वायुरुवाच
सर्गं चिन्तयतस्तस्य तदा वै बुद्धिपूर्वकम् ॥ ॥१,१२।१अब्।
प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः ॥ ॥१,१२।१च्द्।
तमोमोहो महामोहस्तामिस्रश्चान्धसञ्ज्ञितः ॥ ॥१,१२।२अब्।
अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः ॥ ॥१,१२।२च्द्।
पञ्चधा ऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः ॥ ॥१,१२।३अब्।
सर्वतस्तमसातीव बीजकुम्भवदावृतः ॥ ॥१,१२।३च्द्।
बहिरन्तश्चाप्रकाशः स्तब्धो निःसञ्ज्ञ एव च ॥ ॥१,१२।४अब्।
तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च ॥ ॥१,१२।४च्द्।
तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ॥ ॥१,१२।५अब्।
तं दृष्ट्वा ऽसाधकं ब्रह्मा प्रथमं सर्गमीदृशम् ॥ ॥१,१२।५च्द्।
अप्रसन्नमना भूत्वा द्वितीयं सो ऽभ्यमन्यत ॥ ॥१,१२।६अब्।
तस्याभिधायतः सर्गं तिर्यक्स्रोतो ऽभ्यवर्तत ॥ ॥१,१२।६च्द्।
अन्तःप्रकाशास्तिर्यञ्च आवृताश्च बहिः पुनः ॥ ॥१,१२।७अब्।
पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते ॥ ॥१,१२।७च्द्।
तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत ॥ ॥१,१२।८अब्।
तदोर्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः ॥ ॥१,१२।८च्द्।
ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः ॥ ॥१,१२।९अब्।
प्रकाशा बहिरन्तश्चस्वभावादेव सञ्ज्ञिताः ॥ ॥१,१२।९च्द्।
ततो ऽभिध्यायतोव्यक्तादर्वाक्स्रोतस्तु साधकः ॥ ॥१,१२।१०अब्।
मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः ॥ ॥१,१२।१०च्द्।
प्रकाशाबहिरन्तस्ते तमोद्रिक्ता रजो ऽधिकाः ॥ ॥१,१२।११अब्।
पञ्चमोनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः ॥ ॥१,१२।११च्द्।
विपर्ययेण शक्त्या च तुष्ट्यासिद्ध्या तथैव च ॥ ॥१,१२।१२अब्।
ते ऽपरिग्राहिणः सर्वे संविभागरताः पुनः ॥ ॥१,१२।१२च्द्।
खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ॥ ॥१,१२।१३अब्।
प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः ॥ ॥१,१२।१३च्द्।
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ॥ ॥१,१२।१४अब्।
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥ ॥१,१२।१४च्द्।
इत्येष प्रकृतेः सर्गः सम्भृतो ऽबुद्धिपूर्वकः ॥ ॥१,१२।१५अब्।
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥ ॥१,१२।१५च्द्।
तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः ॥ ॥१,१२।१६अब्।
तदूर्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः ॥ ॥१,१२।१६च्द्।
ततो ऽर्वाक् स्रोतसां सर्गः सप्तमः स तु मानुषः ॥ ॥१,१२।१७अब्।
अष्टमो ऽनुग्रहः सर्गः कौमारो नवमः स्मृतः ॥ ॥१,१२।१७च्द्।
प्राकृताश्च त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः ॥ ॥१,१२।१८अब्।
५१४अ
बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्याः पञ्च वैकृताः ॥ ॥१,१२।१८च्द्।
अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥ ॥१,१२।१९अब्।
सनन्दं सनकञ्चैव विद्वांसञ्च सनातनम् ॥ ॥१,१२।१९च्द्।
ऋभुं सनत्कुमारञ्च पूर्वमेव प्रजापतिः ॥ ॥१,१२।२०अब्।
सर्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः ॥ ॥१,१२।२०च्द्।
इश्वरासक्तमनसो न चक्रुः सृष्टये मतिम् ॥ ॥१,१२।२१अब्।
तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु ॥ ॥१,१२।२१च्द्।
स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः ॥ ॥१,१२।२२अब्।
तस्यैवं तप्यमानस्य न किञ्चित्समवर्तत ॥ ॥१,१२।२२च्द्।
ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत ॥ ॥१,१२।२३अब्।
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ ॥१,१२।२३च्द्।
ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ॥ ॥१,१२।२४अब्।
सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिन्दत ॥ ॥१,१२।२४च्द्।
तस्य तीव्रा ऽभवन्मूर्छा क्रोधामर्षसमुद्भवा ॥ ॥१,१२।२५अब्।
मूर्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः ॥ ॥१,१२।२५च्द्।
ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः ॥ ॥१,१२।२६अब्।
प्रसादमतुलं कर्तुं प्रादुरासीत्प्रभोर्मुखात् ॥ ॥१,१२।२६च्द्।
दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ॥ ॥१,१२।२७अब्।
ते तेनोक्ता महात्मानो दशधा चैकधा कृताः ॥ ॥१,१२।२७च्द्।
यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् ॥ ॥१,१२।२८अब्।
तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च ॥ ॥१,१२।२८च्द्।
प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः ॥ ॥१,१२।२९अब्।
एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः ॥ ॥१,१२।२९च्द्।
रोदनाद्द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ॥ ॥१,१२।३०अब्।
ये रुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः ॥ ॥१,१२।३०च्द्।
ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः ॥ ॥१,१२।३१अब्।
घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः ॥ ॥१,१२।३१च्द्।
प्रहृष्टवदनो रुद्रः प्राणप्रत्यागमाद्विभोः ॥ ॥१,१२।३२अब्।
अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः ॥ ॥१,१२।३२च्द्।
माभैर्माभैर्महाभाग विरिञ्च जगतां गुरो ॥ ॥१,१२।३३अब्।
मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत ॥ ॥१,१२।३३च्द्।
स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम् ॥ ॥१,१२।३४अब्।
हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः ॥ ॥१,१२।३४च्द्।
तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा ॥ ॥१,१२।३५अब्।
उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः ॥ ॥१,१२।३५च्द्।
त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः ॥ ॥१,१२।३६अब्।
को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः ॥ ॥१,१२।३६च्द्।
तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः ॥ ॥१,१२।३७अब्।
स्पृशन् काराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः ॥ ॥१,१२।३७च्द्।
मां विद्धि परमात्मानं तव पुत्रत्वमागतम् ॥ ॥१,१२।३८अब्।
एते चैकादश रुद्रास्त्वां सुरक्षितुमागताः ॥ ॥१,१२।३८च्द्।
तस्मात्तीव्रामिमाम्मूर्छां विधूय मदनुग्रहात् ॥ ॥१,१२।३९अब्।
प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि ॥ ॥१,१२।३९च्द्।
५१४ब्
एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत् ॥ ॥१,१२।४०अब्।
नानाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम् ॥ ॥१,१२।४०च्द्।
ब्रह्मोवाच
नमस्ते भगवन् रुद्र भास्करामिततेजसे ॥ ॥१,१२।४१अब्।
नमो भवाय देवाय रसायाम्बुमयात्मने ॥ ॥१,१२।४१च्द्।
शर्वाय क्षितिरूपाय नन्दीसुरभये नमः ॥ ॥१,१२।४१एफ़्।
ईशाय वसवे तुभ्यं नमस्स्पर्शमयात्मने ॥ ॥१,१२।४२अब्।
पशूनां पतये चैव पावकायातितेजसे ॥ ॥१,१२।४२च्द्।
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ ॥१,१२।४२एफ़्।
उग्रायोग्रस्वरूपाय यजमानात्मने नमः ॥ ॥१,१२।४३अब्।
महादेवाय सोमाय नमोस्त्वमृतमूर्तये ॥ ॥१,१२।४३च्द्।
एवं स्तुत्वा महादेवं ब्रह्मा लोकपितामहः ॥ ॥१,१२।४४अब्।
प्रार्थयामास विश्वेशं गिरा प्रणतिपूर्वया ॥ ॥१,१२।४४च्द्।
भगवन् भूतभव्येश मम पुत्र महेश्वर ॥ ॥१,१२।४५अब्।
सृष्टिहेतोस्त्वमुत्पन्नो ममाङ्गे ऽनङ्गनाशनः ॥ ॥१,१२।४५च्द्।
तस्मान्महति कार्येस्मिन् व्यापृतस्य जगत्प्रभो ॥ ॥१,१२।४६अब्।
सहायं कुरु सर्वत्र स्रष्टुमर्हसि स प्रजाः ॥ ॥१,१२।४६च्द्।
तेनैषां पावितो देवो रुद्रस्त्रिपुरमर्दनः ॥ ॥१,१२।४७अब्।
बाढमित्येव तां वाणीं प्रतिजग्राह शङ्करः ॥ ॥१,१२।४७च्द्।
ततस्स भगवान् ब्रह्मा हृष्टं तमभिनन्द्य च ॥ ॥१,१२।४८अब्।
स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः ॥ ॥१,१२।४८च्द्।
मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् ॥ ॥१,१२।४९अब्।
दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ॥ ॥१,१२।४९च्द्।
पुरस्तादसृजद्ब्रह्मा धर्मं सङ्कल्पमेव च ॥ ॥१,१२।४९एफ़्।
इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः ॥ ॥१,१२।५०अब्।
सह रुद्रेण सम्भूताः पुराणा गृहमेधिनः ॥ ॥१,१२।५०च्द्।
तेषां द्वादश वंशाः स्युर्दिव्या देवगणान्विताः ॥ ॥१,१२।५१अब्।
प्रजावन्तः क्रियावन्तो महर्षिभिरलङ्कृताः ॥ ॥१,१२।५१च्द्।
अथ देवासुरपित्ःन् मनुष्यांश्च चतुष्टयम् ॥ ॥१,१२।५२अब्।
