ऋषय ऊचुः
केन मानेन कालेस्मिन्नायुस्सङ्ख्या प्रकल्प्यते ॥ ॥१,८।१अब्।
सङ्ख्यारूपस्य कालस्य कः पुनः परमो ऽवधिः ॥ ॥१,८।१च्द्।
वायुरुवाच
आयुषो ऽत्र निमेषाख्यमाद्यमानं प्रचक्षते ॥ ॥१,८।२अब्।
सङ्ख्यारूपस्य कालस्य शान्त्त्वतीतकलावधि ॥ ॥१,८।२च्द्।
अक्षिपक्ष्मपरिक्षेपो निमेषः परिकल्पितः ॥ ॥१,८।३अब्।
तादृशानां निमेषाणां काष्ठा दश च पञ्च च ॥ ॥१,८।३च्द्।
काष्ठांस्त्रिंशत्कला नाम कलांस्त्रिंशन्मुहूर्तकः ॥ ॥१,८।४अब्।
मुहूर्तानामपि त्रिंशदहोरात्रं प्रचक्षते ॥ ॥१,८।४च्द्।
त्रिंशत्सङ्ख्यैरहोरात्रैर्मासः पक्षद्वयात्मकः ॥ ॥१,८।५अब्।
ज्ञेयं पित्र्यमहोरात्रं मासः कृष्णसितात्मकः ॥ ॥१,८।६अब्।
मासैस्तैरयनं षड्भिर्वर्षं द्वे चायनं मतम् ॥ ॥१,८।७अब्।
लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः ॥ ॥१,८।७च्द्।
एतद्दिव्यमहोरात्रमिति शास्त्रस्य निश्चयः ॥ ॥१,८।८अब्।
दक्षिणं चायनं रात्रिस्तथोदगयनं दिनम् ॥ ॥१,८।८च्द्।
मासस्त्रिंशदहोरात्रैर्दिव्यो मानुषवत्स्मृतः ॥ ॥१,८।९अब्।
संवत्सरो ऽपि देवानां मासैर्द्वादशभिस्तथा ॥ ॥१,८।९च्द्।
त्रीणि वर्षशतान्येव षष्टिवर्षयुतान्यपि ॥ ॥१,८।१०अब्।
दिव्यस्संवत्सरो ज्ञेयो मानुषेण प्रकीर्तितः ॥ ॥१,८।१०च्द्।
दिव्येनैव प्रमाणेन युगसङ्ख्या प्रवर्तते ॥ ॥१,८।११अब्।
चत्वारि भारते वर्षे युगानि कवयो विदुः ॥ ॥१,८।११च्द्।
पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ॥ ॥१,८।१२अब्।
द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः ॥ ॥१,८।१२च्द्।
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ॥ ॥१,८।१३अब्।
तस्य तावच्छतीसन्ध्या सन्ध्यांशश्च तथाविधः ॥ ॥१,८।१३च्द्।
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु ॥ ॥१,८।१४अब्।
एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ ॥१,८।१४च्द्।
एतद्द्वादशसाहस्रं साधिकं च चतुर्युगम् ॥ ॥१,८।१५अब्।
चतुर्युगसहस्रं यत्सङ्कल्प इति कथ्यते ॥ ॥१,८।१५च्द्।
चतुर्युगैकसप्तत्या मनोरन्तरमुच्यते ॥ ॥१,८।१६अब्।
कल्पे चतुर्दशैकस्मिन्मनूनां परिवृत्तयः ॥ ॥१,८।१६च्द्।
एतेन क्रमयोगेन कल्पमन्वन्तराणि च ॥ ॥१,८।१७अब्।
सप्रजानि व्यतीतानि शतशो ऽथ सहस्रशः ॥ ॥१,८।१७च्द्।
अज्ञेयत्वाच्च सर्वेषामसङ्ख्येयतया पुनः ॥ ॥१,८।१८अब्।
शक्यो नैवानुपूर्व्याद्वै तेषां वक्तुं सुविस्तरः ॥ ॥१,८।१८च्द्।
कल्पो नाम दिवा प्रोक्तो ब्रह्मणो ऽव्यक्तजन्मनः ॥ ॥१,८।१९अब्।
कल्पानां वै सहस्रं च ब्राह्मं वर्षमिहोच्यते ॥ ॥१,८।१९च्द्।
वर्षाणामष्टसाहस्रं यच्च तद्ब्रह्मणो युगम् ॥ ॥१,८।२०अब्।
सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः ॥ ॥१,८।२०च्द्।
सवनानां सहस्रं च त्रिगुणं त्रिवृतं तथा ॥ ॥१,८।२१अब्।
कल्प्यते सकलः कालो ब्रह्मणः परमेष्ठिनः ॥ ॥१,८।२१च्द्।
तस्य वै दिवसे यान्ति चतुर्दश पुरन्दराः ॥ ॥१,८।२२अब्।
शतानि मासे चत्वारि विंशत्या सहितानि च ॥ ॥१,८।२२च्द्।
अब्दे पञ्च सहस्राणि चत्वारिंशद्युतानि च ॥ ॥१,८।२३अब्।
चत्वारिंशत्सहस्राणि पञ्च लक्षाणि चायुषि ॥ ॥१,८।२३च्द्।
ब्रह्मा विष्णोर्दिने चैको विष्णू रुद्रदिने तथा ॥ ॥१,८।२४अब्।
ईश्वरस्य दिने रुद्रस्सदाख्यस्य तथेश्वरः ॥ ॥१,८।२४च्द्।
साक्षाच्छिवस्य तत्सङ्ख्यस्तथा सो ऽपि सदाशिवः ॥ ॥१,८।२५अब्।
चत्वारिंशत्सहस्राणि पञ्चलक्षाणि चायुषि ॥ ॥१,८।२५च्द्।
तस्मिन्साक्षाच्छिवेनैष कालात्मा सम्प्रवर्तते ॥ ॥१,८।२६१अब्।
यत्तत्सृष्टेस्समाख्यातं कालान्तरमिह द्विजाः ॥ ॥१,८।२६१च्द्।
एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् ॥ ॥१,८।२६२अब्।
रात्रिश्च तावती ज्ञेया परमेशस्य कृत्स्नशः ॥ ॥१,८।२६२च्द्।
अहस्तस्य तु या सृष्टी रात्रिश्च प्रलयः स्मृतः ॥ ॥१,८।२७अब्।
अहर्न विद्यते तस्य न रात्रिरिति धारयेत् ॥ ॥१,८।२७च्द्।
एषोपचारः क्रियते लोकानां हितकाम्यया ॥ ॥१,८।२८अब्।
प्रजाः प्रजानां पतयो मूर्तयश्च सुरासुराः ॥ ॥१,८।२८च्द्।
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च ॥ ॥१,८।२९अब्।
तन्मात्राण्यथ भूतादिर्बुद्धिश्च सह दैवतः ॥ ॥१,८।२९च्द्।
अहस्तिष्ठन्ति सर्वाणि पारमेशस्य धीमतः ॥ ॥१,८।३०अब्।
अहरन्ते प्रलीयन्ते रात्र्यन्ते विश्वसम्भवः ॥ ॥१,८।३०च्द्।
यो विश्वात्मा कर्मकालस्वभावाद्यर्थे शक्तिर्यस्य नोल्लङ्घनीया ॥ ॥१,८।३१अब्।
यस्यैवाज्ञाधीनमेतत्समस्तं नमस्तस्मै महते शङ्कराय ॥ ॥१,८।३१च्द्।
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे कालप्रभावे त्रिदेवायुर्वर्णनं नामाष्टमो ऽध्यायः