त्येवं सत्त्वरा भर्तृदर्शने ॥ ॥१,२६।२७च्द्।
पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम् ॥ ॥१,२६।२८अब्।
देहस्य प्रभया चैव दीपयन्ती दिशो दश ॥ ॥१,२६।२८च्द्।
प्रययौ मन्दरं गौरी यत्र भर्ता महेश्वरः ॥ ॥१,२६।२९अब्।
सर्वेषां जगतां धाता कर्ता पाता विनाशकृत् ॥ ॥१,२६।२९च्द्।

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे व्याघ्रगतिवर्णनं नाम षड्विंशो ऽध्यायः