ऋषय ऊचुः
अन्तर्धानगतो देव्या सह सानुचरो हरः ॥ ॥१,२४।१अब्।
क्व यातः कुत्र वासः किं कृत्वा विरराम ह ॥ ॥१,२४।१च्द्।
वायुरुवाच
महीधरवरः श्रीमान् मन्दरश्चित्रकन्दरः ॥ ॥१,२४।२अब्।
दयितो देवदेवस्य निवासस्तपसो ऽभवत् ॥ ॥१,२४।२च्द्।
तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ ॥ ॥१,२४।३अब्।
चिरेण लब्धं तत्पादपङ्कजस्पर्शजं सुखम् ॥ ॥१,२४।३च्द्।
तस्य शैलस्य सौन्दर्यं सहस्रवदनैरपि ॥ ॥१,२४।४अब्।
न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि ॥ ॥१,२४।४च्द्।
शक्यमप्यस्य सौन्दर्यं न वर्णयितुमुत्सहे ॥ ॥१,२४।५अब्।
पर्वतान्तरसौन्दर्यं साधारणविधारणात् ॥ ॥१,२४।५च्द्।
इदन्तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे ॥ ॥१,२४।६अब्।
ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता ॥ ॥१,२४।६च्द्।
अत एव हि देवेन देव्याः प्रियचिकीर्षया ॥ ॥१,२४।७अब्।
अतीव रमणीयोयं गिरिरन्तःपुरीकृतः ॥ ॥१,२४।७च्द्।
५२८ब्
मेखलाभूमयस्तस्य विमलोपलपादपाः ॥ ॥१,२४।८अब्।
शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वन्त्यखिलञ्जगत् ॥ ॥१,२४।८च्द्।
पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः ॥ ॥१,२४।९अब्।
अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः ॥ ॥१,२४।९च्द्।
लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः ॥ ॥१,२४।१०अब्।
अधिराज्येन चाद्रीणामद्रीरेषो ऽभिषिच्यते ॥ ॥१,२४।१०च्द्।
निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः ॥ ॥१,२४।११अब्।
चन्द्रेणाचल साम्राज्यच्छत्रेणेव विराजते ॥ ॥१,२४।११च्द्।
स शैलश्चञ्चलीभूतैर्बालैश्चामरयोषिताम् ॥ ॥१,२४।१२अब्।
सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते ॥ ॥१,२४।१२च्द्।
प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः ॥ ॥१,२४।१३अब्।
दर्पणे देहसौभाग्यं द्रष्टुकाम इव स्थितः ॥ ॥१,२४।१३च्द्।
कूजद्विहङ्गवाचालैर्वातोद्धृतलताभुजैः ॥ ॥१,२४।१४अब्।
विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः ॥ ॥१,२४।१४च्द्।
लताप्रतानजटिलैस्तरुभिस्तपसैरिव ॥ ॥१,२४।१५अब्।
जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रिराट् ॥ ॥१,२४।१५च्द्।
अधोमुखैरूर्ध्वमुखैश्शृङ्गैस्तिर्यङ्मुखैस्तथा ॥ ॥१,२४।१६अब्।
प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव ॥ ॥१,२४।१६च्द्।
परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि ॥ ॥१,२४।१७अब्।
पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम् ॥ ॥१,२४।१७च्द्।
गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः ॥ ॥१,२४।१८अब्।
अजीर्णलावण्यतया जृम्भमाण इवाचलः ॥ ॥१,२४।१८च्द्।
ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम् ॥ ॥१,२४।१९अब्।
वमन्निव तमोन्तस्थं माद्यन्निव खमम्बुदैः ॥ ॥१,२४।१९च्द्।
निवास भूमयस्तास्ता दर्पणप्रतिमोदराः ॥ ॥१,२४।२०अब्।
