१७ सृष्टिकथनम्

वायुरुवाच
एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् ॥ ॥१,१७।१अब्।
मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः ॥ ॥१,१७।१च्द्।
स्वयमप्यद्भुतो नारी चार्धेन पुरुषो ऽभवत् ॥ ॥१,१७।२अब्।
यार्धेन नारी सा तस्माच्छतरूपा व्यजायत ॥ ॥१,१७।२च्द्।
विराजमसृजद्ब्रह्मा सो ऽर्धन पुरुषो ऽभवत् ॥ ॥१,१७।३अब्।
स वै स्वायम्भुवः पूर्वं पुरुषो मनुरुच्यते ॥ ॥१,१७।३च्द्।
सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् ॥ ॥१,१७।४अब्।
भर्तारं दीप्तयशसं मनुमेवान्वपद्यत ॥ ॥१,१७।४च्द्।
तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत ॥ ॥१,१७।५अब्।
प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ॥ ॥१,१७।५च्द्।
कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः ॥ ॥१,१७।६अब्।
आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता ॥ ॥१,१७।६च्द्।
स्वायम्भुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः ॥ ॥१,१७।७अब्।
रुचेः प्रजापतिश्चैव चाकूतिं समपादयत् ॥ ॥१,१७।७च्द्।
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ॥ ॥१,१७।८अब्।
यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत् ॥ ॥१,१७।८च्द्।
स्वायम्भुवसुतायां तु प्रसूत्यां लोकमातरः १ ॥ ॥१,१७।९अब्।
चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः ॥ ॥१,१७।९च्द्।
श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा ॥ ॥१,१७।१०अब्।
बुद्धिर्लज्जा वपुः शान्तिस्सिद्धिः कीर्तिस्त्रयोदशी ॥ ॥१,१७।१०च्द्।
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥ ॥१,१७।११अब्।
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ ॥१,१७।११च्द्।
ख्यातिः सत्यर्थसम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ ॥१,१७।१२अब्।
सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ ॥१,१७।१२च्द्।
भृगुश्शर्वो मरीचिश्च अङ्गिराः पुलहः क्रतुः ॥ ॥१,१७।१३अब्।
पुलस्त्यो ऽत्रिर्विशिष्ठश्च पावकः पितरस्तथा ॥ ॥१,१७।१३च्द्।
ख्यात्याद्या जगृहुः कन्यामुनयो मुनिसत्तमाः ॥ ॥१,१७।१४अब्।
कामाद्यास्तु यशोन्ता ये ते त्रयोदश सूनवः ॥ ॥१,१७।१४च्द्।
धर्मस्य जज्ञिरे तास्तु श्रद्धाद्यास्सुसुखोत्तराः ॥ ॥१,१७।१५अब्।
दुःखोत्तराश्च हिंसायामधर्मस्य च सन्ततौ ॥ ॥१,१७।१५च्द्।
निकृत्यादय उत्पन्नाःपुत्राश्च धर्मलक्षणाः ॥ ॥१,१७।१६अब्।
नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः ॥ ॥१,१७।१६च्द्।
स एष तामसस्सर्गो जज्ञे धर्मनियामकः ॥ ॥१,१७।१७अब्।
या सा दक्षस्य दुहिता रुद्रस्य दयिता सती ॥ ॥१,१७।१७च्द्।
भर्तृनिन्दाप्रसङ्गेन त्यक्त्वा दाक्षायिणीं तनुम् ॥ ॥१,१७।१८अब्।
दक्षं च दक्षभार्यां च विनिन्द्य सह बन्धुभिः ॥ ॥१,१७।१८च्द्।
सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः ॥ ॥१,१७।१९अब्।

