११ सृष्ट्यादिवर्णनम्

मुनय ऊचुः
मन्वन्तराणि सर्वाणि कल्पभेदांश्च सर्वशः ॥ ॥१,११।१अब्।
तेष्वेवान्तरसर्गं च प्रतिसर्गं च नो वद ॥ ॥१,११।१च्द्।
वायुरुवाच
कालसङ्ख्याविवृत्तस्य परार्धो ब्रह्मणस्स्मृतः ॥ ॥१,११।२अब्।
तावांश्चैवास्य कालोन्यस्तस्यान्ते प्रतिसृज्यते ॥ ॥१,११।२च्द्।
दिवसे दिवसे तस्य ब्रह्मणः पूर्वजन्मनः ॥ ॥१,११।३अब्।
चतुर्दशमहाभागा मनूनां परिवृत्तयः ॥ ॥१,११।३च्द्।
अनादित्वादनन्तत्वादज्ञेयत्वाच्च कृत्स्नशः ॥ ॥१,११।४अब्।
मन्वन्तराणि कल्पाश्च न शक्या वचनात्पृथक् ॥ ॥१,११।४च्द्।
उक्तेष्वपि च सर्वेषु शृण्वतां वो वचो मम ॥ ॥१,११।५अब्।
किमिहास्ति फलं तस्मान्न पृथक् वक्तुमुत्सहे ॥ ॥१,११।५च्द्।
य एव खलु कल्पेषु कल्पः सम्प्रति वर्तते ॥ ॥१,११।६अब्।
तत्र सङ्क्षिप्य वर्तन्ते सृष्टयः प्रतिसृष्टयः ॥ ॥१,११।६च्द्।
यस्त्वयं वर्तते कल्पो वाराहो नाम नामतः ॥ ॥१,११।७अब्।
अस्मिन्नपि द्विजश्रेष्ठा मनवस्तु चतुर्दश ॥ ॥१,११।७च्द्।
स्वायम्भुवादयस्सप्त सप्त सावर्णिकादयः ॥ ॥१,११।८अब्।
तेषु वैवस्वतो नाम सप्तमो वर्तते मनुः ॥ ॥१,११।८च्द्।
मन्वन्तरेषु सर्वेषु सर्गसंहारवृत्तयः ॥ ॥१,११।९अब्।
प्रायः समाभवन्तीति तर्कः कार्यो विजानता ॥ ॥१,११।९च्द्।
पूर्वकल्पे परावृत्ते प्रवृत्ते कालमारुते ॥ ॥१,११।१०अब्।
समुन्मूलितमूलेषु वृक्षेषु च वनेषु च ॥ ॥१,११।१०च्द्।
जगन्ति तृणवक्त्रीणि देवे दहति पावके ॥ ॥१,११।११अब्।
वृष्ट्या भुवि निषिक्तायां विवेलेष्वर्णवेषु च ॥ ॥१,११।११च्द्।
दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि ॥ ॥१,११।१२अब्।
तदद्भिश्चटुलाक्षेपैस्तरङ्गभुजमण्डलैः ॥ ॥१,११।१२च्द्।
प्रारब्धचण्डनृत्येषु ततः प्रलयवारिषु ॥ ॥१,११।१३अब्।
ब्रह्मा नारायणो भूत्वा सुष्वाप सलिले सुखम् ॥ ॥१,११।१३च्द्।
५१३अ

