ऋषय ऊचुः
देवी दक्षस्य तनया त्यक्त्वा दाक्षायणी तनुम् ॥ ॥१,१८।१अब्।
कथं हिमवतः पुत्री मेनायामभवत्पुरा ॥ ॥१,१८।१च्द्।
कथं च निन्दितो रुद्रो दक्षेण च महात्मना ॥ ॥१,१८।२अब्।
निमित्तमपि किं तत्र येन स्यान्निन्दितो भवः ॥ ॥१,१८।२च्द्।
उत्पन्नश्च कथं दक्षो अभिशापाद्भवस्य तु ॥ ॥१,१८।३अब्।
चाक्षुषस्यान्तरे पूर्वं मनोः प्रब्रूहि मारुत ॥ ॥१,१८।३च्द्।
वायुरुवाव
शृण्वन्तु कथयिष्यामि दक्षस्य लघुचेतसः ॥ ॥१,१८।४अब्।
वृत्तं पापात्प्रमादाच्च विश्वामरविदूषणम् ॥ ॥१,१८।४च्द्।
पुरा सुरासुराः सर्वे सिद्धाश्च परमर्षयः ॥ ॥१,१८।५अब्।
कदाचिद्द्रष्टुमीशानं हिमवच्छिखरं ययुः ॥ ॥१,१८।५च्द्।
तदा देवश्च देवी च दिव्यासनगतावुभौ ॥ ॥१,१८।६अब्।
दर्शनं ददतुस्तेषां देवादीनां द्विजोत्तमाः ॥ ॥१,१८।६च्द्।
तदानीमेव दक्षो ऽपि गतस्तत्र सहामरैः ॥ ॥१,१८।७अब्।
जामातरं हरं द्रष्टुं द्रष्टुं चात्मसुतां सतीम् ॥ ॥१,१८।७च्द्।
तदात्मगौरवाद्देवो देव्या दक्षे समागते ॥ ॥१,१८।८अब्।
देवादिभ्यो विशेषेण न कदाचिदभूत्स्मृतिः ॥ ॥१,१८।८च्द्।
तस्य तस्याः परं भावमज्ञातुश्चापि केवलम् ॥ ॥१,१८।९अब्।
पुत्रीत्येवं विमूढस्य तस्यां वैरमजायत ॥ ॥१,१८।९च्द्।
ततस्तेनैव वैरेण विधिना च प्रचोदितः ॥ ॥१,१८।१०अब्।
नाजुवाह भवं दक्षो दीक्षितस्तामपि द्विषन् ॥ ॥१,१८।१०च्द्।
अन्याञ् १जामातरस्सर्वानाहूय स यथाक्रमम् ॥ ॥१,१८।११अब्।
शतशः पुष्कलामर्चाञ्चकार च पृथक्पृथक् ॥ ॥१,१८।११च्द्।
तथा तान्सङ्गताञ्छ्रुत्वा नारदस्य मुखात्तदा ॥ ॥१,१८।१२अब्।
ययौ रुद्राय रुद्राणी विज्ञाप्य भवनं पितुः ॥ ॥१,१८।१२च्द्।
अथ सन्निहितं दिव्यं विमानं विश्वतोमुखम् ॥ ॥१,१८।१३अब्।
लक्षणाढ्यं सुखारोहमतिमात्रमनोहरम् ॥ ॥१,१८।१३च्द्।
तप्तजाम्बूनदप्रख्यं चित्ररत्नपरिष्कृतम् ॥ ॥१,१८।१४अब्।
मुक्तामयवितानाग्न्यं स्रग्दामसमलङ्कृतम् ॥ ॥१,१८।१४च्द्।
तप्तकञ्चननिर्व्यूहं रत्नस्तम्भशतावृतम् ॥ ॥१,१८।१५अब्।
वज्रकल्पितसोपानं विद्रुमस्तम्भतोरणम् ॥ ॥१,१८।१५च्द्।
१ प्रथमान्तः प्रयोग आर्षः
५२०ब्
पुष्पपट्टपरिस्तीर्णं चित्ररत्नमहासनम् ॥ ॥१,१८।१६अब्।
वज्रजालकिरच्छिद्रमच्छिद्रमणिकुट्टिमम् ॥ ॥१,१८।१६च्द्।
