२३ गिरिशानुनयः

वायुरुवाच
इति सञ्छिन्नभिन्नाङ्गा देवा विष्णुपुरोगमाः ॥ ॥१,२३।१अब्।
क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिता ॥ ॥१,२३।१च्द्।
त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः ॥ ॥१,२३।२अब्।
प्रमथाः परमक्रुद्धा वीरभद्रप्रणोदिताः ॥ ॥१,२३।२च्द्।
प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः ॥ ॥१,२३।३अब्।
बबन्धुः पाणिपादेषु कन्धरेषूदरेषु च ॥ ॥१,२३।३च्द्।
तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् ॥ ॥१,२३।४अब्।
सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतो ऽब्रवीत् ॥ ॥१,२३।४च्द्।
५२७अ

अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः ॥ ॥१,२३।५अब्।
प्रसीद क्षम्यतां सर्वं रोमजैस्सह सुव्रत ॥ ॥१,२३।५च्द्।
एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना ॥ ॥१,२३।६अब्।
शमं जगाम सम्प्रीतो गणपस्तस्य गौरवात् ॥ ॥१,२३।६च्द्।
देवाश्च लब्धावसरा देवदेवस्य मन्त्रिणः ॥ ॥१,२३।७अब्।
धारयन्तो ऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः ॥ ॥१,२३।७च्द्।
देवा ऊचुः
नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने ॥ ॥१,२३। ८अब्।
रुद्रभद्राय रुद्राणां पतये रुद्रभूतये ॥ ॥१,२३।८च्द्।
कालाग्निरुद्ररूपाय कालकामाङ्गहारिणे ॥ ॥१,२३।९अब्।
देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः ॥ ॥१,२३।९च्द्।
संसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः ॥ ॥१,२३।१०अब्।
शासिताः समरे वीर त्वया वयमनिन्दिता ॥ ॥१,२३।१०च्द्।
दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो ॥ ॥१,२३।११अब्।
त्वमेव गतिरस्माकं त्राहि नश्शरणागतान् ॥ ॥१,२३।११च्द्।
वायुरुवाच
तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः ॥ ॥१,२३।१२अब्।
आनयद्देवदेवस्य समीपममरानिह ॥ ॥१,२३।१२च्द्।
देवोपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः ॥ ॥१,२३।१३अब्।
सगणः सर्वगः शर्वस्सर्वलोकमहेश्वरः ॥ ॥१,२३।१३च्द्।
तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः ॥ ॥१,२३।१४अब्।
प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम् ॥ ॥१,२३।१४च्द्।
दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः ॥ ॥१,२३।१५अब्।
इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम् ॥ ॥१,२३।१५च्द्।
महादेव उवाच
माभैष्ट त्रिदशास्सर्वे यूयं वै मामिकाः प्रजाः ॥ ॥१,२३।१६अब्।
अनुग्रहार्थमेवेह धृतो दण्डः कृपालुना ॥ ॥१,२३।१६च्द्।
भवतां निर्जराणां हि क्षान्तो ऽस्माभिर्व्यतिक्रमः ॥ ॥१,२३।१७अब्।
क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम् ॥ ॥१,२३।१७च्द्।
वायुरुवाच
इत्युक्तास्त्रिदशास्सर्वे शर्वेणामिततेजसा ॥ ॥१,२३।१८अब्।
सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा ॥ ॥१,२३।१८च्द्।
प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः ॥ ॥१,२३।१९अब्।
स्तुतिमारेभिरे कर्तुं शङ्करस्य दिवौकसः ॥ ॥१,२३।१९च्द्।
देवा ऊचुः
त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरो ऽसि ॥ ॥१,२३।२०अब्।
कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्ते ॥ ॥१,२३।२०च्द्।
सर्वमूर्ते नमस्ते ऽस्तु विश्वभावन पावन ॥ ॥१,२३।२१अब्।
अमूर्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद ॥ ॥१,२३।२१च्द्।
चन्द्रो ऽगदो हि देवेश कृपातस्तव शङ्कर ॥ ॥१,२३।२२अब्।
निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः ॥ ॥१,२३।२२च्द्।
सीमन्तिनी हतधवा तव पूजनतः प्रभो ॥ ॥१,२३।२३अब्।
सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान् ॥ ॥१,२३।२३च्द्।
श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् ॥ ॥१,२३।२४अब्।
सुदर्शनमरक्षस्त्वं नृपमण्डलभीतितः ॥ ॥१,२३।२४च्द्।
मेदुरं तारयामास सदारं च घृणानिधिः ॥ ॥१,२३।२५अब्।
शारदां विधवां चक्रे सधवां क्रियया भवान् ॥ ॥१,२३।२५च्द्।
भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् ॥ ॥१,२३।२६अब्।
५२७ब्

