वायुरुवाच
ततस्त्रिदशमुख्यास्ते विष्णुशक्रपुरोगमाः ॥ ॥१,२१।१अब्।
सर्वे भयपरित्रस्तादुद्रुवुर्भयविह्वलाः ॥ ॥१,२१।१च्द्।
निजैरदूषितैरङ्गैर्दृष्ट्वा देवानुपद्रुतान् ॥ ॥१,२१।२अब्।
दण्ड्यानदण्डितान्मत्वा चुकोप गणपुङ्गवः ॥ ॥१,२१।२च्द्।
ततस्त्रिशूलमादाय शर्वशक्तिनिबर्हणम् ॥ ॥१,२१।३अब्।
ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन् ॥ ॥१,२१।३च्द्।
अमरानपि दुद्राव द्विरदानिव केसरी ॥ ॥१,२१।४अब्।
तानभिद्रवतस्तस्य गमनं सुमनोहरम् ॥ ॥१,२१।४च्द्।
वाराणस्येव मत्तस्य जगाम प्रेक्षणीयताम् ॥ ॥१,२१।५अब्।
ततस्तत्क्षोभयामास महत्सुरबलं बली ॥ ॥१,२१।५च्द्।
महासरोवरं यद्वन्मत्तो वारणयूथपः ॥ ॥१,२१।६अब्।
विकुर्वन्बहुधावर्णान्नीलपाण्डुरलोहितान् ॥ ॥१,२१।६च्द्।
विभ्रद्व्याघ्राजिनं वासो हेमप्रवरतारकम् ॥ ॥१,२१।७अब्।
छिन्दन्भिन्दन्नुद १क्लिन्दन्दारयन्प्रमथन्नपि ॥ ॥१,२१।७च्द्।
व्यचरद्देवसङ्घेषु भद्रो ऽग्निरिव कक्षगः ॥ ॥१,२१।८अब्।
तत्र तत्र महावेगाच्चरन्तं शूलधारिणम् ॥ ॥१,२१।८च्द्।
तमेकं त्रिदशाः सर्वे सहस्रमिव मेनिरे ॥ ॥१,२१।९अब्।
भद्रकाली च सङ्क्रुद्धा युद्धवृद्धमदोद्धता ॥ ॥१,२१।९च्द्।
मुक्तज्वालेन शूलेन निर्बिभेद रणे सुरान् ॥ ॥१,२१।१०अब्।
स तया रुरुचे भद्रो रुद्रकोपसमुद्भवः ॥ ॥१,२१।१०च्द्।
प्रभयेव युगान्ताग्निश्चलया धूमधूम्रया ॥ ॥१,२१।११अब्।
भद्रकाली तदायुद्धे विद्रुतत्रिदशाबभौ ॥ ॥१,२१।११च्द्।
१ नलोप आर्षः
५२४ब्
कल्पे शेषानलज्वालादग्धाविश्वजगद्यथा ॥ ॥१,२१।१२अब्।
तदा सवाजिनं सूर्यं रुद्रान्रुद्रगणाग्रणीः ॥ ॥१,२१।१२च्द्।
भद्रो मूर्ध्नि जघानाशु वामपादेन लीलया ॥ ॥१,२१।१३अब्।
असिभिः पावकं भद्रः पट्टिशैस्तु यमं यमी ॥ ॥१,२१।१३च्द्।
रुद्रान्दृढेन शूलेन मुद्गरैर्वरुणं दृढैः ॥ ॥१,२१।१४अब्।
परिघैर्निरृतिं वायुं टङ्कैष्टङ्कधरः स्वयम् ॥ ॥१,२१।१४च्द्।
निर्बिभेद रणे वीरो लीलयैव गणेश्वरः ॥ ॥१,२१।१५अब्।
सर्वान्देवगणान्सद्यो मुनीञ्छम्भोर्विरोधिनः ॥ ॥१,२१।१५च्द्।
ततो देवः सरस्वत्या नासिकाग्रं सुशोभनम् ॥ ॥१,२१।१६अब्।
चिच्छेद करजाग्रेण देवमातुस्तथैव च ॥ ॥१,२१।१६च्द्।
चिच्छेद च कुठारेण बाहुदण्डं विभावसोः ॥ ॥१,२१।१७अब्।
अग्रतो द्व्यङ्गुलां जिह्वां मातुर्देव्या लुलाव च ॥ ॥१,२१।१७च्द्।
स्वाहादेव्यास्तथा देवो दक्षिणं नासिकापुटम् ॥ ॥१,२१।१८अब्।
चकर्त करजाग्रेण वामं च स्तनचूचुकम् ॥ ॥१,२१।१८च्द्।
भगस्य विपुले नेत्रे शतपत्रसमप्रभे ॥ ॥१,२१।१९अब्।
प्रसह्योत्पाटयामास भद्रः परमवेगवान् ॥ ॥१,२१।१९च्द्।
पूष्णो दशनरेखां च दीप्तां मुक्तावलीमिव ॥ ॥१,२१।२०अब्।
जघान धनुषः कोट्या स तेनास्पष्टवागभूत् ॥ ॥१,२१।२०च्द्।
ततश्चन्द्रमसं देवः पादाङ्गुष्ठेन लीलया ॥ ॥१,२१।२१अब्।
क्षणं कृमिवदाक्रम्य घर्षयामास भूतले ॥ ॥१,२१।२१च्द्।
शिरश्चिच्छेद दक्षस्य भद्रः परमकोपतः ॥ ॥१,२१।२२अब्।