१ प्रथमार्षी

५१९अ

रुद्रस्तु तां सतीं दृष्ट्वा रुद्रांस्त्वात्मसमप्रभान् ॥ ॥१,१७।१९च्द्।
यथासृजदसङ्ख्यातांस्तथा कथितमेव च ॥ ॥१,१७।२०अब्।
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ॥ ॥१,१७।२०च्द्।
देवौ धातृविधातारौ मन्वन्तरविधारिणौ ॥ ॥१,१७।२१अब्।
तयोर्वै पुत्रपौत्राद्याश्शतशो ऽथ सहस्रशः ॥ ॥१,१७।२१च्द्।
स्वायम्भुवे ऽन्तरे नीताः सर्वे ते भार्गवा मताः ॥ ॥१,१७।२२अब्।
मरीचेरपि सम्भूतिः पौर्णमासमसूयत ॥ ॥१,१७।२२च्द्।
कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः ॥ ॥१,१७।२३अब्।
येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः ॥ ॥१,१७।२३च्द्।
स्मृतिश्चाङ्गिरसः पत्नी जनयामास वै सुतौ ॥ ॥१,१७।२४अब्।
आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम् ॥ ॥१,१७।२४च्द्।
तदीयाः पुत्रपौत्राश्च येतीतास्ते सहस्रशः ॥ ॥१,१७।२५अब्।
प्रीत्यां पुलस्त्यभार्यायां दन्तोग्निरभवत्सुतः ॥ ॥१,१७।२५च्द्।
पूर्वजन्मनि योगस्त्यस्स्मृतः स्वायम्भुवे ऽन्तरे ॥ ॥१,१७।२५एफ़्।
तत्सन्ततीया बहवः पौलस्त्या इति विश्रुताः ॥ ॥१,१७।२६अब्।
क्षमा तु सुषुवे पुत्रान्पुलहस्य प्रजापतेः ॥ ॥१,१७।२६च्द्।
कर्दमश्च सुरिश्चैव सहिष्णुश्चेति ते त्रयः ॥ ॥१,१७।२७अब्।
त्रेताग्निवर्चसस्सर्वे येषां वंशः प्रतिष्ठितः ॥ ॥१,१७।२७च्द्।
क्रतोः क्रतुसमान्भार्या सन्नतिस्सुषुवे सुतान् ॥ ॥१,१७।२८अब्।
नैषां भार्याश्च पुत्राश्च सर्वे ते ह्यूर्ध्वरेतसः ॥ ॥१,१७।२८च्द्।
षष्टिस्तानि सहस्राणि वालखिल्या इति स्मृताः ॥ ॥१,१७।२९अब्।
अनूरोरग्रतो यान्ति परिवार्य दिवाकरम् ॥ ॥१,१७।२९च्द्।
अत्रेर्भार्यानुसूया च पञ्चात्रेयानसूयत ॥ ॥१,१७।३०अब्।
कन्यकां च श्रुतिं नाम माता शङ्खपदस्य च ॥ ॥१,१७।३०च्द्।
सत्यनेत्रश्च हव्यश्च आपोमूर्तिश्शनैश्चरः ॥ ॥१,१७।३१अब्।
सोमश्च पञ्चमस्त्वेते पञ्चात्रेयाः प्रकीर्तिताः ॥ ॥१,१७।३१च्द्।
तेषां पुत्राश्च पौत्राश्च ह्यात्रेयाणां महात्मनाम् ॥ ॥१,१७।३२अब्।
स्वायम्भुवे ऽन्तरे ऽतीताः शतशो ऽथ सहस्रशः ॥ ॥१,१७।३२च्द्।
ऊर्जायां तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे ॥ ॥१,१७।३३अब्।
ज्यायसी च स्वसा तेषां पुण्डरीका सुमध्यमा ॥ ॥१,१७।३३च्द्।
रजो गात्रोर्ध्वबाहू च सवनश्चानयश्च यः ॥ ॥१,१७।३४अब्।
सुतपाश्शुक्र इत्येते सप्त सप्तर्षयः स्मृताः ॥ ॥१,१७।३४च्द्।
गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ॥ ॥१,१७।३५अब्।
स्वायम्भुवे ऽन्तरे ऽतीतान्यर्बुदानि शतानि च ॥ ॥१,१७।३५च्द्।
इत्येष ऋषिसर्गस्तु सानुबन्धः प्रकीर्तितः ॥ ॥१,१७।३६अब्।
समासाद्विस्तराद्वक्तुमशक्यो ऽयमिति द्विजाः ॥ ॥१,१७।३६च्द्।
यो ऽसौ रुद्रात्मको बह्निब्रह्मणो मानसस्सुतः ॥ ॥१,१७।३७अब्।
स्वाहा तस्य प्रिया लेभे पुत्रांस्त्रीनमितौजसः ॥ ॥१,१७।३७च्द्।
पावकः पवमानश्च शुचिरित्येष ते त्रयः ॥ ॥१,१७।३८अब्।
निर्मन्थ्यः पवमानस्स्याद्वैद्युतः पावकस्स्मृतः ॥ ॥१,१७।३८च्द्।
सूर्ये तपति यश्चासौ शुचिः सौर उदाहृतः ॥ ॥१,१७।३९अब्।
हव्यवाहः कव्यवाहः सहरक्षा इति त्रयः ॥ ॥१,१७।३९च्द्।
त्रयाणां क्रमशः पुत्रा देवपितृसुराश्च ते ॥ ॥१,१७।४०अब्।
५१९ब्

