तस्मिन्नवसरे व्योम्नि समाविरभवद्रथः ॥ ॥१,२२।१अब्।
सहस्रसूर्यसङ्काशश्चारुचीरवृषध्वजः ॥ ॥१,२२।१च्द्।
अश्वरत्नद्वयोदारो रथचक्रचतुष्टयः ॥ ॥१,२२।२अब्।
सञ्चितानेकदिव्यास्त्रशस्त्ररत्नपरिष्कृतः ॥ ॥१,२२।२च्द्।
तस्यापि रथवर्यस्य स्यात्स एव हि सारथिः ॥ ॥१,२२।३अब्।
यथा च त्रैपुरे युद्धे पूर्वं शार्वरथे स्थितः ॥ ॥१,२२।३च्द्।
स तं रथवरं ब्रह्मा शासनादेव शूलिनः ॥ ॥१,२२।४अब्।
हरेस्समीपमानीय कृताञ्जलिरभाषत ॥ ॥१,२२।४च्द्।
भगवन्भद्र भद्राङ्ग भगवानिन्दुभूषणः ॥ ॥१,२२।५अब्।
आज्ञापयति वीरस्त्वां रथमारोढुमव्ययः ॥ ॥१,२२।५च्द्।
रेभ्याश्रमसमीपस्थस्त्र्यम्बको ऽम्बिकया सह ॥ ॥१,२२।६अब्।
सम्पश्यते महाबाहो दुस्सहं ते पराक्रमम् ॥ ॥१,२२।६च्द्।
तस्य तद्वचनं श्रुत्वा स वीरो गणकुञ्जरः ॥ ॥१,२२।७अब्।
आरुरोह रथं दिव्यमनुगृह्य पितामहम् ॥ ॥१,२२।७च्द्।
तथा रथवरे तस्मिन्स्थिते ब्रह्मणि सारथौ ॥ ॥१,२२।८अब्।
भद्रस्य ववृधे लक्ष्मी रुद्रस्येव पुरद्विषः ॥ ॥१,२२।८च्द्।
ततः शङ्खवरं दीप्तं पूर्णचन्द्रसमप्रभम् ॥ ॥१,२२।९अब्।
प्रदध्मौ वदने कृत्वा भानुकम्पो महाबलः ॥ ॥१,२२।९च्द्।
तस्य शङ्खस्य तं नादं भिन्नसारससन्निभम् ॥ ॥१,२२।१०अब्।
श्रुत्वा भयेन देवानां जज्वाल जठरानलः ॥ ॥१,२२।१०च्द्।
यक्षविद्याधराहीन्द्रैः सिद्धैर्युद्धदिदृक्षुभिः ॥ ॥१,२२।११अब्।
क्षणेन निबडीभूताः साकाशविवरा दिशाः ॥ ॥१,२२।११च्द्।
ततः शार्ङ्गेण चापाङ्कात्स नारायणनीरदः ॥ ॥१,२२।१२अब्।
महता बाणवर्षेण तुतोद गणगोवृषम् ॥ ॥१,२२।१२च्द्।
तं दृष्ट्वा विष्णुमायान्तं शतधा बाणवर्षिणम् ॥ ॥१,२२।१३अब्।
स चाददे धनुर्जैत्रं भद्रो बाणसहस्रमुक् ॥ ॥१,२२।१३च्द्।
समादाय च तद्दिव्यं धनुस्समरभैरवम् ॥ ॥१,२२।१४अब्।
शनैर्विस्फारयामास मेरुं धनुरिवेश्वरः ॥ ॥१,२२।१४च्द्।
तस्य विस्फार्यमाणस्य धनुषो ऽभून्महास्वनः ॥ ॥१,२२।१५अब्।
तेन स्वनेन महता पृथिवीं समकम्पयत् ॥ ॥१,२२।१५च्द्।
ततः शरवरं घोरं दीप्तमाशीविषोपमम् ॥ ॥१,२२।१६अब्।
जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः ॥ ॥१,२२।१६च्द्।
बाणोद्धारे भुजो ह्यस्य तूणीवदनसङ्गतः ॥ ॥१,२२।१७अब्।
प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः ॥ ॥१,२२।१७च्द्।
समुद्धृतः करे तस्य तत्क्षणं रुरुचे शरेः ॥ ॥१,२२।१८अब्।
महाभुजङ्गसन्दष्टो यथा बालभुजङ्गमः ॥ ॥१,२२।१८च्द्।
शरेण घनतीव्रेण भद्रो रुद्रपराक्रमः ॥ ॥१,२२।१९अब्।
विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम् ॥ ॥१,२२।१९च्द्।
ललाटे ऽभिहितो विष्णुः पूर्वमेवावमानितः ॥ ॥१,२२।२०अब्।
