०५ शिवतत्त्वज्ञानवर्णनम्

सूत उवाच
तत्र पूर्वं महाभागा नैमिषारण्यवासिनः ॥ ॥१,५।१अब्।
प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम् ॥ ॥१,५।१च्द्।
नैमिषीया ऊचुः
भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् ॥ ॥१,५।२अब्।
कथं च शिवभावस्ते ब्रह्मणो ऽव्यक्तजन्मनः ॥ ॥१,५।२च्द्।
वायुरुवाच
एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः ॥ ॥१,५।३अब्।
तस्मिन्कल्पे चतुर्वक्त्रस्स्रष्टुकामो ऽतपत्तपः ॥ ॥१,५।३च्द्।
तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् ॥ ॥१,५।४अब्।
दिव्यं कौमारमास्थाय रूपं रूपवतां वरः ॥ ॥१,५।४च्द्।
श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् ॥ ॥१,५।५अब्।
दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः ॥ ॥१,५।५च्द्।
तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणो ऽधिपतिं पतिम् ॥ ॥१,५।६अब्।
प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान् ॥ ॥१,५।६च्द्।
ततस्स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः ॥ ॥१,५।७अब्।
असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ॥१,५।७च्द्।
यतश्श्रुत्वामृतं लब्धं ब्रह्मणा परमेश्वरात् ॥ ॥१,५।८अब्।
ततस्तद्वदनादेव मया लब्धं तपोबलात् ॥ ॥१,५।८च्द्।
मुनय ऊचुः
किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यन्तरं शुभम् ॥ ॥१,५।९अब्।
यत्र कृत्वा परां निष्ठां पुरुषस्सुखमृच्छति ॥ ॥१,५।९च्द्।
वयुरुवाच
पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा ॥ ॥१,५।१०अब्।
तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना ॥ ॥१,५।१०च्द्।
अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्तते ॥ ॥१,५।११अब्।
ज्ञानं वस्तुपरिच्छेदो वस्तु च द्विविधं स्मृतम् ॥ ॥१,५।११च्द्।
अजडं च जडं चैव नियन्तृ च तयोरपि ॥ ॥१,५।१२अब्।
पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात् ॥ ॥१,५।१२च्द्।
अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ॥ ॥१,५।१३अब्।
तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः ॥ ॥१,५।१३च्द्।
अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः ॥ ॥१,५।१४अब्।
क्षराक्षरपरं यत्तत्पतिरित्यभिधीयते ॥ ॥१,५।१४च्द्।
मुनय ऊचुः
किं तदक्षरमित्युक्तं किं च क्षरमुदाहृतम् ॥ ॥१,५।१५अब्।
तयोश्च परमं किं वा तदेतद् ब्रूहि मारुत ॥ ॥१,५।१५च्द्।
वायुरुवाच
प्रकृतिः क्षरमित्युक्तं पुरुषो ऽक्षर उच्यते ॥ ॥१,५।१६अब्।
ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः ॥ ॥१,५।१६च्द्।
मुनय ऊचुः
कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः ॥ ॥१,५।१७अब्।
अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः ॥ ॥१,५।१७च्द्।
वायुरुवाच
माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ॥ ॥१,५।१८अब्।
सम्बन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ ॥१,५।१८च्द्।
मुनय ऊचुः
केयं माया समा ख्याता किंरूपो मायया वृतः ॥ ॥१,५।१९अब्।
मूलं कीदृक् कुतो वास्य किं शिवत्वं कुतश्शिवः ॥ ॥१,५।१९च्द्।
वायुरुवाच
माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ॥ ॥१,५।२०अब्।
५०६ब्

मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः ॥ ॥१,५।२०च्द्।
मुनय ऊचुः
आवृणोति कथं माया व्यापिनं केन हेतुना ॥ ॥१,५।२१अब्।
किमर्थं चावृतिः पुंसः केन वा विनिवर्तते ॥ ॥१,५।२१च्द्।
वायुरुवाच
आवृतिर्व्यपिनो ऽपि स्याद्व्यापि यस्मात्कलाद्यपि ॥ ॥१,५।२२अब्।
हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात् ॥ ॥१,५।२२च्द्।
मुनय ऊचुः
कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् ॥ ॥१,५।२३अब्।
तत्किमादि किमन्तं वा किं फलं वा किमाश्रयम् ॥ ॥१,५।२३च्द्।
कस्य भोगेन किं भोग्यं किं वा तद्भोगसाधनम् ॥ ॥१,५।२४अब्।
मलक्षयस्य को हेतुः कीदृक् क्षीणमलः पुमान् ॥ ॥१,५।२४च्द्।
वायुरुवाच
कला विद्या च रागश्च कालो नियतिरेव च ॥ ॥१,५।२५अब्।
कलादयस्समाख्याता यो भोक्ता पुरुषो भवेत् ॥ ॥१,५।२५च्द्।
पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत् ॥ ॥१,५।२६अब्।
अनादिमलभोगान्तमज्ञानात्मसमाश्रयम् ॥ ॥१,५।२६च्द्।
भोगः कर्मविनाशाय भोगमव्यक्तमुच्यते ॥ ॥१,५।२७अब्।
बाह्यान्तःकरणद्वारं शरीरं भोगसाधनम् ॥ ॥१,५।२७च्द्।
भावातिशयलब्धेन प्रसादेन मलक्षयः ॥ ॥१,५।२८अब्।
क्षीणे चात्ममले तस्मिन् पुमाञ्च्छिवसमो भवेत् ॥ ॥१,५।२८च्द्।
मुनय ऊचुः
कलादिपञ्चतत्त्वानां किं कर्म पृथगुच्यते ॥ ॥१,५।२९अब्।
भोक्तेति पुरुषश्चेति येनात्मा व्यपदिश्यते ॥ ॥१,५।२९च्द्।
किमात्मकं तदव्यक्तं केनाकारेण भुज्यते ॥ ॥१,५।३०अब्।
किं तस्य शरणं भुक्तौ शरीरं च किमुच्यते ॥ ॥१,५।३०च्द्।
वायुरुवाच
दिक्क्रियाव्यञ्जका विद्या कालो रागः प्रवर्तकः ॥ ॥१,५।३१अब्।
कालो ऽवच्छेदकस्तत्र नियतिस्तु नियामिका ॥ ॥१,५।३१च्द्।
अव्यक्तं कारणं यत्तत्त्रिगुणं प्रभवाप्ययम् ॥ ॥१,५।३२अब्।
प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥ ॥१,५।३२च्द्।
कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् ॥ ॥१,५।३३अब्।
सुखदुःखविमोहात्मा भुज्यते गुणवांस्त्रिधा ॥ ॥१,५।३३च्द्।
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ॥ ॥१,५।३४अब्।
प्रकृतौ सूक्ष्मरूपेण तिले तैलमिव स्थिताः ॥ ॥१,५।३४च्द्।
सुखं च सुखहेतुश्च समासात्सात्त्विकं स्मृतम् ॥ ॥१,५।३५अब्।
राजसं तद्विपर्यासात्स्तम्भमोहौ तु तामसौ ॥ ॥१,५।३५च्द्।
सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः ॥ ॥१,५।३६अब्।
मध्यमा तु गतिर्या सा राजसी परिपठ्यते ॥ ॥१,५।३६च्द्।
तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च ॥ ॥१,५।३७अब्।
ज्ञानेन्द्रियाणि पञ्चैक्यं पञ्च कर्मेन्द्रियाणि च ॥ ॥१,५।३७च्द्।
प्रधानबुद्ध्यहङ्कारमनांसि च चतुष्टयम् ॥ ॥१,५।३८अब्।
समासादेवमव्यक्तं सविकारमुदाहृतम् ॥ ॥१,५।३८च्द्।
तत्कारणदशापन्नमव्यक्तमिति कथ्यते ॥ ॥१,५।३९अब्।
व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत् ॥ ॥१,५।३९च्द्।
५०७अ

यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते ॥ ॥१,५।४०अब्।
शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते ॥ ॥१,५।४०च्द्।
तस्मादव्यक्तमेवैक्यकारणं करणानि च ॥ ॥१,५।४१अब्।
शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥ ॥१,५।४१च्द्।
मुनय ऊचुः
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् ॥ ॥१,५।४२अब्।
आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः ॥ ॥१,५।४२च्द्।
वायुरुवाच
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् ॥ ॥१,५।४३अब्।
अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः ॥ ॥१,५।४३च्द्।
बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते ॥ ॥१,५।४४अब्।
स्मृतेरनियतज्ञानादयावद्देहवेदनात् ॥ ॥१,५।४४च्द्।
अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः ॥ ॥१,५।४५अब्।
अन्तर्यामीति वेदेषु वेदान्तेषु च गीयते ॥ ॥१,५।४५च्द्।
सर्वं तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः ॥ ॥१,५।४६अब्।
तथापि क्वापि केनापि व्यक्तमेष न दृश्यते ॥ ॥१,५।४६च्द्।
नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रियैरपि ॥ ॥१,५।४७अब्।
मनसैव प्रदीप्तेन महानात्मावसीयते १ ॥ ॥१,५।४७च्द्।
न च स्त्री न पुमानेष नैव चापि नपुंसकः ॥ ॥१,५।४८अब्।
नैवोर्ध्वं नापि तिर्यक् नाधस्तान्न कुतश्चन ॥ ॥१,५।४८च्द्।
अशरीरं शरीरेषु चलेषु स्थाणुमव्ययम् ॥ ॥१,५।४९अब्।
सदा पश्यति तं धीरो नरः प्रत्यवमर्शनात् ॥ ॥१,५।४९च्द्।
किमत्र बहुनोक्तेन पुरुषो देहतः पृथक् ॥ ॥१,५।५०अब्।
अपृथग्ये तु पश्यन्ति ह्यसम्यक्तेषु दर्शनम् ॥ ॥१,५।५०च्द्।
यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् ॥ ॥१,५।५१अब्।
अशुद्धमवशं दुःखमध्रुवं न च विद्यते ॥ ॥१,५।५१च्द्।
विपदां वीजभूतेन पुरुषस्तेन संयुतः ॥ ॥१,५।५२अब्।
सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा ॥ ॥१,५।५२च्द्।
अद्भिराप्लवितं क्षेत्रं जनयत्यङ्कुरं यथा ॥ ॥१,५।५३अब्।
आज्ञानात्प्लावितं कर्म देहं जनयते तथा ॥ ॥१,५।५३च्द्।
अत्यन्तमसुखावासास्स्मृताश्चैकान्तमृत्यवः ॥ ॥१,५।५४अब्।
अनागता अतीताश्च तनवो ऽस्य सहस्रशः ॥ ॥१,५।५४च्द्।
आगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः ॥ ॥१,५।५५अब्।
अत्यन्तवसतिः क्वापि न केनापि च लभ्यते ॥ ॥१,५।५५च्द्।
छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते ॥ ॥१,५।५६अब्।
चन्द्रबिम्बवदाकाशे तरलैरभ्रसञ्चयैः ॥ ॥१,५।५६च्द्।
अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ॥ ॥१,५।५७अब्।
अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते ॥ ॥१,५।५७च्द्।
नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् ॥ ॥१,५।५८अब्।
पथि सङ्गम एवायं दारैः पुत्रैश्च बन्धुभिः ॥ ॥१,५।५८च्द्।
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥ ॥१,५।५९अब्।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ ॥१,५।५९च्द्।
स पश्यति शरीरं तच्छरीरं तन्न पश्यति ॥ ॥१,५।६०अब्।
तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः ॥ ॥१,५।६०च्द्।

१ निश्चीयते

५०७ब्

ब्रह्माद्याः स्थावरान्तश्च पशवः परिकीर्तिताः ॥ ॥१,५।६१अब्।
पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम् ॥ ॥१,५।६१च्द्।
स एष बध्यते पाशैः सुखदुःखाशनः पशुः ॥ ॥१,५।६२अब्।
लीलासाधनभूतो य ईश्वरस्येति सूरयः ॥ ॥१,५।६२च्द्।
अज्ञो जन्तुरनीशो ऽयमात्मनस्सुखदुःखयोः ॥ ॥१,५।६३अब्।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ ॥१,५।६३च्द्।
सूत उवाच
इत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः ॥ ॥१,५।६४अब्।
प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम् ॥ ॥१,५।६४च्द्।

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम पञ्चमो ऽध्यायः