मुनय ऊचुः
यो ऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः ॥ ॥१,६।१अब्।
अभ्यां विलक्षणः कश्चित्कोयमस्ति तयोः पतिः ॥ ॥१,६।१च्द्।
वायुरुवाच
अस्ति कश्चिदपर्यन्तरमणीयगुणाश्रयः ॥ ॥१,६।२अब्।
पतिर्विश्वस्य निर्माता पशुपाशविमोचनः ॥ ॥१,६।२च्द्।
अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् ॥ ॥१,६।३अब्।
अचेतनत्वादज्ञानादनयोः पशुपाशयोः ॥ ॥१,६।३च्द्।
प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥ ॥१,६।४अब्।
तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ॥१,६।४च्द्।
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ ॥१,६।५अब्।
तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः ॥ ॥१,६।५च्द्।
पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ॥ ॥१,६।६अब्।
अयथाकरणज्ञानमन्धस्य गमनं यथा ॥ ॥१,६।६च्द्।
आत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् ॥ ॥१,६।७अब्।
असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ ॥१,६।७च्द्।
पशोः पाशस्य पत्युश्च तत्त्वतो ऽस्ति पदं परम् ॥ ॥१,६।८अब्।
ब्रह्मवित्तद्विदित्वैव योनिमुक्तो भविष्यति ॥ ॥१,६।८च्द्।
संयुक्तमेतद्द्वितयं क्षरमक्षरमेव च ॥ ॥१,६।९अब्।
व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ॥ ॥१,६।९च्द्।
भोक्ता भोग्यं प्रेरयिता मन्तव्यं त्रिविधं स्मृतम् ॥ ॥१,६।१०अब्।
नातः परं विजानद्भिर्वेदितव्यं हि किञ्चनः ॥ ॥१,६।१०च्द्।
तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम् ॥ ॥१,६।११अब्।
यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः ॥ ॥१,६।११च्द्।
एवमेव महात्मानमात्मन्यात्मविलक्षणम् ॥ ॥१,६।१२अब्।
सत्येन तपसा चैव नित्ययुक्तो ऽनुपश्यति ॥ ॥१,६।१२च्द्।
य एको जालवानीश ईशानीभिस्स्वशक्तिभिः ॥ ॥१,६।१३अब्।
सर्वांल्लोकानिमान् कृत्वा एक एव स ईशते १ ॥ ॥१,६।१३च्द्।
एक एव तदा रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ ॥१,६।१४अब्।
संसृज्य विश्वभुवनं गोप्ता ते सञ्चुकोच यः ॥ ॥१,६।१४च्द्।
१ शब्लुगभाव आर्ष
५०८अ
विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः ॥ ॥१,६।१५अब्।
तथैव विश्वतोबाहुविश्वतः पादसंयुतः ॥ ॥१,६।१५च्द्।
द्यावाभूमी च जनयन् देव एको महेश्वरः ॥ ॥१,६।१६अब्।
स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा ॥ ॥१,६।१६च्द्।
हिरण्यगर्भं देवानां प्रथमं जनयेदयम् ॥ ॥१,६।१७अब्।
विश्वस्मादधिको रुद्रो महर्षिरिति हि श्रुतिः ॥ ॥१,६।१७च्द्।
वेदाहमेतं पुरुषं महान्तममृतं ध्रुवम् ॥ ॥१,६।१८अब्।
आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम् ॥ ॥१,६।१८च्द्।
अस्मान्नास्ति परं किञ्चिदपरं परमात्मनः ॥ ॥१,६।१९अब्।
नाणीयो ऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत् ॥ ॥१,६।१९च्द्।
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ॥ ॥१,६।२०अब्।
सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः ॥ ॥१,६।२०च्द्।
सर्वतः पाणिपादो ऽयं सर्वतो ऽक्षिशिरोमुखः ॥ ॥१,६।२१अब्।
सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ॥१,६।२१च्द्।
सर्वेन्द्रियगुणाभासस्सर्वेन्द्रियविवर्जितः ॥ ॥१,६।२२अब्।
सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् ॥ ॥१,६।२२च्द्।
अचक्षुरपि यः पश्यत्यकर्णो ऽपि शृणोति यः ॥ ॥१,६।२३अब्।
सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम् ॥ ॥१,६।२३च्द्।
अणोरणीयान्महतो महीयानयमव्ययः ॥ ॥१,६।२४अब्।
गुहायां निहितश्चापि जन्तोरस्य महेश्वरः ॥ ॥१,६।२४च्द्।
तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम् ॥ ॥१,६।२५अब्।
धातुः प्रसादादीशानं वीतशोकः प्रपश्यति ॥ ॥१,६।२५च्द्।
वेदाहमेनमजरं पुराणं सर्वगं विभुम् ॥ ॥१,६।२६अब्।
