मुनय ऊचुः
कालादुत्पद्यते सर्वं कालदेव विपद्यते ॥ ॥१,७।१अब्।
न कालनिरपेक्षं हि क्वचित्किञ्चन विद्यते ॥ ॥१,७।१च्द्।
यदास्यान्तर्गतं विश्वं शश्वत्संसारमण्डलम् ॥ ॥१,७।२अब्।
सर्गसंहृतिमुद्राभ्यां चक्रवत्परिवर्तते ॥ ॥१,७।२च्द्।
ब्रह्मा हरिश्च रुद्रश्च तथान्ये च सुरासुराः ॥ ॥१,७।३अब्।
यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम् ॥ ॥१,७।३च्द्।
भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः ॥ ॥१,७।४अब्।
अतिप्रभुरिति स्वैरं वर्तते ऽतिभयङ्करः ॥ ॥१,७।४च्द्।
क एष भगवान् कालः कस्य वा वशवर्त्ययम् ॥ ॥१,७।५अब्।
क एवास्य वशे न स्यात्कथयैतद्विचक्षण ॥ ॥१,७।५च्द्।
वायुरुवाच
कालकाष्ठानिमेषादिकलाकलितविग्रहम् ॥ ॥१,७।६अब्।
कालात्मेति समाख्यातं तेजो माहेश्वरं परम् ॥ ॥१,७।६च्द्।
यदलङ्घ्यमशेषस्य स्थावरस्य चरस्य च ॥ ॥१,७।७अब्।
नियोगरूपमीशस्य बलं विश्वनियामकम् ॥ ॥१,७।७च्द्।
तस्यांशांशमयी मुक्तिः कालात्मनि महात्मनि ॥ ॥१,७।८अब्।
ततो निष्क्रम्य सङ्क्रान्ता विसृष्टाग्रेरिवायसी ॥ ॥१,७।८च्द्।
तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः ॥ ॥१,७।९अब्।
शिवस्य तु वशे कालो न कालस्य वशे शिवः ॥ ॥१,७।९च्द्।
यतो ऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम् ॥ ॥१,७।१०अब्।
महती तेन कालस्य मर्यादा हि दुरत्यया ॥ ॥१,७।१०च्द्।
कालं प्रज्ञाविशेषेण को ऽतिवर्तितुमर्हति ॥ ॥१,७।११अब्।
कालेन तु कृतं कर्म न कश्चिदतिवर्तते ॥ ॥१,७।११च्द्।
एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति ॥ ॥१,७।१२अब्।
ते ऽपि नैवातिवर्तन्ते कालवेलामिवाब्धयः ॥ ॥१,७।१२च्द्।
ये निगृह्येन्द्रियग्रामं जयन्ति सकलं जगत् ॥ ॥१,७।१३अब्।
न जयन्त्यपि ते कालं कालो जयति तानपि ॥ ॥१,७।१३च्द्।
आयुर्वेदविदो वैद्यास्त्वनुष्ठितरसायनाः ॥ ॥१,७।१४अब्।
न मृत्युमतिवर्तन्ते कालो हि दुरतिक्रमः ॥ ॥१,७।१४च्द्।
श्रिया रूपेण शीलेन बलेन च कुलेन च ॥ ॥१,७।१५अब्।
अन्यच्चिन्तयते जन्तुः कालो ऽन्यत्कुरुते बलात् ॥ ॥१,७।१५च्द्।
अप्रियैश्च प्रियैश्चैव ह्यचिन्तितगमागमैः ॥ ॥१,७।१६अब्।
संयोजयति भूतानि वियोजयति चेश्वरः ॥ ॥१,७।१६च्द्।
यदैव दुःखितः कश्चित्तदैव सुखितः परः ॥ ॥१,७।१७अब्।
दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता ॥ ॥१,७।१७च्द्।
यो युवा स भवेद्वृद्धो यो बलीयान्स दुर्बलः ॥ ॥१,७।१८अब्।
यः श्रीमान्सो ऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा ॥ ॥१,७।१८च्द्।
नाभिजात्यं न वै शीलं न बलं न च नैपुणम् ॥ ॥१,७।१९अब्।
भवेत्कार्याय पर्याप्तं कालश्च ह्यनिरोधकः ॥ ॥१,७।१९च्द्।
ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः ॥ ॥१,७।२०अब्।
ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ ॥१,७।२०च्द्।
फलन्त्यकाले न रसायनानि सम्यक्प्रयुक्तान्यपि चौषधानि ॥ ॥१,७।२१अब्।
तान्येव कालेन समाहृतानि सिद्धिं प्रयान्त्याशु सुखं दिशन्ति ॥ ॥१,७।२१च्द्।
५१०अ
नाकालतो ऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति ॥ ॥१,७।२२अब्।
नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किञ्चित् ॥ ॥१,७।२२च्द्।
कालेन शीतः प्रतिवाति वातःकालेन वृष्टिर्जलदानुपैति ॥ ॥१,७।२३अब्।
कालेन चोष्मा प्रशमं प्रयाति कालेन सर्वं सफलत्वमेति ॥ ॥१,७।२३च्द्।
कालश्च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवन्ति नित्यम् ॥ ॥१,७।२४अब्।
कालेन सस्यानि लयं प्रयान्ति कालेन सञ्जीवति जीवलोकः ॥ ॥१,७।२४च्द्।
इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः ॥ ॥१,७।२५अब्।
कालात्मानमतिक्रम्य कालातीतं स पश्यति ॥ ॥१,७।२५च्द्।
न यस्य कालो न च बन्धमुक्ती न यः पुमान्न प्रकृतिर्न विश्वम् ॥ ॥१,७।२६अब्।
विचित्ररूपाय शिवाय तस्मै नमःपरस्मै परमेश्वराय ॥ ॥१,७।२६च्द्।
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालमहिमवर्णनं नाम सप्तमो ऽध्यायः