१० ब्रह्माण्डस्थितिवर्णनम्

वायुरुवाच
पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया ॥ ॥१,१०।१अब्।
बुद्ध्यादयो विशेषान्ता विकाराश्चाभवन् क्रमात् ॥ ॥१,१०।१च्द्।
ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः ॥ ॥१,१०।२अब्।
कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे ॥ ॥१,१०।२च्द्।
सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् ॥ ॥१,१०।३अब्।
ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम् ॥ ॥१,१०।३च्द्।
सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् ॥ ॥१,१०।४अब्।
प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः ॥ ॥१,१०।४च्द्।
कल्पान्तरे पुनस्तेषामस्पर्धा बुद्धिमोहिनाम् ॥ ॥१,१०।५अब्।
सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः ॥ ॥१,१०।५च्द्।
एते परस्परोत्पन्ना धारयन्ति परस्परम् ॥ ॥१,१०।६अब्।
परस्परेण वर्धन्ते परस्परमनुव्रताः ॥ ॥१,१०।६च्द्।
क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते ॥ ॥१,१०।७अब्।
नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते ॥ ॥१,१०।७च्द्।
मूर्खा निन्दन्ति तान्वाग्भिः संरम्भाभिनिवेशिनः ॥ ॥१,१०।८अब्।
यातुधाना भवन्त्येव पिशाचाश्च न संशयः ॥ ॥१,१०।८च्द्।
देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः ॥ ॥१,१०।९अब्।
सकलस्सकलाधारशक्तेरुत्पत्तिकारणम् ॥ ॥१,१०।९च्द्।
सोयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च ॥ ॥१,१०।१०अब्।
लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः ॥ ॥१,१०।१०च्द्।
यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः ॥ ॥१,१०।११अब्।
स एव च तदाधारस्तदात्मा तदधिष्ठितः ॥ ॥१,१०।११च्द्।
तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा ॥ ॥१,१०।१२अब्।
सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम् ॥ ॥१,१०।१२च्द्।
प्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान् ॥ ॥१,१०।१३अब्।
महत्तत्त्वस्य सङ्क्षोभादहङ्कारस्त्रिधा ऽभवत् ॥ ॥१,१०।१३च्द्।
अहङ्कारश्च भूतानि तन्मात्रानीन्द्रियाणि च ॥ ॥१,१०।१४अब्।
वैकारिकादहङ्कारात्सत्त्वोद्रिक्तात्तु सात्त्विकः ॥ ॥१,१०।१४च्द्।
वैकारिकः स सर्गस्तु युगपत्सम्प्रवर्तते ॥ ॥१,१०।१५अब्।
बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च ॥ ॥१,१०।१५च्द्।
एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ॥ ॥१,१०।१६अब्।
तमोयुक्तादहङ्काराद्भूततन्मात्रसम्भवः ॥ ॥१,१०।१६च्द्।
भूतानामादिभूतत्वाद्भूतादिः कथ्यते तु सः ॥ ॥१,१०।१७अब्।
भूतादेश्शब्दमात्रं स्यात्तत्र चाकाशसम्भवः ॥ ॥१,१०।१७च्द्।
आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः ॥ ॥१,१०।१८अब्।
वायो रूपं ततस्तेजस्तेजसो रससम्भवः ॥ ॥१,१०।१८च्द्।
रसादापस्समुत्पन्नास्तेभ्यो गन्धसमुद्भवः ॥ ॥१,१०।१९अब्।
गन्धाच्च पृथिवी जाता भूतेभ्योन्यच्चराचरम् ॥ ॥१,१०।१९च्द्।
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ॥ ॥१,१०।२०अब्।
महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ ॥१,१०।२०च्द्।
५१२अ
तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा ॥ ॥१,१०।२१अब्।
तदण्डे सुप्रवृद्धो ऽभूत् क्षेत्रज्ञो ब्रह्मसञ्ज्ञितः ॥ ॥१,१०।२१च्द्।
स वै शरीरी प्रथमः स वै पुरुष उच्यते ॥ ॥१,१०।२२अब्।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ ॥१,१०।२२च्द्।
तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा ॥ ॥१,१०।२३अब्।
धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञे ऽभिमानिनः ॥ ॥१,१०।२३च्द्।
अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् ॥ ॥१,१०।२४अब्।
वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः ॥ ॥१,१०।२४च्द्।
त्रिधा विभज्य चात्मानं त्रैलोक्ये सम्प्रवर्तते ॥ ॥१,१०।२५अब्।
सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम् ॥ ॥१,१०।२५च्द्।
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकस्स्मृतः ॥ ॥१,१०।२६अब्।
सहस्रमूर्धा पुरुषस्तिस्रोवस्थास्स्वयम्भुवः ॥ ॥१,१०।२६च्द्।
सत्त्वं रजश्च ब्रह्मा च कालत्वे च तमो रजः ॥ ॥१,१०।२७अब्।
विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभौ ॥ ॥१,१०।२७च्द्।
ब्रह्मत्वे सृजते लोकान् कालत्वे सङ्क्षिपत्यपि ॥ ॥१,१०।२८अब्।
पुरुषत्वे ऽत्युदासीनः कर्म च त्रिविधं विभोः ॥ ॥१,१०।२८च्द्।
एवं त्रिधा विभिन्नत्वाद्ब्रह्मा त्रिगुण उच्यते ॥ ॥१,१०।२९अब्।
चतुर्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः ॥ ॥१,१०।२९च्द्।
आदित्वादादिदेवो ऽसावजातत्वादजः स्मृतः ॥ ॥१,१०।३०अब्।
पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः ॥ ॥१,१०।३०च्द्।
हिरण्मयस्तु यो मेरुस्तस्योल्बं सुमहात्मनः ॥ ॥१,१०।३१अब्।
गर्भोदकं समुद्राश्च जरायुश्चा ऽपि पर्वताः ॥ ॥१,१०।३१च्द्।
तस्मिन्नण्डे त्विमे लोका अन्तर्विश्वमिदं जगत् ॥ ॥१,१०।३२अब्।
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ ॥१,१०।३२च्द्।
अद्भिर्दशगुणाभिस्तु बाह्यतोण्डं समावृतम् ॥ ॥१,१०।३३अब्।
आपो दशगुणेनैव तेजसा बहिरावृताः ॥ ॥१,१०।३३च्द्।
तेजो दशगुणेनैव वायुना बहिरावृतम् ॥ ॥१,१०।३४अब्।
आकाशेनावृतो वायुः खं च भूतादिनावृतम् ॥ ॥१,१०।३४च्द्।
भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ॥ ॥१,१०।३५अब्।
एतैरावरणैरण्डं सप्तभिर्बहिरावृतम् ॥ ॥१,१०।३५च्द्।
एतदावृत्त्य चान्योन्यमष्टौ प्रकृतयः स्थिताः ॥ ॥१,१०।३६अब्।
सृष्टिपालनविध्वंसकर्मकर्त्र्यो द्विजोत्तमाः ॥ ॥१,१०।३६च्द्।
एवं परस्परोत्पन्ना धारयन्ति परस्परम् ॥ ॥१,१०।३७अब्।
आधाराधेयभावेन विकारास्तु विकारिषु ॥ ॥१,१०।३७च्द्।
कूर्मोङ्गानि यथा पूर्वं प्रसार्य विनियच्छति ॥ ॥१,१०।३८अब्।
विकारांश्च तथा ऽव्यक्तं सृष्ट्वा भूयो नियच्छति ॥ ॥१,१०।३८च्द्।
अव्यक्तप्रभवं सर्वमानुलोम्येन जायते ॥ ॥१,१०।३९अब्।
प्राप्ते प्रलयकाले तु प्रतिलोम्येनुलीयते ॥ ॥१,१०।३९च्द्।
गुणाः कालवशादेव भवन्ति विषमाः समाः ॥ ॥१,१०।४०अब्।
गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते ॥ ॥१,१०।४०च्द्।
तदिदं ब्रह्मणो योनिरेतदण्डं घनं महत् ॥ ॥१,१०।४१अब्।
ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ ॥१,१०।४१च्द्।
इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः ॥ ॥१,१०।४२अब्।
सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थिताः ॥ ॥१,१०।४२च्द्।
५१२ब्

तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥ ॥१,१०।४३अब्।
सृष्टा प्रधानेन तथा लब्ध्वा शम्भोस्तु सन्निधिम् ॥ ॥१,१०।४३च्द्।
महेश्वरः परोव्यक्तादण्डमव्यक्तसम्भवम् ॥ ॥१,१०।४४अब्।
अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे ॥ ॥१,१०।४४च्द्।
अबुद्धिपूर्वः कथितो मयैष प्रधानसर्गः प्रथमः प्रवृतः ॥ ॥१,१०।४५अब्।
आत्यन्तिकश्च प्रलयोन्तकाले लीलाकृतः केवलमीश्वरस्य ॥ ॥१,१०।४५च्द्।
यत्तत्स्मृतं कारणमप्रमेयं ब्रह्मा प्रधानं प्रकृतेः प्रसूतिः ॥ ॥१,१०।४६अब्।
अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम् ॥ ॥१,१०।४६च्द्।
उत्पादकत्वाद्रजसोतिरेकाल्लोकस्य सन्तानविवृद्धिहेतून् ॥ ॥१,१०।४७अब्।
अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथान्तकाले ॥ ॥१,१०।४७च्द्।
प्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः ॥ ॥१,१०।४८अब्।
तत्सर्वमप्राकृतवैभवस्य सङ्कल्पमात्रेण महेश्वरस्य ॥ ॥१,१०।४८च्द्।

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां ब्रह्माण्डस्थितिवर्णनं नाम दशमो ऽध्यायः