मणिदण्डमनोज्ञेन महावृषभलक्ष्मणा ॥ ॥१,१८।१७अब्।
अलङ्कृतपुरोभागमब्भ्रशुब्भ्रेण केतुना ॥ ॥१,१८।१७च्द्।
रत्नकञ्चुकगुप्ताङ्गैश्चित्रवेत्रकपाणिभिः ॥ ॥१,१८।१८अब्।
अधिष्ठितमहाद्वारमप्रधृष्यैर्गुणेश्वरैः ॥ ॥१,१८।१८च्द्।
मृदङ्गतालगीतादिवेणुवीणाविशारदैः ॥ ॥१,१८।१९अब्।
विदग्धवेषभाषैश्च बहुभिः स्त्रीजनैर्वृतम् ॥ ॥१,१८।१९च्द्।
आरुरोह महादेवी सह प्रियसखीजनैः ॥ ॥१,१८।२०अब्।
चामारव्यञ्जनं तस्या वज्रदण्डमनोहरे ॥ ॥१,१८।२०च्द्।
गृहीत्वा रुद्रकन्ये द्वे विवीजतुरुभे शुभे ॥ ॥१,१८।२१अब्।
तदाचामरयोर्मध्ये देव्या वदनमाबभौ ॥ ॥१,१८।२१च्द्।
अन्योन्यं युध्यतोर्मध्ये हंसयोरिव पङ्कजम् ॥ ॥१,१८।२२अब्।
छत्रं शशिनिभं तस्याश्चूडोपरि सुमालिनी ॥ ॥१,१८।२२च्द्।
धृतमुक्तापरिक्षिप्तं बभार प्रेमनिर्भरा ॥ ॥१,१८।२३अब्।
तच्छत्रमुज्ज्वलं देव्या रुरुचे वदनोपरि ॥ ॥१,१८।२३च्द्।
उपर्यमृतभाण्डस्य मण्डलं शशिनो यथा ॥ ॥१,१८।२४अब्।
अथ चाग्रे समासीना सुस्मितास्या शुभावती ॥ ॥१,१८।२४च्द्।
अक्षद्यूतविनोदेन रमयामास वै सतीम् ॥ ॥१,१८।२५अब्।
सुयशाः पादुके देव्याश्शुभे रत्नपरिष्कृते ॥ ॥१,१८।२५च्द्।
स्तनयोरन्तरे कृत्वा तदा देवीमसेवतः ॥ ॥१,१८।२६अब्।
अन्या काञ्चनचार्वङ्गी दीप्तं जग्राह दर्पणम् ॥ ॥१,१८।२६च्द्।
अपरा तालवृन्तं च परा ताम्बूलपेटिकाम् ॥ ॥१,१८।२७अब्।
काचित्क्रीडाशुकं चारु करे ऽकुरुत भामिनी ॥ ॥१,१८।२७च्द्।
काचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च ॥ ॥१,१८।२८अब्।
काचिदाभरणाधारं बभार कमलेक्षणा ॥ ॥१,१८।२८च्द्।
काचिच्च पुनरालेपं सुप्रसूतं शुभाञ्जनम् ॥ ॥१,१८।२९अब्।
अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः ॥ ॥१,१८।२९च्द्।
आवृत्त्या तां महादेवीमसेवन्त समन्ततः ॥ ॥१,१८।३०अब्।
अतीव शुशुभे तासामन्तरे परमेश्वरी ॥ ॥१,१८।३०च्द्।
तारापरिषदो मध्ये चन्द्रलेखेव शारदी ॥ ॥१,१८।३१अब्।
ततः शङ्खसमुत्थस्य नादस्य समनन्तरम् ॥ ॥१,१८।३१च्द्।
प्रास्थानिको महानादः पटहः समताड्यत ॥ ॥१,१८।३२अब्।
ततो मधुरवाद्यानि सह तालोद्यतैस्स्वनैः ॥ ॥१,१८।३२च्द्।
अनाहतानि सन्नेदुः काहलानां शतानि च ॥ ॥१,१८।३३अब्।