एतेषां पुत्रपौत्राश्च चत्वारिंशन्नवैव ते ॥ ॥१,१७।४०च्द्।
काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः ॥ ॥१,१७।४१अब्।
सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा ॥ ॥१,१७।४१च्द्।
सर्वे रुद्रात्मकश्चैव सर्वे रुद्रपरायणाः ॥ ॥१,१७।४२अब्।
तस्मादग्निमुखे यत्तद्धुतं स्यादेव केनचित् ॥ ॥१,१७।४२च्द्।
तत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः ॥ ॥१,१७।४३अब्।
इत्येवं निश्चयोग्नीनामनुक्रान्तो यथातथम् ॥ ॥१,१७।४३च्द्।
नातिविस्तरतो विप्राः पित्ःन्वक्ष्याम्यतः परम् ॥ ॥१,१७।४४अब्।
यस्मात्षडृतवस्तेषां स्थानं स्थानाभिमानिनाम् ॥ ॥१,१७।४४च्द्।
ऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः ॥ ॥१,१७।४५अब्।
युष्मादृतुषु सर्वे हि जायन्ते स्थास्नुजङ्गमा ॥ ॥१,१७।४५च्द्।
तस्मादेते पितर आर्तवा इति च श्रुतम् ॥ ॥१,१७।४६अब्।
एवं पित्ःणामेतेषामृतुकालाभिमानिनाम् ॥ ॥१,१७।४६च्द्।
आत्मैश्वर्या महात्मानस्तिष्ठन्तीहाब्भ्रसङ्गमात् ॥ ॥१,१७।४७अब्।
आग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः ॥ ॥१,१७।४७च्द्।
अयज्वानश्च यज्वानः क्रमात्ते मृहमेधिनः ॥ ॥१,१७।४८अब्।
स्वधासूत पितृभ्यश्च द्वे कन्ये लोकविश्रुते ॥ ॥१,१७।४८च्द्।
मेनां च धरणीं चैव याभ्यां विश्वमिदं धृतम् ॥ ॥१,१७।४९अब्।
अग्निष्वात्तसुता मेना धरणी बर्हिषत्सुता ॥ ॥१,१७।४९च्द्।
मेना हिमवतः पत्नी मैनाकं क्रौञ्चमेव च ॥ ॥१,१७।५०अब्।
गौरीं गङ्गां च सुषुवे भवाङ्गाश्लेषपावनीम् ॥ ॥१,१७।५०च्द्।
मेरोस्तु धरणी पत्नी दिव्यौषधिसमन्वितम् ॥ ॥१,१७।५१अब्।
मन्दरं सुषुवे पुत्रं चित्रिसुन्दरकन्धरम् ॥ ॥१,१७।५१च्द्।
स एव मन्दरः श्रीमान्मेरुपुत्रस्तपोबलात् ॥ ॥१,१७।५२अब्।
साक्षाच्छ्रीकण्ठनाथस्य शिवस्यावसथं गतः ॥ ॥१,१७।५२च्द्।
सासूता धरणी भूयस्त्रिंशत्कन्याश्च विश्रुताः ॥ ॥१,१७।५३अब्।
वेलां च नियतिं चैव तृतीयामपि चायतिम् ॥ ॥१,१७।५३च्द्।
आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः ॥ ॥१,१७।५४अब्।
स्वायम्भुवे ऽन्तरे पूर्वं कथितस्ते तदन्वयः ॥ ॥१,१७।५४च्द्।
सुषुवे सागराद्वेला कन्यामेकामनिन्दिताम् ॥ ॥१,१७।५५अब्।
सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः ॥ ॥१,१७।५५च्द्।
सामुद्री सुषुवे पुत्रान्दश प्राचीनबर्हिषः ॥ ॥१,१७।५६अब्।
सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ॥ ॥१,१७।५६च्द्।
येषां स्वायम्भुवे दक्षः पुत्रत्वमगमत्पुरा ॥ ॥१,१७।५७अब्।
त्रियम्बकस्य शापेन चाक्षुषस्यान्तरे मनोः ॥ ॥१,१७।५७च्द्।
इत्येते ब्रह्मपुत्राणां धर्मादीनाम्महात्मनाम् ॥ ॥१,१७।५८अब्।
नातिसङ्क्षेपतो विप्रा नाति विस्तरतः क्रमात् ॥ ॥१,१७।५८च्द्।
वर्णिता वै मया वंशा दिव्या देवगणान्विताः ॥ ॥१,१७।५९अब्।
क्रियावन्तः प्रजावन्तो महर्धिभिरलङ्कृताः ॥ ॥१,१७।५९च्द्।
प्रजानां सन्निवेशो ऽयं प्रजापतिसमुद्भवः ॥ ॥१,१७।६०अब्।
न हि शक्यः प्रसङ्ख्यातुं वर्षकोटिशतैरपि ॥ ॥१,१७।६०च्द्।
राज्ञामपि च यो वंशो द्विधा सो ऽपि प्रवर्तते ॥ ॥१,१७।६१अब्।
सूर्यवंशस्सोमवम्श इति पुण्यतमः क्षितौ ॥ ॥१,१७।६१च्द्।
५२०अ

इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः ॥ ॥१,१७।६२अब्।
पुण्यश्लोकाः श्रुता ये ऽत्र ते पि तद्वंशसम्भवाः ॥ ॥१,१७।६२च्द्।
अन्ये च राजऋषयो नानावीर्यसमन्विता ॥ ॥१,१७।६३अब्।
किं तैः फलमनुत्क्रान्तैरुक्तपूर्वैः पुरातनैः ॥ ॥१,१७।६३च्द्।
किं चेश्वरकथा वृत्ता यत्र तत्रान्यकीर्तनम् ॥ ॥१,१७।६४अब्।
न सद्भिः सम्मतं मत्वा नोत्सहे बहुभाषितुम् ॥ ॥१,१७।६४च्द्।
प्रसङ्गादीश्वरस्यैव प्रभावद्योतनादपि ॥ ॥१,१७।६५अब्।
सर्गादयो ऽपि कथिता इत्यत्र तत्प्रविस्तरैः ॥ ॥१,१७।६५च्द्।

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशो ऽध्यायः