चुकोप गणपेन्द्राय मृगेन्द्रायेव गोवृषः ॥ ॥१,२२।२०च्द्।
ततस्त्वशनिकल्पेन क्रूरास्येन महेषुणा ॥ ॥१,२२।२१अब्।
विव्याध गणराजस्य भुजे भुजगसन्निभे ॥ ॥१,२२।२१च्द्।
सो ऽपि तस्य भुजे भूयः सूर्यायुतसमप्रभम् ॥ ॥१,२२।२२अब्।
विससर्ज शरं वेगाद्वीरभद्रो महाबलः ॥ ॥१,२२।२२च्द्।
स च विष्णुः पुनर्भद्रं भद्रो विष्णुं तथा पुनः ॥ ॥१,२२।२३अब्।
स च तं स च तं विप्राश्शरैस्तावनुजघ्नतुः ॥ ॥१,२२।२३च्द्।
तयोः परस्परं वेगाच्छरानाशु विमुञ्चतोः ॥ ॥१,२२।२४अब्।
द्वयोस्समभवद्युद्धं तुमुलं रोमहर्षणम् ॥ ॥१,२२।२४च्द्।
तद्दृष्ट्वा तुमुलं युद्धं तयोरेव परस्परम् ॥ ॥१,२२।२५अब्।
हाहाकारो महानासीदाकाशे खेचरेरितः ॥ ॥१,२२।२५च्द्।
ततस्त्वनलतुण्डेन शरेणादित्यवर्चसा ॥ ॥१,२२।२६अब्।
विव्याध सुदृढं भद्रो विष्णोर्महति वक्षसि ॥ ॥१,२२।२६च्द्।
स तु तीव्रप्रपातेन शरेण दृढमाहतः ॥ ॥१,२२।२७अब्।
महतीं रुजमासाद्य निपपात विमोहितः ॥ ॥१,२२।२७च्द्।
पुनः क्षणादिवोत्थाय लब्धसञ्ज्ञस्तदा हरिः ॥ ॥१,२२।२८अब्।
सर्वाण्यपि च दिव्यास्त्राण्यथैनं प्रत्यवासृजत् ॥ ॥१,२२।२८च्द्।
स च विष्णुर्धनुर्मुक्तान्सर्वाञ्छर्वचमूपतिः ॥ ॥१,२२।२९अब्।
सहसा वारयामास घोरैः प्रतिशरैः शरान् ॥ ॥१,२२।२९च्द्।
ततो विष्णुस्स्वनामाङ्कं बाणमव्याहतं क्वचित् ॥ ॥१,२२।३०अब्।
ससर्ज क्रोधरक्ता क्षस्तमुद्दिश्य गणेश्वरम् ॥ ॥१,२२।३०च्द्।
तं बाणं बाणवर्येण भद्रो भद्राह्वयेण तु ॥ ॥१,२२।३०एफ़्।
अप्राप्तमेव भगवाञ्चिच्छेद शतधा पथि ॥ ॥१,२२।३१अब्।
अथैकेनेषुणा शार्ङ्गं द्वाभ्यां पक्षौ गरुत्मतः ॥ ॥१,२२।३१च्द्।
निमेषादेव चिच्छेद तदद्भुतमिवाभवत् ॥ ॥१,२२।३२अब्।
ततो योगबलाद्विष्णुर्देहाद्देवान्सुदारुणान् ॥ ॥१,२२।३२च्द्।
शङ्खचक्रगदाहस्तान् विससर्ज सहस्रशः ॥ ॥१,२२।३३अब्।
सर्वांस्तान्क्षणमात्रेण त्रैपुरानिव शङ्करः ॥ ॥१,२२।३३च्द्।
निर्ददाह महाबाहुर्नेत्रसृष्टेन वह्निना ॥ ॥१,२२।३४अब्।
ततः क्रुद्धतरो विष्णुश्चक्रमुद्यम्य सत्वरः ॥ ॥१,२२।३४च्द्।
तस्मिन्वीरो समुत्स्रष्टुं तदानीमुद्यतो ऽभवत् ॥ ॥१,२२।३५अब्।
तं दृष्ट्वा चक्रमुद्यम्य पुरतः समुपस्थितम् ॥ ॥१,२२।३५च्द्।
स्मयन्निव गणेशानो व्यष्टम्भयदयत्नतः ॥ ॥१,२२।३६अब्।
स्तम्भिताङ्गस्तु तच्चक्रं घोरमप्रतिमं क्वचित् ॥ ॥१,२२।३६च्द्।
इच्छन्नपि समुत्स्रष्टुं न विष्णुरभवत्क्षमः ॥ ॥१,२२।३७अब्।
श्वसन्निवैकमुद्धृत्य बाहुं चक्रसमन्वितम् ॥ ॥१,२२।३७च्द्।
अतिष्ठदलसो भूत्वा पाषाण इव निश्चलः ॥ ॥१,२२।३८अब्।
विशरीरो यथाजीवो विशृङ्गो वा यथा वृषः ॥ ॥१,२२।३८च्द्।