सौमिनी भवबन्धाद्वै मुक्ता ऽभूत्तव सेवनात् ॥ ॥१,२३।२६च्द्।
विष्णुरुवाच
त्वं शम्भो कहरीशाश्च रजस्सत्त्वतमोगुणैः ॥ ॥१,२३।२७अब्।
कर्ता पाता तथा हर्ता जनानुग्रहकाङ्क्षया ॥ ॥१,२३।२७च्द्।
सर्वगर्वापहारी च सर्वतेजोविलासकः ॥ ॥१,२३।२८अब्।
सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः ॥ ॥१,२३।२८च्द्।
त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर ॥ ॥१,२३।२९अब्।
त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि ॥ ॥१,२३।२९च्द्।
अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृताञ्जलिः ॥ ॥१,२३।३०अब्।
एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने ॥ ॥१,२३।३०च्द्।
ब्रह्मोवाच
जय देव महादेव प्रणतार्तिविभञ्जन ॥ ॥१,२३।३१अब्।
ईदृशेष्वपराधेषु को ऽन्यस्त्वत्तः प्रसीदति ॥ ॥१,२३।३१च्द्।
लब्धमानो भविष्यन्ति ये पुरा निहिता मृधे ॥ ॥१,२३।३२अब्।
प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे ॥ ॥१,२३।३२च्द्।
यदिदं देवदेवानां कृतमन्तुषु दूषणम् ॥ ॥१,२३।३३अब्।
तदिदं भूषणं मन्येत अङ्गीकारगौरवात् ॥ ॥१,२३।३३च्द्।
इति विज्ञाप्यमानस्तु ब्रह्मणा परमेष्ठिना ॥ ॥१,२३।३४अब्।
विलोक्य वदनं देव्या देवदेवस्स्मयन्निव ॥ ॥१,२३।३४च्द्।
पुत्रभूतस्य वात्सल्याद्ब्रह्मणः पद्मजन्मनः ॥ ॥१,२३।३५अब्।
देवादीनां यथापूर्वमङ्गानि प्रददौ प्रभुः ॥ ॥१,२३।३५च्द्।
प्रथमाद्यैश्च या देव्यो दण्डिता देवमातरः ॥ ॥१,२३।३६अब्।
तासामपि यथापूर्वाण्यङ्गानि गिरिशो ददौ ॥ ॥१,२३।३६च्द्।
दक्षस्य भगवानेव स्वयं ब्रह्मा पितामहः ॥ ॥१,२३।३७अब्।
तत्पापानुगुणं चक्रे जरच्छागमुखं मुखम् ॥ ॥१,२३।३७च्द्।
सो ऽपि सञ्ज्ञां ततो लब्ध्वा स दृष्ट्वा जीवितः सुधी ॥ ॥१,२३।३८अब्।
भीतः कृताञ्जलिः शम्भुं तुष्टाव प्रलपन्बहु ॥ ॥१,२३।३८च्द्।
दक्ष उवाच
जय देव जगन्नाथ लोकानुग्रहकारक ॥ ॥१,२३।३९अब्।
कृपां कुरु महेशानापराधं मे क्षमस्व ह ॥ ॥१,२३।३९च्द्।
कर्ता भर्ता च हर्ता च त्वमेव जगतां प्रभो ॥ ॥१,२३।४०अब्।
मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः ॥ ॥१,२३।४०च्द्।
त्वयैव विततं सर्वं व्याप्तं सृष्टं न नाशितम् ॥ ॥१,२३।४१अब्।
न हि त्वदधिकाः केचिदीशास्ते ऽच्युतकादयः ॥ ॥१,२३।४१च्द्।
वायुरुवाच
तं तथा व्याकुलं भीतं प्रलपन्तं कृतागसम् ॥ ॥१,२३।४२अब्।
स्मयन्निवावदत्प्रेक्ष्य मा भैरिति १ घृणानिधिः ॥ ॥१,२३।४२च्द्।
तथोक्त्वा ब्रह्मणस्तस्य पितुः प्रियचिकीर्षया ॥ ॥१,२३।४३अब्।
गाणपत्यं ददौ तस्मै दक्षायाक्षयमीश्वरः ॥ ॥१,२३।४३च्द्।
ततो ब्रह्मादयो देवा अभिवन्द्य कृत २अञ्जलिः ॥ ॥१,२३।४४अब्।
तुष्टुवुः प्रश्रया वाचा शङ्करं गिरिजाधिपम् ॥ ॥१,२३।४४च्द्।
ब्रह्मादय ऊचुः
जय शङ्कर देवेश दीनानाथ महाप्रभो ॥ ॥१,२३।४५अब्।