सह रुद्रेण सिसृक्षुरम्भस्येतानि वै विधिः ॥ ॥१,१२।५२च्द्।
स सृष्ट्यर्थं समाधाय ब्रह्मात्मानमयूयुजत् ॥ ॥१,१२।५३अब्।
मुखादजनयद्देवान् पित्ःंश्चैवोपपक्षतः ॥ ॥१,१२।५३च्द्।
जघनादसुरान् सर्वान् प्रजनादपि मानुषान् ॥ ॥१,१२।५४अब्।
अवस्करे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ॥ ॥१,१२।५४च्द्।
पुत्रास्तमोरजःप्राया बलिनस्ते निशाचराः ॥ ॥१,१२।५५अब्।
सर्पा यक्षास्तथा भूता गन्धर्वाः सम्प्रजज्ञिरे ॥ ॥१,१२।५५च्द्।
वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसो ऽसृजत् ॥ ॥१,१२।५६अब्।
मुखतोजांस्तथा पार्श्वादुरगांश्च विनिर्ममे ॥ ॥१,१२।५६च्द्।
पद्भ्यां चाश्वान्समातङ्गान् शरभान् गवयान् मृगान् ॥ ॥१,१२।५७अब्।
उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्याश्च जातयः १ ॥ ॥१,१२।५७च्द्।
औषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे ॥ ॥१,१२।५८अब्।
गायत्रीं च ऋचं चैव त्रिवृत्साम रथन्तरम् ॥ ॥१,१२।५८च्द्।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ ॥१,१२।५९अब्।
यजूंषि त्रैष्टुभं छन्दःस्तोमं पञ्चदशं तथा ॥ ॥१,१२।५९च्द्।
१ प्रथमार्षो
५१५अ
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥ ॥१,१२।६०अब्।
सामानि जगतीछन्दः स्तोमं सप्तदशं तथा ॥ ॥१,१२।६०च्द्।
वैरूप्यमतिरात्रं च पश्चिमादसृजन् मुखात् ॥ ॥१,१२।६१अब्।
एकविंशमथर्वाणमाप्तोर्यामाणमेव च ॥ ॥१,१२।६१च्द्।
अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् ॥ ॥१,१२।६२अब्।
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ ॥१,१२।६२च्द्।
यक्षाः पिशाचा गन्धर्वास्तथैवाप्सरसां गणाः ॥ ॥१,१२।६३अब्।
नरकिन्नररक्षांसि वयःपशुमृगोरगाः ॥ ॥१,१२।६३च्द्।
अव्ययं चैव यदिदं स्थाणुस्थावरजङ्गमम् ॥ ॥१,१२।६४अब्।
तेषां वै यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे ॥ ॥१,१२।६४च्द्।
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ॥१,१२।६५अब्।
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ॥ ॥१,१२।६५च्द्।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ॥१,१२।६६अब्।
महाभूतेषु नानात्वमिन्द्रियार्थेषु मुक्तिषु ॥ ॥१,१२।६६च्द्।
विनियोगं च भूतानां धातैव व्यदधत्स्वयम् ॥ ॥१,१२।६७अब्।
नाम रूपं च भूतानां प्राकृतानां प्रपञ्चनम् ॥ ॥१,१२।६७च्द्।
वेदशब्देभ्य एवादौ निर्ममे ऽसौ पितामहः ॥ ॥१,१२।६८अब्।
आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः ॥ ॥१,१२।६८च्द्।
शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददावजः ॥ ॥१,१२।६९अब्।
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ॥ ॥१,१२।६९च्द्।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ॥१,१२।७०अब्।
इत्येष करणोद्भूतो लोकसर्गस्स्वयम्भुवः ॥ ॥१,१२।७०च्द्।
महदाद्योविशेषान्तो विकारः प्रकृतेः स्वयम् ॥ ॥१,१२।७१अब्।
चन्द्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमण्डितः ॥ ॥१,१२।७१च्द्।
नदीभिश्च समुद्रैश्च पर्वतैश्च स मण्डितः ॥ ॥१,१२।७२अब्।
परैश्च विविधैरम्यैस्स्फीतैर्जनपदैस्तथा ॥ ॥१,१२।७२च्द्।
तस्मिन् ब्रह्मवने ऽव्यक्तो ब्रह्मा चरति सर्ववित् ॥ ॥१,१२।७३अब्।
अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः ॥ ॥१,१२।७३च्द्।
बुद्धिस्कन्धमहाशाख इन्द्रियान्तरकोटरः ॥ ॥१,१२।७४अब्।
महाभूतप्रमाणश्च विशेषामलपल्लवः ॥ ॥१,१२।७४च्द्।
धर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः ॥ ॥१,१२।७५अब्।
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥ ॥१,१२।७५च्द्।
द्यां मूर्धानं तस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे ॥ ॥१,१२।७६अब्।
दिशः श्रोत्रे चरणौ च क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ ॥१,१२।७६च्द्।
वक्त्रात्तस्य ब्रह्मणास्सम्प्रसूतास्तद्वक्षसः क्षत्रियाः पूर्वभागात् ॥ ॥१,१२।७७अब्।
वैश्या उरुभ्यां तस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः सम्प्रसूताः ॥ ॥१,१२।७७च्द्।
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिवर्णनं नाम द्वादशो ऽध्यायः