निरोधं जन्मनो यस्य वदन्ति ब्रह्मवादिनः ॥ ॥१,६।२६च्द्।
एको ऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः ॥ ॥१,६।२७अब्।
विदधाति विचेत्यन्ते १ विश्वमादौ महेश्वरः ॥ ॥१,६।२७च्द्।
विश्वधात्रीत्यजाख्या च शैवी चित्रा कृतिः परा ॥ ॥१,६।२८अब्।
तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम् ॥ ॥१,६।२८च्द्।
जनित्रीमनुशेते ऽन्योजुषमाणस्स्वरूपिणीम् ॥ ॥१,६।२९अब्।
तामेवाजामजो ऽन्यस्तु भक्तभोगा जहाति च ॥ ॥१,६।२९च्द्।
द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ॥ ॥१,६।३०अब्।
एको ऽत्ति पिप्पलं स्वादु परो ऽनश्नन् प्रपश्यति ॥ ॥१,६।३०च्द्।
वृक्षेस्मिन् पुरुषो मग्नो गुह्यमानश्च शोचति ॥ ॥१,६।३१अब्।
जुष्टमन्यं यदा पश्येदीशं परमकारणम् ॥ ॥१,६।३१च्द्।
तदास्य महिमानं च वीतशोकस्सुखी भवेत् ॥ ॥१,६।३२अब्।
छन्दांसि यज्ञाः ऋतवो यद्भूतं भव्यमेव च ॥ ॥१,६।३२च्द्।
मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः ॥ ॥१,६।३३अब्।
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ॥१,६।३३च्द्।
तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत् ॥ ॥१,६।३४अब्।
सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः ॥ ॥१,६।३४च्द्।
१ विचेतोति प्रयोगस्त्वार्षत्वेन, ऽव्यत्ययो बहुलम्ऽ इति स्मरणेन साधुः
५०८ब्
स्रष्टारमपि विश्वस्य वेष्टितारं च तस्य तु ॥ ॥१,६।३५अब्।
शिवमेवेश्वरं ज्ञात्वा शान्तिमत्यन्तमृच्छति ॥ ॥१,६।३५च्द्।
स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः ॥ ॥१,६।३६अब्।
तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते ॥ ॥१,६।३६च्द्।
घृतात्परं मण्डमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम् ॥ ॥१,६।३७अब्।
सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते ॥ ॥१,६।३७च्द्।
एष एव परो देवो विश्वकर्मा महेश्वरः ॥ ॥१,६।३८अब्।
हृदये सन्निविष्टं तं ज्ञात्वैवामृतमश्नुते ॥ ॥१,६।३८च्द्।
यदा समस्तं न दिवा न रात्रिर्न सदप्यसत् ॥ ॥१,६।३९अब्।
केवलश्शिव एवैको यतः प्रज्ञा पुरातनी ॥ ॥१,६।३९च्द्।
नैनमूर्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत् ॥ ॥१,६।४०अब्।
न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः ॥ ॥१,६।४०च्द्।
अजातमिममेवैके बुद्धा जन्मनि भीरवः ॥ ॥१,६।४१अब्।
रुद्रस्यास्य प्रपद्यन्ते रक्षार्थं दक्षिणं सुखम् ॥ ॥१,६।४१च्द्।
द्वे अक्षरे ब्रह्मपरे त्वनन्ते समुदाहृते ॥ ॥१,६।४२अब्।
विद्याविद्ये समाख्याते निहिते यत्र गूढवत् ॥ ॥१,६।४२च्द्।
क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ॥ ॥१,६।४३अब्।
ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः ॥ ॥१,६।४३च्द्।
एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः ॥ ॥१,६।४४अब्।
सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान् ॥ ॥१,६।४४च्द्।
दिश ऊर्ध्वमधस्तिर्यक् भासयन् भ्राजते स्वयम् ॥ ॥१,६।४५अब्।
यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति ॥ ॥१,६।४५च्द्।
स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् ॥ ॥१,६।४६अब्।
गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति ॥ ॥१,६।४६च्द्।
ते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ॥ ॥१,६।४७अब्।
ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः ॥ ॥१,६।४७च्द्।
भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् ॥ ॥१,६।४८अब्।
कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ ॥१,६।४८च्द्।
स्वभावमेके मन्यन्ते कालमेके विमोहिताः ॥ ॥१,६।४९अब्।
देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत् ॥ ॥१,६।४९च्द्।
येनेदमावृतं नित्यं कालकालात्मना यतः ॥ ॥१,६।५०अब्।
