१९ वीरभद्रोत्पत्तिवर्णनम्

ऋषय ऊचुः
कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः ॥ ॥१,१९।१अब्।
महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम् ॥ ॥१,१९।१च्द्।
वायुरुवाच
विश्वस्य जगतो मातुरपि देव्यास्तपोबलात् ॥ ॥१,१९।२अब्।
पितृभावमुपागम्य मुदिते हिमवद्गिरौ ॥ ॥१,१९।२च्द्।
देवे ऽपि तत्कृतोद्वाहे हिमवच्छिखरालये ॥ ॥१,१९।३अब्।
सङ्कीडति तया सार्धं काले बहुतरे गते ॥ ॥१,१९।३च्द्।
वैवस्वते ऽन्तरे प्राप्ते दक्षः प्राचेतसः स्वयम् ॥ ॥१,१९।४अब्।
अश्वमेधेन यज्ञेन यक्ष्यमाणो ऽन्वपद्यत ॥ ॥१,१९।४च्द्।
ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् ॥ ॥१,१९।५अब्।
गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥ ॥१,१९।५च्द्।
तस्य तस्मिन्मखेदेवाः सर्वे शक्र पुरोगमाः ॥ ॥१,१९।६अब्।
गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ ॥१,१९।६च्द्।
आदित्या वसवो रुद्रास्साध्यास्सह मरुद्गणैः ॥ ॥१,१९।७अब्।
ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा ॥ ॥१,१९।७च्द्।
अश्विनौ पितरश्चैव तथा चान्ये महर्षयः ॥ ॥१,१९।८अब्।
विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः ॥ ॥१,१९।८च्द्।
दृष्ट्वा देवकुलं सर्वमीश्वरेण विनागतम् ॥ ॥१,१९।९अब्।
दधीचो मन्युनाविष्टो दक्षमेवमभाषत ॥ ॥१,१९।९च्द्।
दधीच उवाच
अप्रपूज्ये चैव पूजा पूज्यानां चाप्य पूजने ॥ ॥१,१९।१०अब्।
नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ ॥१,१९।१०च्द्।
असतां सम्मतिर्यत्र सतामवमतिस्तथा ॥ ॥१,१९।११अब्।
दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥ ॥१,१९।११च्द्।
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ ॥१,१९।१२अब्।
पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥ ॥१,१९।१२च्द्।
दक्ष उवाच
सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः ॥ ॥१,१९।१३अब्।
एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम् ॥ ॥१,१९।१३च्द्।
दधीच उवाच
किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् ॥ ॥१,१९।१४अब्।
राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया ॥ ॥१,१९।१४च्द्।
ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः ॥ ॥१,१९।१५अब्।
ब्रह्मादयः पिशाचान्ता यस्य कैङ्कर्यवादिनः ॥ ॥१,१९।१५च्द्।
प्रकृतीनां परश्चैव पुरुषस्य च यः परः ॥ ॥१,१९।१६अब्।
चिन्त्यते योगविद्वद्भि ऋषिभिस्तत्त्वदर्शिभिः ॥ ॥१,१९।१६च्द्।
अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत् ॥ ॥१,१९।१७अब्।
अनादिमध्यनिधनमप्रतर्क्यं सनातनम् ॥ ॥१,१९।१७च्द्।
यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः ॥ ॥१,१९।१८अब्।
५२२अ

तस्मादन्यं न पश्यामि शङ्करात्मानमध्वरे ॥ ॥१,१९।१८च्द्।
दक्ष उवाच
एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमन्त्रपूतम् ॥ ॥१,१९।१९अब्।
विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्यावहनीयमद्य ॥ ॥१,१९।१९च्द्।
दधीच उवाच
यस्मान्नाराधितो रुद्रस्सर्वदेवेश्वरेश्वरः ॥ ॥१,१९।२०अब्।
तस्माद्दक्ष तवाशेषो यज्ञो ऽयं न भविष्यति ॥ ॥१,१९।२०च्द्।
इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः ॥ ॥१,१९।२१अब्।
निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम् ॥ ॥१,१९।२१च्द्।
निर्गते ऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः ॥ ॥१,१९।२२अब्।
