वायुरुवाच
ततो विष्णुप्रधानानां सुराणाममितौजसाम् ॥ ॥१,२०।१अब्।
ददर्श च महत्सत्रं चित्रध्वजपरिच्छदम् ॥ ॥१,२०।१च्द्।
सुदर्भऋतुसंस्तीर्णं सुसमिद्धहुताशनम् ॥ ॥१,२०।२अब्।
काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलङ्कृतम् ॥ ॥१,२०।२च्द्।
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ॥ ॥१,२०।३अब्।
विधिना वेददृष्टेन स्वनुष्ठितबहुक्रमम् ॥ ॥१,२०।३च्द्।
देवाङ्गनासहस्राढ्यमप्सरोगणसेवितम् ॥ ॥१,२०।४अब्।
वेणुवीणारवैर्जुष्टं वेदघोषैश्च बृंहितम् ॥ ॥१,२०।४च्द्।
दृष्ट्वा दक्षाध्वरे वीरो वीरभद्रः प्रतापवान् ॥ ॥१,२०।५अब्।
सिंहनादं तदा चक्रे गम्भीरो जलदो यथा ॥ ॥१,२०।५च्द्।
ततः किलकिलाशब्द आकाशं पूरयन्निव ॥ ॥१,२०।६अब्।
गणेश्वरैः कृतो जज्ञे महान्न्यक्कृतसागरः ॥ ॥१,२०।६च्द्।
तेन शब्देन महताः ग्रस्ता सर्वेदिवौकसः ॥ ॥१,२०।७अब्।
दुद्रुवुः परितो भीताः स्रस्तवस्त्रविभूषणाः ॥ ॥१,२०।७च्द्।
किंस्विद्भग्नो महामेरुः किंस्वित्सन्दीर्यते मही ॥ ॥१,२०।८अब्।
किमिदं किमिदं वेति जजल्पुस्त्रिदशा भृशम् ॥ ॥१,२०।८च्द्।
मृगेन्द्राणां यथा नादं गजेन्द्रा गहने वने ॥ ॥१,२०।९अब्।
श्रुत्वा तथाविधं केचित्तत्यजुर्जीवितं भयात् ॥ ॥१,२०।९च्द्।
पर्वताश्च व्यशीर्यन्त चकम्पे च वसुन्धरा ॥ ॥१,२०।१०अब्।
मरुतश्च व्यघूर्णन्त चुक्षुभे मकरालयः ॥ ॥१,२०।१०च्द्।
अग्नयो नैव दीप्यन्ते न च दीप्यति भास्करः ॥ ॥१,२०।११अब्।
ग्रहाश्च न प्रकाशन्ते नक्षत्राणि च तारकाः ॥ ॥१,२०।११च्द्।
एतस्मिन्नेव काले तु यज्ञवाटं तदुज्ज्वलम् ॥ ॥१,२०।१२अब्।
सम्प्राप भगवान्भद्रो भद्रैश्च सह भद्रया ॥ ॥१,२०।१२च्द्।
तं दृष्ट्वा भीतभीतो ऽपि दक्षो दृढ इव स्थितः ॥ ॥१,२०।१३अब्।
क्रुद्धवद्वचनं प्राह को भवान् किमिहेच्छसि ॥ ॥१,२०।१३च्द्।
तस्य तद्वचनं श्रुत्वा दक्षस्य च दुरात्मनः ॥ ॥१,२०।१४अब्।
वीरभद्रो महातेजा मेघसम्भीरनिस्स्वनः ॥ ॥१,२०।१४च्द्।
१ परस्मैपदमार्षम्
५२३ब्
स्मयन्निव तमालोक्य दक्षं देवाश्च ऋत्विजः ॥ ॥१,२०।१५अब्।
अर्थगर्भमसम्भ्रान्तमवोचदुचितं वचः ॥ ॥१,२०।१५च्द्।
वीरभद्र उवाच
वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ॥ ॥१,२०।१६अब्।
भागाभिलिप्सया प्राप्ता भागो नस्सम्प्रदीयताम् ॥ ॥१,२०।१६च्द्।
अथ चेदध्वरे ऽस्माकं न भागः परिकल्पितः ॥ ॥१,२०।१७अब्।
कथ्यतां कारणं तत्र युध्यतां वा मयामरैः ॥ ॥१,२०।१७च्द्।
इत्युक्तास्ते गणेन्द्रेण देवा दक्षपुरोगमाः ॥ ॥१,२०।१८अब्।
ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति ॥ ॥१,२०।१८च्द्।
मन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः ॥ ॥१,२०।१९अब्।
येन प्रथमभागार्हं न यजध्वं महेश्वरम् ॥ ॥१,२०।१९च्द्।
मन्त्रोक्ता अपि ते देवाः सर्वे सम्मूढचेतसः ॥ ॥१,२०।२०अब्।
भद्राय न ददुर्भागं तत्प्रहाणमभीप्सवः ॥ ॥१,२०।२०च्द्।
यदा तथ्यं च पथ्यं च स्ववाक्यं तद्वृथा ऽभवत् ॥ ॥१,२०।२१अब्।
तदा ततो ययुर्मन्दा ब्रह्मलोकं सनातनम् ॥ ॥१,२०।२१च्द्।
अथोवाच गणाध्यक्षो देवान्विष्णुपुरोगमान् ॥ ॥१,२०।२२अब्।
मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ॥ ॥१,२०।२२च्द्।