तिरस्कृतातपास्स्निग्धाश्रमच्छायामहीरुहाः ॥ ॥१,२४।२०च्द्।
सरित्सरस्तडागादिसम्पर्कशिशिरानिलाः ॥ ॥१,२४।२१अब्।
तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः ॥ ॥१,२४।२१च्द्।
तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः ॥ ॥१,२४।२२अब्।
रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ ॥ ॥१,२४।२२च्द्।
तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः ॥ ॥१,२४।२३अब्।
रराम रमणीयासु देव्यान्तःपुरभूमिषु ॥ ॥१,२४।२३च्द्।
तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च ॥ ॥१,२४।२४अब्।
दैत्यौ शुम्भनिशुम्भाख्यौ भ्रातरौ सम्बभूवतुः ॥ ॥१,२४।२४च्द्।
ताभ्यां तपो बलाद्दत्तं ब्रह्मणा परमेष्टिना ॥ ॥१,२४।२५अब्।
अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि ॥ ॥१,२४।२५च्द्।
अयोनिजा तु या कन्या ह्यम्बिकांशसमुद्भवा ॥ ॥१,२४।२६अब्।
अजातपुंस्पर्शरतिरविलङ्घ्यपराक्रमा ॥ ॥१,२४।२६च्द्।
तया तु नौ वधः सङ्ख्ये तस्यां कामाभिभूतयोः ॥ ॥१,२४।२७अब्।
इति चाभ्यर्थितो ब्रह्मा ताभ्याम्प्राह तथास्त्विति ॥ ॥१,२४।२७च्द्।
ततः प्रभृति शक्रादीन्विजित्य समरे सुरान् ॥ ॥१,२४।२८अब्।
निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात् ॥ ॥१,२४।२८च्द्।
तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः ॥ ॥१,२४।२९अब्।
विनिन्द्यापि रहस्यं वां क्रोधयित्वा यथा तथा ॥ ॥१,२४।२९च्द्।
५२९अ
तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम् ॥ ॥१,२४।३०अब्।
निशुम्भशुम्भयोर्हन्त्रीं सुरेभ्यो दातुमर्हसि ॥ ॥१,२४।३०च्द्।
एवमभ्यर्थितो धात्रा भगवान्नीललोहितः ॥ ॥१,२४।३१अब्।
कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः ॥ ॥१,२४।३१च्द्।
ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात् ॥ ॥१,२४।३२अब्।
स्मयन्ती चाह भर्तारमसमाधेयया गिरा ॥ ॥१,२४।३२च्द्।
देव्युवाच
ईदृशो मम वर्णेस्मिन्न रतिर्भवतो ऽस्ति चेत् ॥ ॥१,२४।३३अब्।
एवावन्तं चिरं कालं कथमेषा नियम्यते ॥ ॥१,२४।३३च्द्।
अरत्या वर्तमानो ऽपि कथं च रमसे मया ॥ ॥१,२४।३४अब्।
न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः ॥ ॥१,२४।३४च्द्।
स्वात्मारामस्य भवतो रतिर्न सुखसाधनम् ॥ ॥१,२४।३५अब्।
इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः ॥ ॥१,२४।३५च्द्।
या च नाभिमता भर्तुरपि सर्वाङ्गसुन्दरी ॥ ॥१,२४।३६अब्।
सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः ॥ ॥१,२४।३६च्द्।
भर्तुर्भोगैकशेषो हि सर्ग एवैष योषिताम् ॥ ॥१,२४।३७अब्।
तथासत्यन्यथाभूता नारी कुत्रोपयुज्यते ॥ ॥१,२४।३७च्द्।
तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम् ॥ ॥१,२४।३८अब्।
वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम् ॥ ॥१,२४।३८च्द्।
इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम् ॥ ॥१,२४।३९अब्।