अवश्यमनुभावित्वादनर्थस्य तु भाविनः ॥ ॥१,१९।२२च्द्।
एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात् ॥ ॥१,१९।२३अब्।
दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत् ॥ ॥१,१९।२३च्द्।
देव्या सञ्चोदितो देवो दक्षाध्वरजिघांसया ॥ ॥१,१९।२४अब्।
ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम् ॥ ॥१,१९।२४च्द्।
सहस्रवदनं देवं सहस्रकमलेक्षणम् ॥ ॥१,१९।२५अब्।
सहस्रमुद्गरधरं सहस्रशरपाणिकम् ॥ ॥१,१९।२५च्द्।
शूलटङ्कगदाहस्तं दीप्तकार्मुकधारिणम् ॥ ॥१,१९।२६अब्।
चक्रवज्रधरं घोरं चन्द्रार्धकृतशेखरम् ॥ ॥१,१९।२६च्द्।
कुलिशोद्योतितकरं तडिज्ज्वलितमूर्धजम् ॥ ॥१,१९।२७अब्।
दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम् ॥ ॥१,१९।२७च्द्।
विद्युज्जिह्वं प्रलम्बोष्ठं मेघसागरनिःस्वनम् ॥ ॥१,१९।२८अब्।
वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम् ॥ ॥१,१९।२८च्द्।
गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् ॥ ॥१,१९।२९अब्।
वरामरशिरोमालावलीकलितशेखरम् ॥ ॥१,१९।२९च्द्।
रणन्नूपुरकेयूरमहाकनकभूषितम् ॥ ॥१,१९।३०अब्।
रत्नसञ्चयसन्दीप्तं तारहारावृतोरसम् ॥ ॥१,१९।३०च्द्।
महाशरभशार्दूलसिंहैः सदृशविक्रमम् ॥ ॥१,१९।३१अब्।
प्रशस्तमत्तमातङ्गसमानगमनालसम् ॥ ॥१,१९।३१च्द्।
शङ्खचामरकुन्देन्दुमृणालसदृशप्रभम् ॥ ॥१,१९।३२अब्।
सतुषारमिवाद्रीन्द्रं साक्षाज्जङ्गमतां गतम् ॥ ॥१,१९।३२च्द्।
ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् ॥ ॥१,१९।३३अब्।
तेजसा चैव दीव्यन्तं युगान्त इव पावकम् ॥ ॥१,१९।३३च्द्।
स जानुभ्यां महीं गत्वा प्रणतः प्राञ्जलिस्ततः ॥ ॥१,१९।३४अब्।
पार्श्वतो देवदेवस्य पर्यतिष्ठद्गणेश्वरः ॥ ॥१,१९।३४च्द्।
मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् ॥ ॥१,१९।३५अब्।
आत्मनः कर्मसाक्षित्वे तेन गन्तुं सहैव तु ॥ ॥१,१९।३५च्द्।
तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम् ॥ ॥१,१९।३६अब्।
भद्रया सहितं प्राह भद्रमस्त्विति शङ्करः ॥ ॥१,१९।३६च्द्।
स च विज्ञापयामास सह देव्या महेश्वरम् ॥ ॥१,१९।३७अब्।
आज्ञापय महादेव किं कार्यं करवाण्यहम् ॥ ॥१,१९।३७च्द्।
ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया ॥ ॥१,१९।३८अब्।
वीरभद्रं महाबाहुं वाचा विपुलनादया ॥ ॥१,१९।३८च्द्।
देवदेव उवाच
प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय ॥ ॥१,१९।३९अब्।
भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर ॥ ॥१,१९।३९च्द्।
५२२ब्

अहमप्यनया सार्धं रैभ्याश्रमसपीपतः ॥ ॥१,१९।४०अब्।
स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम् ॥ ॥१,१९।४०च्द्।
वृक्षा कनखले ये तु गङ्गाद्वारसमीपगाः ॥ ॥१,१९।४१अब्।
सुवर्णशृङ्गस्य गिरेर्मेरुमन्दरसन्निभाः ॥ ॥१,१९।४१च्द्।
तस्मिन्प्रदेशे दक्षस्य युज्ञः सम्प्रति वर्तते ॥ ॥१,१९।४२अब्।
सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम् ॥ ॥१,१९।४२च्द्।
इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा ॥ ॥१,१९।४३अब्।
भद्रं भद्रं च सम्प्रेक्ष्य वत्सं धेनुरिवौरसम् ॥ ॥१,१९।४३च्द्।
आलिङ्ग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा ॥ ॥१,१९।४४अब्।
सस्मिता वचनं प्राह मधुरं मधुरं स्वयम् ॥ ॥१,१९।४४च्द्।
देव्युवाच
वत्स भद्र महाभाग महाबलपराक्रम ॥ ॥१,१९।४५अब्।
मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जक ॥ ॥१,१९।४५च्द्।
यज्ञेश्वरमनाहूय यज्ञकर्मरतो ऽभवत् ॥ ॥१,१९।४६अब्।
दक्षं वैरेण तं तस्माद्भिन्धि यज्ञं गणेश्वर ॥ ॥१,१९।४६च्द्।
यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया ॥ ॥१,१९।४७अब्।
यजमानं च तं हत्वा वत्स हिंसय भद्रया ॥ ॥१,१९।४७च्द्।
अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः ॥ ॥१,१९।४८अब्।
मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गन्तुं प्रचक्रमे ॥ ॥१,१९।४८च्द्।
अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः ॥ ॥१,१९।४९अब्।
वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः ॥ ॥१,१९।४९च्द्।
ससर्ज रोमकूपेभ्यो रोमजाख्यान्गणेश्वरान् ॥ ॥१,१९।५०अब्।
दक्षिणाद्भुजदेशात्तु शतकोटिगविश्वरान् ॥ ॥१,१९।५०च्द्।
पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात् ॥ ॥१,१९।५१अब्।
गुह्याद्गुल्फाच्छिरोमध्यात्कण्ठादास्यात्तथोदरात् ॥ ॥१,१९।५१च्द्।
तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः ॥ ॥१,१९।५२अब्।
सञ्छादितमभूत्सर्वं साकाशविवरं जगत् ॥ ॥१,१९।५२च्द्।
सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः ॥ ॥१,१९।५३अब्।
रुद्रस्यानुचरास्सर्वे सर्वे रुद्रसमप्रभाः ॥ ॥१,१९।५३च्द्।
शूलशक्तिगदाहस्ताष्टङ्कोपलशिलाधराः ॥ ॥१,१९।५४अब्।
कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः ॥ ॥१,१९।५४च्द्।
निपेतुर्भृशमाकाशे शतशस्सिंहवाहनाः ॥ ॥१,१९।५५अब्।
विनेदुश्च महानादाञ्जलदा इव भद्रजाः ॥ ॥१,१९।५५च्द्।
तैर्भद्रैर्भगवान्मद्रस्तथा परिवृतो बभौ ॥ ॥१,१९।५६अब्।
कालानलशतैर्युक्तो यथान्ते कालभैरवः ॥ ॥१,१९।५६च्द्।
तेषां मध्ये समारुह्य वृषेन्द्रं वृषभध्वजः ॥ ॥१,१९।५७अब्।
जगाम भगवान्भद्रश्शुभमभ्रं यथा भवः ॥ ॥१,१९।५७च्द्।
तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः ॥ ॥१,१९।५८अब्।
बभार मौक्तिकं छत्रं गृहीतसितचामरः ॥ ॥१,१९।५८च्द्।
स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः ॥ ॥१,१९।५९अब्।
भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः ॥ ॥१,१९।५९च्द्।
सो ऽपि तेन बभौ भद्रः श्वेतचामरपाणिना ॥ ॥१,१९।६०अब्।
बालसोमेन सौम्येन यथा शूलवरायुधः ॥ ॥१,१९।६०च्द्।
दध्मौ शङ्खं सितं भद्रं भद्रस्य पुरतः शुभम् ॥ ॥१,१९।६१अब्।
भानुकम्पो महातेजा हेमरत्नैरलङ्कृतः ॥ ॥१,१९।६१च्द्।
देवदुन्दुभयो नेदुर्दिव्यसङ्कुलनिःस्वनाः ॥ ॥१,१९।६२अब्।
५२३अ

ववृषुश्शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः ॥ ॥१,१९।६२च्द्।
फुल्लानां मधुगर्भाणां पुष्पाणां गन्धबन्धवः ॥ ॥१,१९।६३अब्।
मार्गानुकूलसंवाहा वबुश्च पथि मारुताः ॥ ॥१,१९।६३च्द्।
ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः ॥ ॥१,१९।६४अब्।
ननृतुर्मुमुदुर् १नेदुर्जहसुर्जगदुर्जगुः ॥ ॥१,१९।६४च्द्।
तदा भद्रगणान्तःस्थो बभौ भद्रः स भद्रया ॥ ॥१,१९।६५अब्।
यथा रुद्रगणान्तः स्थस्त्र्यम्बकोम्बिकया सह ॥ ॥१,१९।६५च्द्।
तत्क्षणादेव दक्षस्य यज्ञवाटं रण्मयम् ॥ ॥१,१९।६६अब्।
प्रविवेश महाबाहुर्वीरभद्रो महानुगः ॥ ॥१,१९।६६च्द्।
ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः ॥ ॥१,१९।६७अब्।
प्रयोगभूमिं प्रविवेश भद्रो रुद्रो यथान्ते भुवनं दिधक्षुः ॥ ॥१,१९।६७च्द्।
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रोत्पत्तिवर्णनं नामैकोनविंशो ऽध्यायः