०३ नैमिषोपाख्यानम्

ब्रहमोवाच
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ ॥१,३।१अब्।
आनन्दं यस्य वै विद्वान्न बिभेति कुतश्चन ॥ ॥१,३।१च्द्।
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ॥ ॥१,३।२अब्।
सह भूतेन्द्रियैः सर्वैः प्रथमं सम्प्रसूयते ॥ ॥१,३।२च्द्।
कारणानां च यो धाता ध्याता परमकारणम् ॥ ॥१,३।३अब्।
न सम्प्रसूयते ऽन्यस्मात्कुतश्चन कदाचन ॥ ॥१,३।३च्द्।
सर्वैश्वर्येण सम्पन्नो नाम्ना सर्वेश्वरः स्वयम् ॥ ॥१,३।४अब्।
सर्वैर्मुमुक्षुभिर्ध्येयश्शम्भुराकाशमध्यगः ॥ ॥१,३।४च्द्।
यो ऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे ॥ ॥१,३।५अब्।
तत्प्रसादान्मयालब्धं प्राजापत्यमिदं पदम् ॥ ॥१,३।५च्द्।
ईशो वृक्ष इव स्तब्धो य एको दिवि तिष्ठति ॥ ॥१,३।६अब्।
येनेदमखिलं पूर्णं पुरुषेण महात्मना ॥ ॥१,३।६च्द्।
५०४अ

एको बहूनां जन्तूनां निष्क्रियाणां च सक्रियः ॥ ॥१,३।७अब्।
य एको बहुधा बीजं करोति स महेश्वरः ॥ ॥१,३।७च्द्।
जीवैरेभिरिमांल्लोकान्सर्वानीशो य ईशते १ ॥ ॥१,३।८अब्।
य एको भागवान्रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ ॥१,३।८च्द्।
सदा जनानां हृदये सन्निविष्टो ऽपि यः परैः ॥ ॥१,३।९अब्।
अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा ॥ ॥१,३।९च्द्।
यस्तु कालात्प्रमुक्तानि कारणान्यखिलान्यपि ॥ ॥१,३।१०अब्।
अनन्तशक्तिरेवैको भगवानधितिष्ठति ॥ ॥१,३।१०च्द्।
न यस्य दिवसो रात्रिर्न समानो न चाधिकः ॥ ॥१,३।११अब्।
स्वभाविकी पराशक्तिर्नित्या ज्ञानक्रिये अपि ॥ ॥१,३।११च्द्।
यदिदं क्षरमव्यक्तं यदप्यमृतमक्षरम् ॥ ॥१,३।१२अब्।
तावुभावक्षरात्मानावेको देवः स्वयं हरः ॥ ॥१,३।१२च्द्।
ईशते तदभिध्यानाद्योजनासत्त्वभावनः ॥ ॥१,३।१३अब्।
भूयो ह्यस्य पशोरन्ते विश्वमाया निवर्तते ॥ ॥१,३।१३च्द्।
यस्मिन्न भासते विद्युन्न सूर्यो न च चन्द्रमाः ॥ ॥१,३।१४अब्।
यस्य भासा विभातीदमित्येषा शाश्वती श्रुतिः ॥ ॥१,३।१४च्द्।
एको देवो महादेवो विज्ञेयस्तु महेश्वरः ॥ ॥१,३।१५अब्।
न तस्य परमं किञ्चित्पदं समधिगम्यते ॥ ॥१,३।१५च्द्।
अयमादिरनाद्यन्तस्स्वभावादेव निर्मलः ॥ ॥१,३।१६अब्।
स्वतन्त्रः परिपूर्णश्च स्वेच्छाधीनश्चराचरः ॥ ॥१,३।१६च्द्।
अप्राकृतवपुः श्रीमांल्लक्ष्यलक्षणवर्जितः ॥ ॥१,३।१७अब्।
अयं मुक्तो मोचकश्च ह्यकालः कालचोदकः ॥ ॥१,३।१७च्द्।
सर्वोपरिकृतावासस्सर्वावासश्च सर्ववित् ॥ ॥१,३।१८अब्।
षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः ॥ ॥१,३।१८च्द्।
उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ॥ ॥१,३।१९अब्।
अनन्तानन्तसन्दोहमकरन्दमधुव्रतः ॥ ॥१,३।१९च्द्।
अखण्डजगदण्डानां पिण्डीकरणपण्डितः ॥ ॥१,३।२०अब्।
औदार्यवीर्यगाम्भीर्यमाधुर्यमकरालयः ॥ ॥१,३।२०च्द्।
नैवास्य सदृशं वस्तु नाधिकं चापि किञ्चन ॥ ॥१,३।२१अब्।
अतुलः सर्वभूतानां राजराजश्च तिष्ठति ॥ ॥१,३।२१च्द्।
अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ ॥१,३।२२अब्।
अन्तकाले पुनश्चेदं तस्मिन्प्रलयमेष्यते ॥ ॥१,३।२२च्द्।
अस्य भूतानि वश्यानि अयं सर्वनियोजकः ॥ ॥१,३।२३अब्।
अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित् ॥ ॥१,३।२३च्द्।
व्रतानि सर्वदानानि तपांसि नियमास्तथा ॥ ॥१,३।२४अब्।
कथितानि पुरा सद्भिर्भावार्थं नात्र संशयः ॥ ॥१,३।२४च्द्।
हरिश्चाहं च रुद्रश्च तथान्ये च सुरासुराः ॥ ॥१,३।२५अब्।
तपोभिरुग्रैरद्यापि तस्य दर्शनकाङ्क्षिणः ॥ ॥१,३।२५च्द्।
अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः ॥ ॥१,३।२६अब्।
भक्तैरन्तर्बहिश्चापि पूज्यः सम्भाष्य एव च ॥ ॥१,३।२६च्द्।
तदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् ॥ ॥१,३।२७अब्।
अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः ॥ ॥१,३।२७च्द्।

