वायुरुवाच
ततः प्रदक्षिणीकृत्य पतिमम्बा पतिव्रता ॥ ॥१,२५।१अब्।
नियम्य च वियोगार्तिं जगाम हिमवद्गिरिम् ॥ ॥१,२५।१च्द्।
तपःकृतवती पूर्वं देशे यस्मिन्सखीजनैः ॥ ॥१,२५।२अब्।
तमेव देशमवृनोत्तपसे प्रणयात्पुनः ॥ ॥१,२५।२च्द्।
ततः स्वपितरं दृष्ट्वा मातरं च तयोर्गृहे ॥ ॥१,२५।३अब्।
प्रणम्य वृत्तं विज्ञाप्य ताभ्यां चानुमता सती ॥ ॥१,२५।३च्द्।
पुनस्तपोवनं गत्वा भूषणानि विसृज्य च ॥ ॥१,२५।४अब्।
स्नात्वा तपस्विनो वेषं कृत्वा परमपावनम् ॥ ॥१,२५।४च्द्।
सङ्कल्प्य च महातीव्रं तपः परमदुश्चरम् ॥ ॥१,२५।५अब्।
सदा मनसि सन्धाय भर्तुश्चरणपङ्कजम् ॥ ॥१,२५।५च्द्।
तमेव क्षणिके लिङ्गे ध्यात्वा बाह्यविधानतः ॥ ॥१,२५।६अब्।
त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः ॥ ॥१,२५।६च्द्।
स एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् ॥ ॥१,२५।७अब्।
प्रदास्यति ममेत्येवं नित्यं कृत्वा ऽकरोत्तपः ॥ ॥१,२५।७च्द्।
तथा तपश्चरन्तीं तां काले बहुतिथे गते ॥ ॥१,२५।८अब्।
दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत् ॥ ॥१,२५।८च्द्।
तथैवोपगतस्यापि तस्यातीवदुरात्मनः ॥ ॥१,२५।९अब्।
गात्रं चित्रार्पितमिव स्तब्धं तस्यास्सकाशतः ॥ ॥१,२५।९च्द्।
तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् ॥ ॥१,२५।१०अब्।
न पृथग्जनवद्देवी स्वभावेन विविच्यते ॥ ॥१,२५।१०च्द्।
स तु विष्टब्धसर्वाङ्गो बुभुक्षापरिपीडितः ॥ ॥१,२५।११अब्।
ममामिषं ततो नान्यदिति मत्वा निरन्तरम् ॥ ॥१,२५।११च्द्।
निरीक्ष्यमाणः सततं देवीमेव तदा ऽनिशम् ॥ ॥१,२५।१२अब्।
अतिष्ठदग्रतस्तस्या उपासनमिवाचरत् ॥ ॥१,२५।१२च्द्।
५३०अ
देव्याश्च हृदये नित्यं ममैवायमुपासकः ॥ ॥१,२५।१३अब्।
त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा ॥ ॥१,२५।१३च्द्।
तस्या एव कृपा योगात्सद्योनष्टमलत्रयः ॥ ॥१,२५।१४अब्।
बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा ॥ ॥१,२५।१४च्द्।
न्यवर्तत बुभुक्षा च तस्याङ्गस्तम्भनं तथा ॥ ॥१,२५।१५अब्।
दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत ॥ ॥१,२५।१५च्द्।
तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः ॥ ॥१,२५।१६अब्।
सद्योपासक एवैष सिषेवे परमेश्वरीम् ॥ ॥१,२५।१६च्द्।
दुष्टानामपि सत्त्वानां तथान्येषान्दुरात्मनाम् ॥ ॥१,२५।१७अब्।
स एव द्रावको भूत्वा विचचार तपोवने ॥ ॥१,२५।१७च्द्।
तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम् ॥ ॥१,२५।१८अब्।
देवाश्च दैत्यनिर्बन्धाद्ब्रह्माणं शरणं गताः ॥ ॥१,२५।१८च्द्।
चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात् ॥ ॥१,२५।१९अब्।
यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात् ॥ ॥१,२५।१९च्द्।
सो ऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः ॥ ॥१,२५।२०अब्।
आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम् ॥ ॥१,२५।२०च्द्।
सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम् ॥ ॥१,२५।२१अब्।
संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः ॥ ॥१,२५।२१च्द्।
ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् ॥ ॥१,२५।२२अब्।
प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम् ॥ ॥१,२५।२२च्द्।
ननाम चास्य जगतो मातरं स्वस्य वै हरेः ॥ ॥१,२५।२३अब्।
रुद्रस्य च पितुर्भार्यामार्यामद्रीश्वरात्मजाम् ॥ ॥१,२५।२३च्द्।
ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सह ॥ ॥१,२५।२४अब्।
अर्घ्यं तदर्हं दत्त्वा ऽस्मै स्वागताद्यैरुपाचरत् ॥ ॥१,२५।२४च्द्।
तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनन्द्य च ॥ ॥१,२५।२५अब्।
पप्रच्छ तपसो हेतुमजानन्निव पद्मजः ॥ ॥१,२५।२५च्द्।
ब्रह्मोवाच
तीव्रेण तपसानेन देव्या किमिह साध्यते ॥ ॥१,२५।२६अब्।
तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः ॥ ॥१,२५।२६च्द्।
यश्चैव जगतां भर्ता तमेव परमेश्वरम् ॥ ॥१,२५।२७अब्।
भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम् ॥ ॥१,२५।२७च्द्।
अथवा सर्वमेवैतत्क्रीडाविलसितं तव ॥ ॥१,२५।२८अब्।
इदन्तु चित्रं देवस्य विरहं सहसे कथम् ॥ ॥१,२५।२८च्द्।
देव्युवाच
सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा ॥ ॥१,२५।२९अब्।
तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः ॥ ॥१,२५।२९च्द्।
यदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः ॥ ॥१,२५।३०अब्।
उत्पन्नो ऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः ॥ ॥१,२५।३०च्द्।
यदा भवद्गिरीन्द्रस्ते पुत्रो मम पिता स्वयम् ॥ ॥१,२५।३१अब्।
तदा पितामहस्त्वं मे जातो लोकपितामह ॥ ॥१,२५।३१च्द्।
तदीदृशस्य भवतो लोकयात्राविधायिनः ॥ ॥१,२५।३२अब्।
वृत्तवन्तःपुरे भर्ता कथयिष्ये कथं पुनः ॥ ॥१,२५।३२च्द्।
किमत्र बहुना देहे यश्चायं मम कालिमा ॥ ॥१,२५।३३अब्।
त्यक्त्वा सत्त्वविधानेन गौरी भवितुमुत्सहे ॥ ॥१,२५।३३च्द्।
५३०ब्
ब्रह्मोवाच
एतावता किमर्थेन तीव्रं देवि तपः कृतम् ॥ ॥१,२५।३४अब्।
स्वेच्छैव किमपर्याप्ता क्रीडेयं हि तवेदृशी ॥ ॥१,२५।३४च्द्।
क्रीडा ऽपि च जगन्मातस्तव लोकहिताय वै ॥ ॥१,२५।३५अब्।
अतो ममेष्टमनया फलं किमपि साध्यताम् ॥ ॥१,२५।३५च्द्।
निशुम्भशुम्भनामानौ दैत्यौ दत्तवरौ मया ॥ ॥१,२५।३६अब्।
दृप्तौ देवान्प्रबाधेते त्वत्तो लब्धस्तयोर्वधः ॥ ॥१,२५।३६च्द्।
अलं विलम्बनेनात्र त्वं क्षणेन स्थिरा भव ॥ ॥१,२५।३७अब्।
शक्तिर्विसृज्यमाना ऽद्य तयोर्मृत्युर्भविष्यति ॥ ॥१,२५।३७च्द्।
ब्राह्मणाभ्यर्थिता चैव देवी गिरिवरात्मजा ॥ ॥१,२५।३८अब्।
त्वक्कोशं सहसोत्सृज्य गौरी सा समजायत ॥ ॥१,२५।३८च्द्।
सा त्वक्कोशात्मनोत्सृष्टा कौशिकी नाम नामतः ॥ ॥१,२५।३९अब्।
काली कालाम्बुदप्रख्या कन्यका समपद्यत ॥ ॥१,२५।३९च्द्।
सा तु मायात्मिका शक्तिर्योगनिद्रा च वैष्णवी ॥ ॥१,२५।४०अब्।
शङ्खचक्रत्रिशूलादिसायुधाष्टमहाभुजा ॥ ॥१,२५।४०च्द्।
सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्रशेखरा ॥ ॥१,२५।४१अब्।
अजातपुंस्पर्शरतिरधृष्या चातिसुन्दरी ॥ ॥१,२५।४१च्द्।
दत्ता च ब्रह्मणे देव्या शक्तिरेषा सनातनी ॥ ॥१,२५।४२अब्।
निशुम्भस्य च शुम्भस्य निहन्त्री दैत्यसिंहयोः ॥ ॥१,२५।४२च्द्।
ब्रह्मणापि प्रहृष्टेन तस्यै परमशक्तये ॥ ॥१,२५।४३अब्।
प्रबलः केसरी दत्तो वाहनत्वे समागतः ॥ ॥१,२५।४३च्द्।
विन्ध्ये च वसतिं तस्याः पूजामासवपूर्वकैः ॥ ॥१,२५।४४अब्।
मांसैर्मत्स्यैरपूपैश्च निर्वर्त्यासौ समादिशत् ॥ ॥१,२५।४४च्द्।
सा चैव सम्मता शक्तिर्ब्रह्मणो विश्वकर्मणः ॥ ॥१,२५।४५अब्।
प्रणम्य मातरं गौरीं ब्रह्माणं चानुपूर्वशः ॥ ॥१,२५।४५च्द्।
शक्तिभिश्चापि तुल्याभिः स्वात्मजाभिरनेकशः ॥ ॥१,२५।४६अब्।
परीता प्रययौ विन्ध्यं दैत्येन्द्रौ हन्तुमुद्यता ॥ ॥१,२५।४६च्द्।
निहतौ च तया तत्र समरे दैत्यपुङ्गवौ ॥ ॥१,२५।४७अब्।
तद्बाणैः कामबाणैश्च च्छिन्नभिन्नाङ्गमानसौ ॥ ॥१,२५।४७च्द्।
तद्युद्धविस्तरश्चात्र न कृतो ऽन्यत्र वर्णनात् ॥ ॥१,२५।४८अब्।
ऊहनीयं परस्माच्च प्रस्तुतं वर्णयामि वः ॥ ॥१,२५।४८च्द्।
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीगौरत्वभवनं नाम पञ्चविंशो ऽध्यायः