इमं चोदाहरन्मन्त्रं श्लोकं नारायणं प्रति ॥ ॥१,११।१४अब्।
तं शृणुध्वं मुनिश्रेष्ठास्तदर्थं चाक्षराश्रयम् ॥ ॥१,११।१४च्द्।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ ॥१,११।१५अब्।
अयनं तस्य ता यस्मात्तेन नारायणः स्मृतः ॥ ॥१,११।१५च्द्।
शिवयोगमयीं निद्रां कुर्वन्तं त्रिदशेश्वरम् ॥ ॥१,११।१६अब्।
बद्धाञ्जलि पुटास्सिद्धा जनलोकनिवासिनः ॥ ॥१,११।१६च्द्।
स्तोत्रैः प्रबोधयामासुः प्रभातसमये सुराः ॥ ॥१,११।१७अब्।
यथा सृष्ट्यादिसमये ईश्वरं श्रुतयः पुरा ॥ ॥१,११।१७च्द्।
ततः प्रबुद्ध उत्थाय शयनात्तोयमध्यगात् ॥ ॥१,११।१८अब्।
उदैक्षत दिशः सर्वा योगनिद्रालसेक्षणः ॥ ॥१,११।१८च्द्।
नापश्यत्स तदा किञ्चित्स्वात्मनो व्यतिरेकि यत् ॥ ॥१,११।१९अब्।
सविस्मय इवासीनः परां चिन्तामुपागमत् ॥ ॥१,११।१९च्द्।
क्व सा भगवती या तु मनोज्ञा महती मही ॥ ॥१,११।२०अब्।
नानाविधमहाशैलनदीनगरकानना ॥ ॥१,११।२०च्द्।
एवं सञ्चिन्तयन्ब्रह्मा बुबुधे नैव भूस्थितिम् ॥ ॥१,११।२१अब्।
तदा सस्मार पितरं भगवन्तं त्रिलोचनम् ॥ ॥१,११।२१च्द्।
स्मरणाद्देवदेवस्य भवस्यामिततेजसः ॥ ॥१,११।२२अब्।
ज्ञातवान्सलिले मग्नां धरणीं धरणीपतिः ॥ ॥१,११।२२च्द्।
ततो भूमेस्समुद्धारं कर्तुकामः प्रजापतिः ॥ ॥१,११।२३अब्।
जलक्रीडोचितं दिव्यं वाराहं रूपमस्मरत् ॥ ॥१,११।२३च्द्।
महापर्वतवर्ष्माणं महाजलदनिःस्वनम् ॥ ॥१,११।२४अब्।
नीलमेघप्रतीकाशं दीप्तशब्दं भयानकम् ॥ ॥१,११।२४च्द्।
पीनवृत्तघनस्कन्धपीनोन्नतकटीतटम् ॥ ॥१,११।२५अब्।
ह्रस्ववृत्तोरुजङ्घाग्रं सुतीक्ष्णपुरमण्डलम् ॥ ॥१,११।२५च्द्।
पद्मरागमणिप्रख्यं वृत्तभीषणलोचनम् ॥ ॥१,११।२६अब्।
वृत्तदीर्घमहागात्रं स्तब्धकर्णस्थलोज्ज्वलम् ॥ ॥१,११।२६च्द्।
उदीर्णोच्छ्वासनिश्वासघूर्णितप्रलयार्णवम् ॥ ॥१,११।२७अब्।
विस्फुरत्सुसटाच्छन्नकपोलस्कन्धबन्धुरम् ॥ ॥१,११।२७च्द्।
मणिभिर्भूषणैश्चित्रैर्महारत्नैःपरिष्कृतम् ॥ ॥१,११।२८अब्।
विराजमानं विद्युद्भिर्मेघसङ्घमिवोन्नतम् ॥ ॥१,११।२८च्द्।
आस्थाय विपुलं रूपं वाराहममितं विधिः ॥ ॥१,११।२९अब्।
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ ॥१,११।२९च्द्।
स तदा शुशुभे ऽतीव सूकरो गिरिसन्निभः ॥ ॥१,११।३०अब्।
लिङ्गाकृतेर्महेशस्य पादमूलं गतो यथा ॥ ॥१,११।३०च्द्।
ततस्स सलिले मग्नां पृथिवीं पृथिवीन्धरः ॥ ॥१,११।३१अब्।
उद्धृत्यालिङ्ग्य दंष्ट्राभ्यामुन्ममज्ज रसातलात् ॥ ॥१,११।३१च्द्।
तं दृष्ट्वा मुनयस्सिद्धा जनलोकनिवासिनः ॥ ॥१,११।३२अब्।
मुमुदुर्ननृतुर्मूर्ध्नि तस्य पुष्पैरवाकिरन् ॥ ॥१,११।३२च्द्।
वपुर्महावराहस्य शुशुभे पुष्पसंवृतम् ॥ ॥१,११।३३अब्।
पतद्भिरिव खद्योतैः प्राशुरञ्जनपर्वतः ॥ ॥१,११।३३च्द्।
ततः संस्थानमानीय वराहो महतीं महीम् ॥ ॥१,११।३४अब्।
स्वमेव रूपमास्थाय स्थापयामास वै विभुः ॥ ॥१,११।३४च्द्।
पृथिवीं च समीकृत्य पृथिव्यां स्थापयन्गिरीन् ॥ ॥१,११।३५अब्।
५१३ब्

भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥ ॥१,११।३५च्द्।
इति सह महतीं महीं महीध्रैः प्रलयमहाजलधेरधःस्थमध्यात् ॥ ॥१,११।३६अब्।
उपरि च विनिवेश्य विश्वकर्मा चरमचरं च जगत्ससर्ज भूयः ॥ ॥१,११।३६च्द्।

इति श्रीशिवमहापुराणे सप्तम्यां वा– पू– सृष्ट्यादिवर्णनं नामैकादशो ऽध्यायः