१३ ब्रह्मविष्णुसृष्टिकथनम्

ऋषय ऊचुः
भवता कथिता सृष्टिर्भवस्य परमात्मनः ॥ ॥१,१३।१अब्।
चतुर्मुखमुखात्तस्य संशयो नः प्रजायते ॥ ॥१,१३।१च्द्।
देवश्रेष्ठो विरूपाक्षो दीप्तश्शूलधरो हरः ॥ ॥१,१३।२अब्।
कालात्मा भगवान् रुद्रः कपर्दी नीललोहितः ॥ ॥१,१३।२च्द्।
सब्रह्मकमिमं लोकं सविष्णुमपि पावकम् ॥ ॥१,१३।३अब्।
५१५ब्

यः संहरति सङ्क्रुद्धो युगान्ते समुपस्थिते ॥ ॥१,१३।३च्द्।
यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात् ॥ ॥१,१३।४अब्।
लोकसङ्कोचकस्यास्य यस्य तौ वशवर्तिनौ ॥ ॥१,१३।४च्द्।
यो ऽयं देवः स्वकादङ्गाद्ब्रह्मविष्णू पुरासृजत् ॥ ॥१,१३।५अब्।
स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः ॥ ॥१,१३।५च्द्।
स कथं भगवान् रुद्र आदिदेवः पुरातनः ॥ ॥१,१३।६अब्।
पुत्रत्वमगमच्छम्भुर्ब्रह्मणो ऽव्यक्तजन्मनः ॥ ॥१,१३।६च्द्।
प्रजापतिश्च विष्णुश्च रुद्रस्यैतौ परस्परम् ॥ ॥१,१३।७अब्।
सृष्टौ परस्परस्याङ्गादिति प्रागपि शुश्रुम ॥ ॥१,१३।७च्द्।
कथं पुनरशेषाणां भूतानां हेतुभूतयोः ॥ ॥१,१३।८अब्।
गुणप्रधानभावेन प्रादुर्भावः परस्परात् ॥ ॥१,१३।८च्द्।
नापृष्टं भवता किञ्चिन्नाश्रुतं च कथञ्चन ॥ ॥१,१३।९अब्।
भगवच्छिष्यभूतेन भवता सकलं स्मृतम् ॥ ॥१,१३।९च्द्।
तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः ॥ ॥१,१३।१०अब्।
वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः ॥ ॥१,१३।१०च्द्।
वायुरुवाच
स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः ॥ ॥१,१३।११अब्।
इदमेव पुरा पृष्टो मम प्राह पितामहः ॥ ॥१,१३।११च्द्।
तदहं सम्प्रवक्ष्यामि यथा रुद्रसमुद्भवः ॥ ॥१,१३।१२अब्।
यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम् ॥ ॥१,१३।१२च्द्।
त्रयस्ते कारणात्मानो जतास्साक्षान्महेश्वरात् ॥ ॥१,१३।१३अब्।
चराचरस्य विश्वस्य सर्गस्थित्यन्तहेतवः ॥ ॥१,१३।१३च्द्।
परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः ॥ ॥१,१३।१४अब्।
तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः ॥ ॥१,१३।१४च्द्।
पित्रा नियमिताः पूर्वं त्रयोपि त्रिषु कर्मसु ॥ ॥१,१३।१५अब्।
ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे तथा ॥ ॥१,१३।१५च्द्।
तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयाशिनः ॥ ॥१,१३।१६अब्।
तपसा तोषयित्वा स्वं पितरं परमेश्वरम् ॥ ॥१,१३।१६च्द्।
लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः ॥ ॥१,१३।१७अब्।
ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरे ऽसृजत् ॥ ॥१,१३।१७च्द्।
कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः ॥ ॥१,१३।१८अब्।
विष्णुश्च भगवान्रुद्रं ब्रह्माणमसृजत्पुनः ॥ ॥१,१३।१८च्द्।
नारायणं पुनर्ब्रह्मा ब्रह्माणमसृजत्पुनः ॥ ॥१,१३।१९अब्।
एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ॥ ॥१,१३।१९च्द्।
परस्परेण जायन्ते परस्परहितैषिणः ॥ ॥१,१३।२०अब्।
तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ॥ ॥१,१३।२०च्द्।
प्रभावः कथ्यते तेषां परस्परसमुद्भवात् ॥ ॥१,१३।२१अब्।
शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम् ॥ ॥१,१३।२१च्द्।
कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः ॥ ॥१,१३।२२अब्।
पुरा नारायणो नाम कल्पे वै मेघवाहने ॥ ॥१,१३।२२च्द्।
दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् ॥ ॥१,१३।२३अब्।
तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः ॥ ॥१,१३।२३च्द्।
सर्वस्सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् ॥ ॥१,१३।२४अब्।
शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा ॥ ॥१,१३।२४च्द्।
ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह ॥ ॥१,१३।२५अब्।
५१६अ

विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः ॥ ॥१,१३।२५च्द्।
ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् ॥ ॥१,१३।२६अब्।
गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् ॥ ॥१,१३।२६च्द्।
आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः ॥ ॥१,१३।२६एफ़्।
तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः ॥ ॥१,१३।२७अब्।
स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः ॥ ॥१,१३।२७च्द्।
अहं च तपसाराध्य रुद्रं त्रिदशनायकम् ॥ ॥१,१३।२८अब्।
त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः ॥ ॥१,१३।२८च्द्।
एवं विष्णुमुपालभ्य भगवानब्जसम्भवः ॥ ॥१,१३।२९अब्।
एवं विज्ञापयामास तपसा प्राप्य शङ्करम् ॥ ॥१,१३।२९च्द्।
भगवन् देवदेवेश विश्वेश्वर महेश्वर ॥ ॥१,१३।३०अब्।
तव वामाङ्गजो विष्णुर्दक्षिणाङ्गभवो ह्यहम् ॥ ॥१,१३।३०च्द्।
मया सह जगत्सर्वं तथाप्यसृजदच्युतः ॥ ॥१,१३।३१अब्।
स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया ॥ ॥१,१३।३१च्द्।
मद्भावान्नाधिकस्तेति भावस्त्वयि महेश्वरे ॥ ॥१,१३।३२अब्।
त्वत्त एव समुत्पत्तिरावयोस्सदृशी यतः ॥ ॥१,१३।३२च्द्।
तस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि ॥ ॥१,१३।३३अब्।
तथा ममापि तत्सर्वं दातुमर्हसि शङ्कर ॥ ॥१,१३।३३च्द्।
इति विज्ञापितस्तेन भगवान् भगनेत्रहा ॥ ॥१,१३।३४अब्।
न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः ॥ ॥१,१३।३४च्द्।
लब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् ॥ ॥१,१३।३५अब्।
त्वरमाणोथ सङ्गम्य ददर्श पुरुषोत्तमम् ॥ ॥१,१३।३५च्द्।
क्षीरार्णवालये शुभ्रे विमाने सूर्यसन्निभे ॥ ॥१,१३।३६अब्।
हेमरत्नान्विते दिव्ये मनसा तेन निर्मिते ॥ ॥१,१३।३६च्द्।
अनन्तभोगशय्यायां शयानं पङ्कजेक्षणम् ॥ ॥१,१३।३७अब्।
चतुर्भुजमुदाराङ्गं सर्वाभरणभूषितम् ॥ ॥१,१३।३७च्द्।
शङ्खचक्रधरं सौम्यं चन्द्रबिम्बसमाननम् ॥ ॥१,१३।३८अब्।
श्रीवत्सवक्षसं देवं प्रसन्नमधुरस्मितम् ॥ ॥१,१३।३८च्द्।
धरामृदुकराम्भोजस्पर्शरक्तपदाम्बुजम् ॥ ॥१,१३।३९अब्।
क्षीरार्णवामृतमिव शयानं योगनिद्रया ॥ ॥१,१३।३९च्द्।
तमसा कालरुद्राख्यं रजसा कनकाण्डजम् ॥ ॥१,१३।४०अब्।
सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥ ॥१,१३।४०च्द्।
तं दृष्ट्वा पुरुषं ब्रह्मा प्रगल्भमिदमब्रवीत् ॥ ॥१,१३।४१अब्।
ग्रसामि त्वामहं विष्णो त्वमात्मानं यथा पुरा ॥ ॥१,१३।४१च्द्।
तस्य तद्वचनं श्रुत्वा प्रतिबुद्ध्य पितामहम् ॥ ॥१,१३।४२अब्।
उदैक्षत महाबाहुस्स्मितमीषच्चकार च ॥ ॥१,१३।४२च्द्।
तस्मिन्नवसरे विष्णुर्ग्रस्तस्तेन महात्मना ॥ ॥१,१३।४३अब्।
सृष्टश्च ब्रह्मणा सद्यो भ्रुवोर्मध्यादयत्नतः ॥ ॥१,१३।४३च्द्।
तस्मिन्नवसरे साक्षाद्भगवानिन्दुभूषणः ॥ ॥१,१३।४४अब्।
शक्तिं तयोरपि द्रष्टुमरूपो रूपमास्थितः ॥ ॥१,१३।४४च्द्।
प्रसादमतुलं कर्तुं पुरा दत्तवरस्तयोः ॥ ॥१,१३।४५अब्।
आगच्छत्तत्र यत्रेमौ ब्रह्मनारायणौ स्थितौ ॥ ॥१,१३।४५च्द्।
अथ तुष्टुवतुर्देवं प्रीतौ भीतौ च कौतुकात् ॥ ॥१,१३।४६अब्।
प्रणेमतुश्च बहुशो बहुमानेन दूरतः ॥ ॥१,१३।४६च्द्।
५१६ब्

भवोपि भगवानेतावनुगृह्य पिनाकधृक् ॥ ॥१,१३।४७अब्।
सादरं पश्यतोरेव तयोरन्तरधीयत ॥ ॥१,१३।४७च्द्।

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं नाम त्रयोदशो ऽध्यायः