विदंष्ट्रश्च यथा सिंहस्तथा विष्णुरवस्थितः ॥ ॥१,२२।३९अब्।
तं दृष्ट्वा दुर्दशापन्नं विष्णुमिन्द्रादयः सुराः ॥ ॥१,२२।३९च्द्।
समुन्नद्धा गणेन्द्रेण मृगेन्द्रेणेव गोवृषाः ॥ ॥१,२२।३९एफ़्।
प्रगृहीतायुधा यौद्धुङ्क्रुद्धाः समुपतस्थिरे ॥ ॥१,२२।४०अब्।
तान्दृष्ट्वा समरे भद्रःक्षुद्रानिव हरिर्मृगान् ॥ ॥१,२२।४०च्द्।
साक्षाद्रुद्रतनुर्वीरो वरवीरगणावृतः ॥ ॥१,२२।४१अब्।
अट्टहासेन घोरेण व्यष्टं भयदनिन्दितः ॥ ॥१,२२।४१च्द्।
तथा शतमखस्यापि सवज्रो दक्षिणः करः ॥ ॥१,२२।४२अब्।
सिसृक्षोरेव उद्वज्रश्चित्रीकृत इवाभवत् ॥ ॥१,२२।४२च्द्।
अन्येषामपि सर्वेषां सरक्ता अपि बाहवः ॥ ॥१,२२।४३अब्।
अलसानामिवारम्भास्तादृशाः प्रतियान्त्युत ॥ ॥१,२२।४३च्द्।
एवं भगवता तेन व्याहताशेषवैभवात् ॥ ॥१,२२।४४अब्।
अमराः समरे तस्य पुरतः स्थातुमक्षमाः ॥ ॥१,२२।४४च्द्।
स्तब्धैरवयवैरेव दुद्रुवुर्भयविह्वलाः ॥ ॥१,२२।४५अब्।
स्थितिं च चक्रिरे युद्धे वीरतेजोभयाकुलाः ॥ ॥१,२२।४५च्द्।
विद्रुतांस्त्रिदशान्वीरान्वीरभद्रो महाभुजः ॥ ॥१,२२।४६अब्।
विव्याध निशितैर्बाणैर्मघो वर्षैरिवाचलान् ॥ ॥१,२२।४६च्द्।
बहवस्तस्य वीरस्य बाहवः परिघोपमाः ॥ ॥१,२२।४७अब्।
शस्त्रैश्चकाशिरे दीप्तैः साग्निज्वाला इवोरगाः ॥ ॥१,२२।४७च्द्।
अस्त्रशस्त्राण्यनेकानिसवीरो विसृजन्बभौ ॥ ॥१,२२।४८अब्।
विसृजन्सर्वभूतानि यथादौ विश्वसम्भवः ॥ ॥१,२२।४८च्द्।
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ॥ ॥१,२२।४९अब्।
तथा वीरः क्षणादेव शरैः प्राच्छादयद्दिशः ॥ ॥१,२२।४९च्द्।
खमण्डले गणेन्द्रस्य शराः कनकभूषिताः ॥ ॥१,२२।५०अब्।
उत्पतन्तस्तडिद्रूपैरुपमानपदं ययुः ॥ ॥१,२२।५०च्द्।
महान्तस्ते सुरगणान् मण्डूकानिवडुण्डुभाः ॥ ॥१,२२।५१अब्।
प्राणैर्वियोजयामासुः पपुश्च रुधिरासवम् ॥ ॥१,२२।५१च्द्।
निकृत्तबाहवः केचित्केचिल्लूनवराननाः ॥ ॥१,२२।५२अब्।
पार्श्वे विदारिताः केचिन्निपेतुरमरा भुवि ॥ ॥१,२२।५२च्द्।
विशिखोन्मथितैर्गात्रैर्बहुभिश्छिन्नसन्धिभिः ॥ ॥१,२२।५३अब्।
विवृत्तनयनाः केचिन्निपेतुर्भूतले मृताः ॥ ॥१,२२।५३च्द्।
गां प्रवेष्टुमिवेच्छन्तः खं गन्तुमिव लिप्सवः ॥ ॥१,२२।५३एफ़्।
अलब्धात्मनिरोधानां व्यलीयन्तः परस्परम् ॥ ॥१,२२।५४अब्।
भूमौ केचित्प्रविविशुः पर्वतानां गुहाः परे ॥ ॥१,२२।५४च्द्।
अपरे जग्मुराकाशं परे च विविशुर्जलम् ॥ ॥१,२२।५५अब्।
तथा सञ्छिन्नसर्वाङ्गैस्स वीरस्त्रिदशैर्बभौ ॥ ॥१,२२।५५च्द्।
परिग्रस्तप्रजावर्गो भगवानिव भैरवः ॥ ॥१,२२।५६अब्।