सायुधानां गणेशानां महेशसमतेजसाम् ॥ ॥१,१८।३३च्द्।
सहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः ॥ ॥१,१८।३४अब्।
तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः ॥ ॥१,१८।३४च्द्।
जगाम गणपः श्रीमान् सोमनन्दीश्वरार्चितः ॥ ॥१,१८।३५अब्।
देवदुन्दुभयो नेदुर्दिवि दिव्यसुखा घनाः ॥ ॥१,१८।३५च्द्।
ननृतुर्मुनयस्सर्वे मुमुदुः सिद्धयोगिनः ॥ ॥१,१८।३६अब्।
ससृजुः पुष्पवृष्टिं च वितानोपरि वारिदाः ॥ ॥१,१८।३६च्द्।
तदा देवगणैश्चान्यैः पथि सर्वत्र सङ्गता ॥ ॥१,१८।३७अब्।
क्षणादिव पितुर्गेहं प्रविवेश महेश्वरी ॥ ॥१,१८।३७च्द्।
तां दृष्ट्वा कुपितो दक्षश्चात्मनः क्षयकारणात् ॥ ॥१,१८।३८अब्।
तस्या यवीयसीभ्यो ऽपि चक्रे पूजाम सत्कृताम् ॥ ॥१,१८।३८च्द्।
५२१अ
तदा शशिमुखी देवी पितरं सदसि स्थितम् ॥ ॥१,१८।३९अब्।
अम्बिका युक्तमव्यग्रमुवाचाकृपणं वचः ॥ ॥१,१८।३९च्द्।
देव्युवाच
ब्रह्मादयः पिशाचान्ता यस्याज्ञावशवर्तिनः ॥ ॥१,१८।४०अब्।
स देवस्साम्प्रतं तात विधिना नार्चितः किल ॥ ॥१,१८।४०च्द्।
तदास्तां मम ज्यायस्याः पुत्र्याः पूजां किमीदृशीम् ॥ ॥१,१८।४१अब्।
असत्कृतामवज्ञाय कृतवानसि गर्हितम् ॥ ॥१,१८।४१च्द्।
एवमुक्तो ऽब्रवीदेनां दक्षः क्रोधादमर्षितः ॥ ॥१,१८।४२अब्।
त्वत्तः श्रेष्ठा विशिष्टाश्च पूज्या बालाः सुता मम ॥ ॥१,१८।४२च्द्।
तासां तु ये च भर्तारस्ते मे बहुमता मुदा ॥ ॥१,१८।४३अब्।
गुनैश्चाप्यधिकास्सर्वैर्भर्तुस्ते त्र्यम्बकादपि ॥ ॥१,१८।४३च्द्।
स्तब्धात्मा तामसश्शर्वस्त्वमिमं समुपाश्रिता ॥ ॥१,१८।४४अब्।
तेन त्वामवमन्ये ऽहं प्रतिकूलो हि मे भवः ॥ ॥१,१८।४४च्द्।
तथोक्ता पितरं दक्षं क्रुद्धा देवी तमब्रवीत् ॥ ॥१,१८।४५अब्।
शृण्वतामेव सर्वेषां ये यज्ञसदसि स्थिताः ॥ ॥१,१८।४५च्द्।
अकस्मान्मम भर्तारमजाताशेषदूषणम् ॥ ॥१,१८।४६अब्।
वाचा दूषयसे दक्ष साक्षाल्लोकमहेश्वरम् ॥ ॥१,१८।४६च्द्।
विद्याचौरो गुरुद्रोही वेदेश्वरविदूषकः ॥ ॥१,१८।४७अब्।
त एते बहुपाप्मानस्सर्वे दण्ड्या इति श्रुतिः ॥ ॥१,१८।४७च्द्।
तस्मादत्युत्कटस्यास्य पापस्य सदृशो भृशम् ॥ ॥१,१८।४८अब्।