क्रोशन्त्यामेव वैरिण्यां भद्रकाल्यै ददौ च तत् ॥ ॥१,२१।२२च्द्।
तत्प्रहृष्टा समादाय शिरस्तालफलोपमम् ॥ ॥१,२१।२३अब्।
सा देवी कण्डुकक्रीडां चकार समराङ्गणे ॥ ॥१,२१।२३च्द्।
ततो दक्षस्य यज्ञस्त्री कुशीला भर्तृभिर्यथा ॥ ॥१,२१।२४अब्।
पादाभ्यां चैव हस्ताभ्यां हन्यते स्म गणेश्वरैः ॥ ॥१,२१।२४च्द्।
अरिष्टनेमिने सोमं धर्मं चैव प्रजापतिम् ॥ ॥१,२१।२५अब्।
बहुपुत्रं चाङ्गिरसं कृशाश्वं कश्यपं तथा ॥ ॥१,२१।२५च्द्।
गले प्रगृह्य बलिनो गणपाः सिंहविक्रमाः ॥ ॥१,२१।२६अब्।
भर्त्सयन्तो भृशं वाग्भिर्निर्जघ्नुर्मूर्ध्नि मुष्टिभिः ॥ ॥१,२१।२६च्द्।
धर्षिता भूतवेतालैर्दारास्सुतपरिग्रहाः ॥ ॥१,२१।२७अब्।
यथा कलियुगे जारैर्बलेन कुलयोषितः ॥ ॥१,२१।२७च्द्।
तच्च विध्वस्तकलशं भग्नयूपं गतोत्सवम् ॥ ॥१,२१।२८अब्।
प्रदीपितमहाशालं प्रभिन्नद्वारतोरणम् ॥ ॥१,२१।२८च्द्।
उत्पाटितसुरानीकं हन्यमानं तपोधनम् ॥ ॥१,२१।२९अब्।
प्रशान्तब्रह्मनिर्घोषं प्रक्षीणजनसञ्चयम् ॥ ॥१,२१।२९च्द्।
क्रन्दमानातुरस्त्रीकं हताशेषपरिच्छदम् ॥ ॥१,२१।३०अब्।
शून्यारण्यनिभं जज्ञे यज्ञवाटं तदार्दितम् ॥ ॥१,२१।३०च्द्।
शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः ॥ ॥१,२१।३१अब्।
विनिकृत्तोत्तमाङ्गाश्च पेतुरुर्व्यां सुरोत्तमाः ॥ ॥१,२१।३१च्द्।
हतेषु तेषु देवेषु पतितेषुः सहस्रशः ॥ ॥१,२१।३२अब्।
प्रविवेश गणेशानः क्षणादाहवनीयकम् ॥ ॥१,२१।३२च्द्।
प्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसन्निभम् ॥ ॥१,२१।३३अब्।
दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः ॥ ॥१,२१।३३च्द्।
स विस्फार्य महच्चापं दृढज्याघोषणभीषणम् ॥ ॥१,२१।३४अब्।
५२५अ
भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान् ॥ ॥१,२१।३४च्द्।
आकर्णपूर्णमाकृष्टं धनुरम्बुदसन्निभम् ॥ ॥१,२१।३५अब्।
नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः ॥ ॥१,२१।३५च्द्।
तमुपश्रित्य सन्नादं हतो ऽस्मीत्येव विह्वलम् ॥ ॥१,२१।३६अब्।
शरणार्धेन वक्रेण स वीरो ऽध्वरपूरुषम् ॥ ॥१,२१।३६च्द्।
महाभयस्खलत्पादं वेपन्तं विगतत्विषम् ॥ ॥१,२१।३७अब्।
मृगरूपेण धावन्तं विशिरस्कं तदाकरोत् ॥ ॥१,२१।३७च्द्।
तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसम्भवम् ॥ ॥१,२१।३८अब्।
विष्णुः परमसङ्क्रुद्धो युद्धायाभवदुद्यतः ॥ ॥१,२१।३८च्द्।
तमुवाह महावेगात्स्कन्धेन नतसन्धिना ॥ ॥१,२१।३९अब्।
सर्वेषां वयसां राजा गरुडः पन्नगाशनः ॥ ॥१,२१।३९च्द्।
देवाश्च हतशिष्टा ये देवराजपुरोगमाः ॥ ॥१,२१।४०अब्।
प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः ॥ ॥१,२१।४०च्द्।
विष्णुना सहितान्देवान्मृगेन्द्रः क्रोष्टुकानिव ॥ ॥१,२१।४१अब्।
दृष्ट्वा जहास भूतेन्द्रो मृगेन्द्र इव विव्यथः ॥ ॥१,२१।४१च्द्।
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवदण्डवर्णनं नामैकविंशो ऽध्यायः