दग्धत्रिपुरसंव्यूहस्त्रिपुरारिर्यथाभवत् ॥ ॥१,२२।५६च्द्।
एवं देवबलं सर्वं दीनं बीभत्सदर्शनम् ॥ ॥१,२२।५७अब्।
गणेश्वरसमुत्पन्नं कृपणं वपुराददे ॥ ॥१,२२।५७च्द्।
तदा त्रिदशवीराणामसृक्सलिलवाहिनी ॥ ॥१,२२।५८अब्।
५२६ब्
प्रावर्तत नदी घोरा प्राणिनां भयशंसिनी ॥ ॥१,२२।५८च्द्।
रुधिरेण परिक्लिन्ना यज्ञभूमिस्तदा बभौ ॥ ॥१,२२।५९अब्।
रक्तार्द्रवसना श्यामा हतशुम्भेव कैशिकी ॥ ॥१,२२।५९च्द्।
तस्मिन्महति संवृत्ते समरे भृशदारुणे ॥ ॥१,२२।६०अब्।
भयेनेव परित्रस्ता प्रचचाल वसुन्धरा ॥ ॥१,२२।६०च्द्।
महोर्मिकलिलावर्तश्चुक्षुभे च महोदधिः ॥ ॥१,२२।६१अब्।
पेतुश्चोल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ॥ ॥१,२२।६१च्द्।
अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ॥ ॥१,२२।६२अब्।
अहो विधिविपर्यासस्त्वश्वमेधोयमध्वरः ॥ ॥१,२२।६२च्द्।
यजमानस्स्वयं दक्षौ ब्रह्मपुत्रप्रजापतिः ॥ ॥१,२२।६२एफ़्।
धर्मादयस्सदस्याश्च रक्षिता गरुडध्वजः ॥ ॥१,२२।६३अब्।
भागांश्च प्रतिगृह्णन्ति साक्षादिन्द्रादयः सुराः ॥ ॥१,२२।६३च्द्।
तथापि यजमानस्य यज्ञस्य च सहर्त्विजः ॥ ॥१,२२।६४अब्।
सद्य एव शिरश्छेदस्साधु सम्पद्यते फलम् ॥ ॥१,२२।६४च्द्।
तस्मान्नावेदनिर्दिष्टं न चेश्वरबहिष्कृतम् ॥ ॥१,२२।६५अब्।
नासत्परिगृहीतं च कर्म कुर्यात्कदाचन ॥ ॥१,२२। ६५च्द्।
कृत्वापि सुमहत्पुण्यमिष्ट्वा यज्ञशतैरपि ॥ ॥१,२२।६६अब्।
न तत्फलमवाप्नोति भक्तिहीनो महेश्वरे ॥ ॥१,२२।६६च्द्।
कृत्वापि सुमहत्पापं भक्त्या यजति यश्शिवम् ॥ ॥१,२२।६७अब्।
मुच्यते पातकैः सर्वैर्नात्र कार्या विचारणा ॥ ॥१,२२।६७च्द्।
बहुनात्र किमुक्तेन वृथा दानं वृथा तपः ॥ ॥१,२२।६८अब्।
वृथा यज्ञो वृथा होमः शिवनिन्दारतस्य तु ॥ ॥१,२२।६८च्द्।
ततः सनारायणकास्सरुद्राः सलोकपालास्समरे सुरौघाः ॥ ॥१,२२।६९अब्।
गणेन्द्रचापच्युतबाणविद्धाः प्रदुद्रुवुर्गाढरुजाभिभूताः ॥ ॥१,२२।६९च्द्।
चेलुः क्वचित्केचन शीर्णकेशाः सेदुः क्वचित्केचन दीर्घगात्राः ॥ ॥१,२२।७०अब्।
पेतुः क्वचित्केचन भिन्नवक्त्रा नेशुः क्वचित्केचन देववीराः ॥ ॥१,२२।७०च्द्।
केचिच्च तत्र त्रिदशा विपन्ना विस्रस्तवस्त्राभरणास्त्रशस्त्राः ॥ ॥१,२२।७१अब्।
निपेतुरुद्भासितदीनमुद्रा मदं च दर्पं च बलं च हित्वा ॥ ॥१,२२।७१च्द्।
सस्मुत्पथप्रस्थितमप्रधृष्यो विक्षिप्य दक्षाध्वरमक्षतास्त्रैः ॥ ॥१,२२।७२अब्।
बभौ गणेशस्स गणेश्वराणां मध्ये स्थितः सिम्ह इवर्षभाणाम् ॥ ॥१,२२।७२च्द्।
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्खण्डे दक्षयज्ञविध्वंसवर्णनं नाम द्वाविंशो ऽध्यायः