तेनेरितमिदं कर्म भूतैः सह विवर्तते ॥ ॥१,६।५०च्द्।
तत्कर्म भूयशः कृत्वा विनिवृत्य च भूयशः ॥ ॥१,६।५१अब्।
तत्त्वस्य सह तत्त्वेन योगं चापि समेत्य वै ॥ ॥१,६।५१च्द्।
अष्टाभिश्च त्रिभिश्चैवं द्वाभ्यां चैकेन वा पुनः ॥ ॥१,६।५२अब्।
कालेनात्मगुणैश्चापि कृत्स्नमेव जगत् स्वयम् ॥ ॥१,६।५२च्द्।
गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत् ॥ ॥१,६।५३अब्।
तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः ॥ ॥१,६।५३च्द्।
कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः ॥ ॥१,६।५४अब्।
स एवादिस्स्वयं योगनिमित्तं भोक्तृभोगयोः ॥ ॥१,६।५४च्द्।
परस्त्रिकालादकलस्स एव परमेश्वरः ॥ ॥१,६।५५अब्।
सर्ववित् त्रिगुणाधीशो ब्रह्मसाक्षात्परात्परः ॥ ॥१,६।५५च्द्।
तं विश्वरूपमभवं भवमीड्यं प्रजापतिम् ॥ ॥१,६।५६अब्।
५०९अ
देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे ॥ ॥१,६।५६च्द्।
कालादिभिः परो यस्मात्प्रपञ्चः परिवर्तते ॥ ॥१,६।५७अब्।
धर्मावहं पापनुदं भोगेशं विश्वधाम च ॥ ॥१,६।५७च्द्।
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ॥ ॥१,६।५८अब्।
पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेश्वरेश्वरम् ॥ ॥१,६।५८च्द्।
न तस्य विद्येत कार्यं कारणं च न विद्यते ॥ ॥१,६।५९अब्।
न तत्समो ऽधिकश्चापि क्वचिज्जगति दृश्यते ॥ ॥१,६।५९च्द्।
परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ॥ ॥१,६।६०अब्।
ज्ञानं बलं क्रिया चैव याभ्यो विश्वमिदं कृतम् ॥ ॥१,६।६०च्द्।
तस्यास्ति पतिः कश्चिन्नैव लिङ्गं न चेशिता ॥ ॥१,६।६१अब्।
कारणं कारणानां च स तेषामधिपाधिपः ॥ ॥१,६।६१च्द्।
न चास्य जनिता कश्चिन्न च जन्म कुतश्चन ॥ ॥१,६।६२अब्।
न जन्महेतवस्तद्वन्मलमायादिसञ्ज्ञकाः ॥ ॥१,६।६२च्द्।
स एकस्सर्वभूतेषु गूढो व्याप्तश्च विश्वतः ॥ ॥१,६।६३अब्।
सर्वभूतान्तरात्मा च धर्माध्यक्षस्स कथ्यते ॥ ॥१,६।६३च्द्।
सर्वभूताधिवासश्च साक्षी चेता च निर्गुणः ॥ ॥१,६।६४अब्।
एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् ॥ ॥१,६।६४च्द्।
नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ॥ ॥१,६।६५अब्।
एको बहूनां चाकामः कामानीशः प्रयच्छति ॥ ॥१,६।६५च्द्।
साङ्ख्ययोगाधिगम्यं यत्कारणं जगतां पतिम् ॥ ॥१,६।६६अब्।
ज्ञात्वा देवं पशुः पाशैस्सर्वैरेव विमुच्यते ॥ ॥१,६।६६च्द्।
विश्वकृद्विश्ववित्स्वात्मयोनिज्ञः कालकृद्गुणी ॥ ॥१,६।६७अब्।
प्रधानः क्षेत्रज्ञपतिर्गुणेशः पाशमोचकः ॥ ॥१,६।६७च्द्।
ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् ॥ ॥१,६।६८अब्।
यो देवस्तमहं बुद्ध्वा स्वात्मबुद्धिप्रसादतः ॥ ॥१,६।६८च्द्।
मुमुक्षुरस्मात्संसारात्प्रपद्ये शरणं शिवम् ॥ ॥१,६।६९अब्।
निष्फलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ॥ ॥१,६।६९च्द्।
अमृतस्य परं सेतुं दग्धेन्धनमिवानिलम् ॥ ॥१,६।७०अब्।
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ॥ ॥१,६।७०च्द्।
तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ ॥१,६।७१अब्।
तपःप्रभावाद्देवस्य प्रसादाच्च महर्षयः ॥ ॥१,६।७२अब्।
अत्याश्रमोचितज्ञानं पवित्रं पापनाशनम् ॥ ॥१,६।७२च्द्।
वेदान्ते परमं गुह्यं पुराकल्पप्रचोदितम् ॥ ॥१,६।७३अब्।
ब्रह्मणो वदनाल्लब्धं मयेदं भाग्यगौरवात् ॥ ॥१,६।७३च्द्।
नाप्रशान्ताय दातव्यमेतज्ज्ञानमनुत्तमम् ॥ ॥१,६।७४अब्।
न पुत्रायाशुवृत्ताय नाशिष्याय च सर्वथा ॥ ॥१,६।७४च्द्।
यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ॥ ॥१,६।७५अब्।
तस्यैते कथिताह्यर्थाः प्रकाशन्ते महात्मनः ॥ ॥१,६।७५च्द्।
अतश्च सङ्क्षेपमिदं शृणुध्वं शिवः परस्तात्प्रकृतेश्च पुंसः ॥ ॥१,६।७६अब्।
स सर्गकाले च करोति सर्वं संहारकाले पुनराददाति ॥ ॥१,६।७६च्द्।
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः
५०९ब्