१४ रुद्राविर्भाववर्णनम्

वायुरुवाच
प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् ॥ ॥१,१४।१अब्।
यतो विच्छिन्नसन्ताना ब्रह्मसृष्टिः प्रवर्तते ॥ ॥१,१४।१च्द्।
कल्पेकल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्माण्डसम्भवः ॥ ॥१,१४।२अब्।
अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः ॥ ॥१,१४।२च्द्।
तस्य दुःखप्रशान्त्यर्थं प्रजानां च विवृद्धये ॥ ॥१,१४।३अब्।
तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः ॥ ॥१,१४।३च्द्।
निर्दिष्टः पममेशेन महेशो नीललोहितः ॥ ॥१,१४।४अब्।
पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोनुजः ॥ ॥१,१४।४च्द्।
स एव भगवानीशस्तेजोराशिरनामयः ॥ ॥१,१४।५अब्।
अनादिनिधनोधाता भूतसङ्कोचको विभुः ॥ ॥१,१४।५च्द्।
परमैश्वर्यसंयुक्तः परमेश्वरभावितः ॥ ॥१,१४।६अब्।
तच्छक्त्याधिष्ठितश्शश्वत्तच्चिह्नैरपि चिह्नितः ॥ ॥१,१४।६च्द्।
तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः ॥ ॥१,१४।७अब्।
तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः ॥ ॥१,१४।७च्द्।
सहस्रादित्यसङ्काशश्चन्द्रावयवभूषणः ॥ ॥१,१४।८अब्।
भुजङ्गहारकेयूरवलयो मुञ्जमेखलः ॥ ॥१,१४।८च्द्।
जलन्धरविरिञ्चेन्द्रकपालशकलोज्ज्वलः ॥ ॥१,१४।९अब्।
गङ्गातुङ्गतरङ्गार्धपिङ्गलाननमूर्धजः ॥ ॥१,१४।९च्द्।
भग्नदंष्ट्राङ्कुराक्रान्तप्रान्तकान्तधराधरः ॥ ॥१,१४।१०अब्।
सव्यश्रवणपार्श्वान्तमण्डलीकृतकुण्डलः ॥ ॥१,१४।१०च्द्।
महावृषभनिर्याणो महाजलदनिःस्वनः ॥ ॥१,१४।११अब्।
महानलसमप्रख्यो महाबलपराक्रमः ॥ ॥१,१४।११च्द्।
एवं घोरमहारूपो ब्रह्मपुत्रीं महेश्वरः ॥ ॥१,१४।१२अब्।
विज्ञानं ब्रह्मणे दत्त्वा सर्गे सहकरोति च ॥ ॥१,१४।१२च्द्।
तस्माद्रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः ॥ ॥१,१४।१३अब्।
प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते ॥ ॥१,१४।१३च्द्।
कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः ॥ ॥१,१४।१४अब्।
स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः ॥ ॥१,१४।१४च्द्।
कपर्दिनो निरातङ्कान्नीलग्रीवांस्त्रिलोचनान् ॥ ॥१,१४।१५अब्।
जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान् ॥ ॥१,१४।१५च्द्।
तैस्तु सञ्च्छादितं सर्वं चतुर्दशविधं जगत् ॥ ॥१,१४।१६अब्।
तान्दृष्टा विविधान्रुद्रान् रुद्रमाह पितामहः ॥ ॥१,१४।१६च्द्।
नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः ॥ ॥१,१४।१७अब्।
अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः ॥ ॥१,१४।१७च्द्।
इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः ॥ ॥१,१४।१८अब्।
नास्ति मे तादृशस्सर्गस्सृज त्वमशुभाः प्रजाः ॥ ॥१,१४।१८च्द्।
ये त्विमे मनसा सृष्टा महात्मानो महाबलाः ॥ ॥१,१४।१९अब्।
चरिष्यन्ति मया सार्धं सर्व एव हि याज्ञिकाः ॥ ॥१,१४।१९च्द्।
इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः ॥ ॥१,१४।२०अब्।
सह रुद्रैः प्रजासर्गान्निवृत्तात्मा व्यतिष्ठत ॥ ॥१,१४।२०च्द्।
ततः प्रभृति देवो ऽसौ न प्रसूते प्रजाः शुभाः ॥ ॥१,१४।२१अब्।
५१७अ

ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसम्प्लवम् ॥ ॥१,१४।२१च्द्।

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे रुद्राविर्भाववर्णनं नाम चतुर्दशो ऽध्यायः