१ सिज्लोप आर्षः
२ एकवचनमार्षम्

५२८अ

कृपां कुरु महेशानापराधं नो क्षमस्व वै ॥ ॥१,२३।४५च्द्।
मखपाल मखाधीश मखविध्वंसकारक ॥ ॥१,२३।४६अब्।
कृपां कुरु मशानापराधं नः क्षमस्व वै ॥ ॥१,२३।४६च्द्।
देवदेव परेशान भक्तप्राणप्रपोषक ॥ ॥१,२३।४७अब्।
दुष्टदण्डप्रद स्वामिन्कृपां कुरु नमो ऽस्तु ते ॥ ॥१,२३।४७च्द्।
त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् ॥ ॥१,२३।४८अब्।
रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम् ॥ ॥१,२३।४८च्द्।
अद्भुतं चरितं ते हि निश्चितं कृपया तव ॥ ॥१,२३।४९अब्।
सर्वापराधः क्षन्तव्यो विभवो दीनवत्सलाः ॥ ॥१,२३।४९च्द्।
वायुरुवाच
इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः ॥ ॥१,२३।५०अब्।
स भक्तवत्सलस्स्वामी तुतोष करुणोदधिः ॥ ॥१,२३।५०च्द्।
चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम् ॥ ॥१,२३।५१अब्।
ददौ नरांश्च सुप्रीत्या शङ्करो दीनवत्सलः ॥ ॥१,२३।५१च्द्।
स च ततस्त्रिदशाञ्छरणागतान् परमकारुणिकः परमेश्वरः ॥ ॥१,२३।५२अब्।
अनुगतस्मितलक्षणया गिरा शमितसर्वभयः समभाषत ॥ ॥१,२३।५२च्द्।
शिव उवाच
यदिदमाग इहाचरितं सुरैर्विधिनियोगवशादिव यन्त्रितैः ॥ ॥१,२३।५३अब्।
शरणमेव गतानवलोक्य वस्तदखिलं किल विस्मृतमेव नः ॥ ॥१,२३।५३च्द्।
तदिह यूयमपि प्रकृतं मनस्यविगणय्य विमर्दमपत्रपाः ॥ ॥१,२३।५४अब्।
हरिविरिञ्चिसुरेन्द्रमुखास्सुखं व्रजत देवपुरं प्रति सम्प्रति ॥ ॥१,२३।५४च्द्।
इति सुरानभिधाय सुरेश्वरो निकृतदक्षकृतक्रतुरक्रतुः ॥ ॥१,२३।५५अब्।
सगिरिजानुचरस्सपरिच्छदः स्थित इवाम्बरतोन्तरधाद्धरः ॥ ॥१,२३।५५च्द्।
अथ सुरा अपि ते विगतव्यथाः कथितभद्रसुभद्रपराक्रमाः ॥ ॥१,२३।५६अब्।
सपदि खेन सुखेन यथासुखं ययुरनेकमुखाः मघवन्मुखाः ॥ ॥१,२३।५६च्द्।

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे गिरिशानुनयो नाम त्रयोविंशो ऽध्यायः