सहसा दारुणो दण्डस्तव दैवाद्भविष्यति ॥ ॥१,१८।४८च्द्।
त्वया न पूजितो यस्माद्देवदेवस्त्रियम्बकः ॥ ॥१,१८।४९अब्।
तस्मात्तव कुलं दुष्टं नष्टमित्यवधारय ॥ ॥१,१८।४९च्द्।
इत्युक्त्वा पितरं रुष्टा सती सन्त्यक्तसाध्वसा ॥ ॥१,१८।५०अब्।
तदीयां च तनुं त्यक्त्वा हिमवन्तं ययौ गिरिम् ॥ ॥१,१८।५०च्द्।
स पर्वतपरः श्रीमांल्लब्धपुण्यफलोदयः ॥ ॥१,१८।५१अब्।
तदर्थमेव कृतवान् सुचिरं दुश्चरं तपः ॥ ॥१,१८।५१च्द्।
तस्मात्तमनुगृह्णाति भूधरेश्वरमीश्वरी ॥ ॥१,१८।५२अब्।
स्वेच्छया पितरं चक्रे स्वात्मनो योगमायया ॥ ॥१,१८।५२च्द्।
यदा गता सती दक्षं विनिन्द्य भयविह्वला ॥ ॥१,१८।५३अब्।
तदा तिरोहिता मन्त्रा विहतश्च ततो ऽध्वरः ॥ ॥१,१८।५३च्द्।
तदुपश्रुत्य गमनं देव्यास्त्रिपुरुमर्दनः ॥ ॥१,१८।५४अब्।
दक्षाय च ऋषिभ्यश्च चुकोप च शशाप तान् ॥ ॥१,१८।५४च्द्।
यस्मादवमता दक्षमत्कृते ऽनागसा सती ॥ ॥१,१८।५५अब्।
पूजिताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ॥ ॥१,१८।५५च्द्।
वैवस्वते ऽन्तरे तस्मात्तव जामातरस्त्वमी ॥ ॥१,१८।५६अब्।
उत्पत्स्यन्ते समं सर्वे ब्रह्मयज्ञेष्वयोनिजाः ॥ ॥१,१८।५६च्द्।
भविता मानुषो राजा चाक्षुषस्य त्वमन्वये ॥ ॥१,१८।५७अब्।
प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ ॥१,१८।५७च्द्।
अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते ॥ ॥१,१८।५८अब्।
धर्मार्थकामयुक्तेषु कर्मस्वपि पुनः पुनः ॥ ॥१,१८।५८च्द्।
तेनैवं व्याहृतो दक्षो रुद्रेणामिततेजसा ॥ ॥१,१८।५९अब्।
स्वायम्भुवीं तनुं त्यक्त्वा पपात भुवि दुःखितः ॥ ॥१,१८।५९च्द्।
ततः प्राचेतसो दक्षो जज्ञे वै चाक्षुषे ऽन्तरे ॥ ॥१,१८।६०अब्।
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम् ॥ ॥१,१८।६०च्द्।
५२१ब्
भृग्वादयो ऽपि जाता वै मनोर्वैवस्वतस्य तु ॥ ॥१,१८।६१अब्।
अन्तरे ब्रह्मणो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ ॥१,१८।६१च्द्।
तदा दक्षस्य धर्मार्थं यज्ञे तस्य दुरात्मनः ॥ ॥१,१८।६२अब्।
महेशः कृतवान्विघ्नं मना ववस्वते सति ॥ ॥१,१८।६२च्द्।
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सतीदेहत्यागो नामाष्टादशो ऽध्यायः