यस्मादस्मिन् मखे देवैरित्थं वयमसत्कृताः ॥ ॥१,२०।२३अब्।
तस्माद्वो जीवितैस्सार्धमपनेष्यामि गर्वितम् ॥ ॥१,२०।२३च्द्।
इत्युक्त्वा भगवान् क्रुद्धो व्यदहन्नेत्रवह्निना ॥ ॥१,२०।२४अब्।
यक्षवाटं महाकूटं यथातिस्रः पुरो हरः ॥ ॥१,२०।२४च्द्।
ततो गणेश्वरास्सर्वे पर्वतोदग्रविग्रहाः ॥ ॥१,२०।२५अब्।
यूपानुत्पाट्य होत्ःणां कण्ठेष्वाबध्य रज्जुभिः ॥ ॥१,२०।२५च्द्।
यज्ञपात्राणि चित्राणि भित्त्वा सञ्चूर्ण्य वारिणि ॥ ॥१,२०।२६अब्।
गृहीत्वा चैव यज्ञाङ्गं गङ्गास्रोतसि चिक्षिपुः ॥ ॥१,२०।२६च्द्।
तत्र दिव्यान्नपानानां राशयः पर्वतोपमाः ॥ ॥१,२०।२७अब्।
क्षीरनद्यो ऽमृतस्रावाः सुस्निग्धदधिकर्दमाः ॥ ॥१,२०।२७च्द्।
उच्चावचानि मांसानि भक्ष्याणि सुरभीणि च ॥ ॥१,२०।२८अब्।
रसवन्ति च पानानि लेह्यचोष्याणि तानि वै ॥ ॥१,२०।२८च्द्।
वीरास्तद्भुजते वक्त्रैर्विलुम्पन्ति क्षिपन्ति च ॥ ॥१,२०।२९अब्।
वज्रैश्चक्रैर्महाशूलैश्शक्तिभिः पाशपट्टिशैः ॥ ॥१,२०।२९च्द्।
मुसलैरसिभिष्टङ्कैर्भिधिपालैः परश्वधैः ॥ ॥१,२०।३०अब्।
उद्धतांस्त्रिदशान्सर्वांल्लोकपालपुरस्सरान् ॥ ॥१,२०।३०च्द्।
बिभिदुर्बलिनो वीरा वीरभद्राङ्गसम्भवाः ॥ ॥१,२०।३१अब्।
छिन्धि भिन्धि क्षिप क्षिप्रं मार्यतां दार्यतामिति ॥ ॥१,२०।३१च्द्।
हरस्व प्रहरस्वेति पाटयोत्पाटयेति च ॥ ॥१,२०।३२अब्।
संरम्भप्रभवाः क्रूराश्शब्दाः श्रवणशङ्कवः ॥ ॥१,२०।३२च्द्।
यत्रतत्र गणेशानां जज्ञिरे समरोचिताः ॥ ॥१,२०।३३अब्।
विवृत्तनयनाः केचिद्दष्टदंष्ट्रोष्ठतालवः ॥ ॥१,२०।३३च्द्।
आश्रमस्थान्समाकृष्य मारयन्ति तपोधनात् ॥ ॥१,२०।३४अब्।
स्रुवानपहरन्तश्च क्षिपन्तोग्निं जलेषु च ॥ ॥१,२०।३४च्द्।
कलशानपि भिन्दन्तश्छिन्दन्तो मणिवेदिकाः ॥ ॥१,२०।३५अब्।
गायन्तश्च नदन्तश्च हसन्तश्च मुहुर्मुहुः ॥ ॥१,२०।३५च्द्।
रक्तासवं पिबन्तश्च ननृतुर्गणपुङ्गवाः ॥ ॥१,२०।३६अब्।
५२४अ
निर्मथ्य सेन्द्रानमरान् गणेन्द्रान्वृषेन्द्रनागेन्द्रमृगेन्द्रसाराः ॥ ॥१,२०।३६च्द्।
चक्रुर्बहून्यप्रतिमभावाः सहर्षरोमाणि विचेष्टितानि ॥ ॥१,२०।३७अब्।
नन्दन्ति केचित्प्रहरन्ति केचिद्धावन्ति केचित्प्रलपन्ति केचित् ॥ ॥१,२०।३७च्द्।
नृत्यन्ति केचिद्विहसन्ति केचिद्वल्गन्ति केचित्प्रमथा बलेन ॥ ॥१,२०।३८अब्।
केचिज्जिघृक्षन्ति घनान्स तोयान्केचिद्ग्रहीतुं रविमुत्पतन्ति ॥ ॥१,२०।३९अब्।
केचित्प्रसर्तुं पवनेन सार्धमिच्छन्ति भीमाः प्रमथा वियत्स्थाः ॥ ॥१,२०।३९च्द्।
आक्षिप्य केचिच्च वरायुधानि महा भुजङ्गानिव वैनतेयाः ॥ ॥१,२०।४०अब्।
भ्रमन्ति देवानपि विद्रवन्तः खमण्डले पर्वतकूटकल्पाः ॥ ॥१,२०।४०च्द्।
उत्पाट्य चोत्पाट्यगृहाणि केचित्सजालवातायनवेदिकानि ॥ ॥१,२०।४१अब्।
विक्षिप्य विक्षिप्य जलस्य मध्ये कालाम्बुदाभाः प्रमथा निनेदुः ॥ ॥१,२०।४१च्द्।
उद्वर्तितद्वारकपाटकुड्यं विध्वस्तशालावलभीगवाक्षम् ॥ ॥१,२०।४२अब्।
अहो बताभज्यत यज्ञवाटमनाथवद्वाक्यमिवायथार्थम् ॥ ॥१,२०।४२च्द्।
हा नाथ तातेति पितुः सुतेति भ्रतर्ममाम्बेति च मातुलेति ॥ ॥१,२०।४३अब्।
उत्पाट्यमानेषु गृहेषु नार्यो ह्यानाथशब्दान्बहुशः प्रचक्रुः ॥ ॥१,२०।४३च्द्।
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे यज्ञविध्वंसनो नाम विंशो ऽध्यायः