सूत उवाच
तस्मिन्देशे महाभागा मुनयश्शंसितव्रताः ॥ ॥१,४।१अब्।
अर्चयन्तो महादेवं सत्रमारेभिरे तदा ॥ ॥१,४।१च्द्।
तच्च सत्रं प्रववृते सर्वाश्चर्यं महर्षिणाम् १ ॥ ॥१,४।२अब्।
विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव ॥ ॥१,४।२च्द्।
अथ काले गते सत्रे समाप्ते भूरिदक्षिणे ॥ ॥१,४।३अब्।
पितामहनियोगेन वायुस्तत्रागमत्स्वयम् ॥ ॥१,४।३च्द्।
शिष्यस्स्वयम्भुवो देवस्सर्वप्रत्यक्षदृग्वशी ॥ ॥१,४।४अब्।
आज्ञायां मरुतो यस्य संस्थितास्सप्तसप्तकाः ॥ ॥१,४।४च्द्।
१ दीर्घाभाव आर्षः
५०५ब्
प्रेरयञ्छश्वदङ्गानि प्राणाद्याभिः स्ववृत्तिभिः ॥ ॥१,४।५अब्।
सर्वभूतशरीराणां कुरुते यश्च धारणम् ॥ ॥१,४।५च्द्।
अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः ॥ ॥१,४।६अब्।
तिर्यक्कालादिभिर्मेध्यैर्भुवनानि बिभर्ति यः ॥ ॥१,४।६च्द्।
आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात् ॥ ॥१,४।७अब्।
तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिन्तकाः ॥ ॥१,४।७च्द्।
तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः ॥ ॥१,४।८अब्।
पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः ॥ ॥१,४।८च्द्।
अभ्युत्थाय ततस्सर्वे प्रणम्याम्बरसम्भवम् ॥ ॥१,४।९अब्।
चामीकरमयं तस्मै विष्टरं समकल्पयन् ॥ ॥१,४।९च्द्।
सोपि तत्र समासीनो मुनिभिस्सम्यगर्चितः ॥ ॥१,४।१०अब्।
प्रतिनन्द्य च तान् सर्वान् पप्रच्छ कुशलं ततः ॥ ॥१,४।१०च्द्।
वायुरुवाच
अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ ॥ ॥१,४।११अब्।
कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः ॥ ॥१,४।११च्द्।
प्रायश्चित्तं दुरिष्टं वा न कच्चित्समजायत ॥ ॥१,४।१२अब्।
स्तोत्रशस्त्रगृहैर्देवान् पित्ःन् पित्र्यैश्च कर्मभिः ॥ ॥१,४।१२च्द्।
कच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः ॥ ॥१,४।१३अब्।
निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम् ॥ ॥१,४।१३च्द्।
इत्युक्ता मुनयः सर्वे वायुना शिवभाविना ॥ ॥१,४।१४अब्।
प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः ॥ ॥१,४।१४च्द्।
मुनय ऊचुः
अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः ॥ ॥१,४।१५अब्।
अस्मच्छ्रेयोभिवृद्ध्यर्थं भवानत्रागतो यतः ॥ ॥१,४।१५च्द्।
शृणु चेदं पुरावृत्तं तमसाक्रान्तमानसैः ॥ ॥१,४।१६अब्।
उपासितः पुरास्माभिर्विज्ञानार्थं प्रजापतिः ॥ ॥१,४।१६च्द्।
सोप्यस्माननुगृह्याह शरण्यश्शरणागतान् ॥ ॥१,४।१७अब्।
सर्वस्मादधिको रुद्रो विप्राः परमकारणम् ॥ ॥१,४।१७च्द्।
तमप्रतर्क्यं याथात्म्यं भक्तिमानेव पश्यति ॥ ॥१,४।१८अब्।
भक्तिश्चास्य प्रसादेन प्रसादादेव निर्वृतिः ॥ ॥१,४।१८च्द्।
तस्मादस्य प्रसादार्थं नैमिषे सत्रयोगतः ॥ ॥१,४।१९अब्।
यजध्वं दीर्घसत्रेण रुद्रं परमकारणम् ॥ ॥१,४।१९च्द्।
तत्प्रसादेन सत्रान्ते वायुस्तत्रागमिष्यति ॥ ॥१,४।२०अब्।
तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति ॥ ॥१,४।२०च्द्।
इत्यादिश्य वयं सर्वे प्रेषिता परमेष्ठिना ॥ ॥१,४।२१अब्।
अस्मिन्देशे महाभाग तवागमनकाङ्क्षिणः ॥ ॥१,४।२१च्द्।
दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम् ॥ ॥१,४।२२अब्।
अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किञ्चन ॥ ॥१,४।२२च्द्।
इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम् ॥ ॥१,४।२३अब्।
वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः ॥ ॥१,४।२३च्द्।
ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये ॥ ॥१,४।२४अब्।
सर्गादि शार्वमैश्वर्यं समासाद वदद्विभुः ॥ ॥१,४।२४च्द्।
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वायुसमागमो नाम चतुर्थो ऽध्यायः
५०६अ