०९ सृष्टिपालनप्रलयकर्तृत्ववर्णनम्

मुनय ऊचुः
कथं जगदिदं कृत्स्नं विधाय च निधाय च ॥ ॥१,९।१अब्।
आज्ञया परमां क्रीडां करोति परमेश्वरः ॥ ॥१,९।१च्द्।
किं तत्प्रथमसम्भूतं केनेदमखिलं ततम् ॥ ॥१,९।२अब्।
केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा ॥ ॥१,९।२च्द्।
वायुरुवाच
शक्तिः प्रथमसम्भूता शान्त्यतीतपदोत्तरा ॥ ॥१,९।३अब्।
ततो माया ततो ऽव्यक्तं शिवाच्छक्तिमतः प्रभोः ॥ ॥१,९।३च्द्।
५११अ

शान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात् ॥ ॥१,९।४अब्।
ततो विद्यापदं तस्मात्प्रतिष्ठापदसम्भवः ॥ ॥१,९।४च्द्।
निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् ॥ ॥१,९।५अब्।
एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ॥ ॥१,९।५च्द्।
आनुलोम्यात्तथैतेषां प्रतिलोम्येन संहृतिः ॥ ॥१,९।६अब्।
अस्मात्पञ्चपदोद्दिष्टात्परस्स्रष्टा समिष्यते ॥ ॥१,९।६च्द्।
कलाभिः पञ्चभिर्व्याप्तं तस्माद्विश्वमिदं जगत् ॥ ॥१,९।७अब्।
अव्यक्तं कारणं यत्तदात्मना समनुष्ठितम् ॥ ॥१,९।७च्द्।
महदादिविशेषान्तं सृजतीत्यपि सम्मतम् ॥ ॥१,९।८अब्।
किं तु तत्रापि कर्तृत्वं नाव्यक्तस्य न चात्मनः ॥ ॥१,९।८च्द्।
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च ॥ ॥१,९।९अब्।
प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥ ॥१,९।९च्द्।
तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ॥१,९।१०अब्।
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ ॥१,९।१०च्द्।
तस्माच्छक्तस्स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित् ॥ ॥१,९।११अब्।
अनादिनिधनश्चायं महदैश्वर्यसंयुतः ॥ ॥१,९।११च्द्।
स एव जगतः कर्ता महादेवो महेश्वराः ॥ ॥१,९।१२अब्।
पाता हर्ता च सर्वस्य ततः पृथगनन्वयः ॥ ॥१,९।१२च्द्।
परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च ॥ ॥१,९।१३अब्।
सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते ॥ ॥१,९।१३च्द्।
इतीयं शाश्वती निष्ठा सतां मनसि वर्तते ॥ ॥१,९।१४अब्।
न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः ॥ ॥१,९।१४च्द्।
यावदादिसमारम्भो यावद्यः प्रलयो महान् ॥ ॥१,९।१५अब्।
तावदप्येति सकलं ब्रह्मणः शारदां शतम् ॥ ॥१,९।१५च्द्।
परमित्यायुषो नाम ब्रह्मणो ऽव्यक्तजन्मनः ॥ ॥१,९।१६अब्।
तत्पराख्यं तदर्धं च परार्धमभिधीयते ॥ ॥१,९।१६च्द्।
परार्धद्वयकालान्ते प्रलये समुपस्थिते ॥ ॥१,९।१७अब्।
अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति ॥ ॥१,९।१७च्द्।
आत्मन्यवस्थिते ऽव्यक्ते विकारे प्रतिसंहृते ॥ ॥१,९।१८अब्।
साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ ॥ ॥१,९।१८च्द्।
तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ ॥ ॥१,९।१९अब्।
अनुद्रिक्तावनन्तौ तावोतप्रोतौ परस्परम् ॥ ॥१,९।१९च्द्।
गुणसाम्ये तदा तस्मिन्नविभागे तमोदये ॥ ॥१,९।२०अब्।
शान्तवातैकनीरे च न प्राज्ञायत किञ्चन ॥ ॥१,९।२०च्द्।
अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः ॥ ॥१,९।२१अब्।
उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः ॥ ॥१,९।२१च्द्।
प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ ॥ ॥१,९।२२अब्।
प्रविश्य क्षोभयामास मायायोगान्महेश्वरः ॥ ॥१,९।२२च्द्।
ततः पुनरशेषाणां भूतानां प्रभवाप्ययात् ॥ ॥१,९।२३अब्।
अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः ॥ ॥१,९।२३च्द्।
विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलस्समाप्तः ॥ ॥१,९।२४अब्।
आत्मानमध्वपतिमध्वविदो वदन्ति तस्मै नमः सकललोकविलक्षणाय ॥ ॥१,९।२४च्द्।

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे सृष्टिपालनप्रलयकर्तृत्ववर्णनं नाम नवमो ऽध्यायः