ययाचे ऽनुमतिं भर्तुस्तपसे कृतनिश्चया ॥ ॥१,२४।३९च्द्।
तथा प्रणयभङ्गेन भीतो भूतपतिः स्वयम् ॥ ॥१,२४।४०अब्।
पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत ॥ ॥१,२४।४०च्द्।
ईश्वर उवाच
अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे ॥ ॥१,२४।४१अब्।
रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम ॥ ॥१,२४।४१च्द्।
माता त्वमस्य जगतः पिताहमधिपस्तथा ॥ ॥१,२४।४२अब्।
कथं तदुत्पपद्येत त्वत्तो नाभिरतिर्मम ॥ ॥१,२४।४२च्द्।
आवयोरभिकामो ऽपि किमसौ कामकारितः ॥ ॥१,२४।४३अब्।
यतः कामसमुत्पत्तिः प्रागेव जगदुद्भवः ॥ ॥१,२४।४३च्द्।
पृथग्जनानां रतये कामात्मा कल्पितो मया ॥ ॥१,२४।४४अब्।
ततः कथमुपालब्धः कामदाहादहं त्वया ॥ ॥१,२४।४४च्द्।
मां वै त्रिदशसामान्यं मन्यमानो मनोभवः ॥ ॥१,२४।४५अब्।
मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः ॥ ॥१,२४।४५च्द्।
विहारोप्यावयोरस्य जगतस्त्राणकारणात् ॥ ॥१,२४।४६अब्।
ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवाहनम् ॥ ॥१,२४।४६च्द्।
स चायमचिरादर्थस्तवैवाविष्करिष्यते ॥ ॥१,२४।४७अब्।
क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत् ॥ ॥१,२४।४७च्द्।
देव्युवाच
श्रुतपूर्वं हि भगवंस्तव चाटु वचो मया ॥ ॥१,२४।४८अब्।
येनैवमतिधीराहमपि प्रागभिवञ्चिता ॥ ॥१,२४।४८च्द्।
प्राणानप्यप्रिया भर्तुर्नारी या न परित्यजेत् ॥ ॥१,२४।४९अब्।
कुलाङ्गना शुभा सद्भिः कुत्सितैव हि गम्यते ॥ ॥१,२४।४९च्द्।
भूयसी च तवाप्रीतिरगौरमिति मे वपुः ॥ ॥१,२४।५०अब्।
क्रीडोक्तिरपि कालीति घटते कथमन्यथा ॥ ॥१,२४।५०च्द्।
सद्भिर्विगर्हितं तस्मात्तव कार्ष्ण्यमसम्मतम् ॥ ॥१,२४।५१अब्।
५२९ब्
अनुत्सृज्य तपोयोगात्स्थातुमेवेह नोत्सहे ॥ ॥१,२४।५१च्द्।
शिव उवाच
स यद्येवंविधतापस्ते तपसा किं प्रयोजनम् ॥ ॥१,२४।५२अब्।
ममेच्छया स्वेच्छया वा वर्णान्तरवती भव ॥ ॥१,२४।५२च्द्।
देव्युवाच
नेच्छामि भवतो वर्णं स्वयं वा कर्तुमन्यथा ॥ ॥१,२४।५३अब्।
ब्रह्माणं तपसाराध्य क्षिप्रं गौरी भवाम्यहम् ॥ ॥१,२४।५३च्द्।
ईश्वर उवाच
मत्प्रसादात्पुरा ब्रह्मा ब्रह्मत्वं प्राप्तवान्पुरा ॥ ॥१,२४।५४अब्।
तमाहूय महादेवि तपसा किं करिष्यसि ॥ ॥१,२४।५४च्द्।
देव्युवाच
त्वत्तो लब्धपदा एव सर्वे ब्रह्मादयः सुराः ॥ ॥१,२४।५५अब्।
तथाप्याराध्य तपसा ब्रह्माणं त्वन्नियोगतः ॥ ॥१,२४।५५च्द्।
पुरा किल सती नाम्ना दक्षस्य दुहिता ऽभवम् ॥ ॥१,२४।५६अब्।
जगतां पतिमेवं त्वां पतिं प्राप्तवती तथा ॥ ॥१,२४।५६च्द्।
एवमद्यापि तपसा तोषयित्वा द्विजं विधिम् ॥ ॥१,२४।५७अब्।
गौरी भवितुमिच्छामि को दोषः कथ्यतामिह ॥ ॥१,२४।५७च्द्।
एवमुक्तो महादेव्या वामदेवः स्मयन्निव ॥ ॥१,२४।५८अब्।
न तां निर्बन्धयामास देवकार्यचिकीर्षया ॥ ॥१,२४।५८च्द्।
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवमन्दरगिरिनिवासक्रीडोक्तवर्णनं नाम चतुर्विंशो ऽध्यायः