१ शपो लुगभाव आर्ष
५०४ब्

ततः परं तु यन्नित्यं ज्ञानमानन्दमव्ययम् ॥ ॥१,३।२८अब्।
तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमाश्रितैः ॥ ॥१,३।२८च्द्।
बहुनात्र किमुक्तेन गुह्याद्गुह्यतरं परम् ॥ ॥१,३।२९अब्।
शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते ॥ ॥१,३।२९च्द्।
प्रसादादेव सा भक्तिः प्रसादो भक्तिसम्भवः ॥ ॥१,३।३०अब्।
यथा चाङ्कुरतो बीजं बीजतो वा यथाङ्कुरः ॥ ॥१,३।३०च्द्।
प्रसादपूर्विका एव पशोस्सर्वत्र सिद्धयः ॥ ॥१,३।३१अब्।
स एव साधनैरन्ते सर्वैरपि च साध्यते ॥ ॥१,३।३१च्द्।
प्रसादसाधनं धर्मस्स च वेदेन दर्शितः ॥ ॥१,३।३२अब्।
तदभ्यासवशात्साम्यं पूर्वयोः पुण्यपापयोः ॥ ॥१,३।३२च्द्।
साम्यात्प्रसादसम्पर्को धर्मस्यातिशयस्ततः ॥ ॥१,३।३३अब्।
धर्मातिशयमासाद्य पशोः पापपरिक्षयः ॥ ॥१,३।३३च्द्।
एवं प्रक्षीणपापस्य बहुभिर्जन्मभिः क्रमात् ॥ ॥१,३।३४अब्।
साम्बे सर्वेश्वरे भक्तिर्ज्ञानपूर्वा प्रजायते ॥ ॥१,३।३४च्द्।
भावानुगुणमीशस्य प्रसादो व्यतिरिच्यते ॥ ॥१,३।३५अब्।
प्रसादात्कर्मसन्त्यागः फलतो न स्वरूपतः ॥ ॥१,३।३५च्द्।
तस्मात्कर्मफलत्यागाच्छिवधर्मान्वयः शुभः ॥ ॥१,३।३६अब्।
स च गुर्वनपेक्षश्च तदपेक्ष इति द्विधा ॥ ॥१,३।३६च्द्।
तत्रानपेक्षात्सापेक्षो मुख्यः शतगुणाधिकः ॥ ॥१,३।३७अब्।
शिवधर्मान्वयस्यास्य शिवज्ञानसमन्वयः ॥ ॥१,३।३७च्द्।
ज्ञनान्वयवशात्पुंसः संसारे दोषदर्शनम् ॥ ॥१,३।३८अब्।
ततो विषयवैराग्यं वैराग्याद्भावसाधनम् ॥ ॥१,३।३८च्द्।
भावसिद्ध्युपपन्नस्य ध्याने निष्ठा न कर्मणि ॥ ॥१,३।३९अब्।
ज्ञानध्यानाभियुक्तस्य पुंसो योगः प्रवर्तते ॥ ॥१,३।३९च्द्।
योगेन तु परा भक्तिः प्रसादस्तदनन्तरम् ॥ ॥१,३।४०अब्।
प्रसादान्मुच्यते जन्तुर्मुक्तः शिवसमो भवेत् ॥ ॥१,३।४०च्द्।
अनुग्रहप्रकारस्य क्रमो ऽयमविवक्षितः ॥ ॥१,३।४१अब्।
यादृशी योग्यता पुंसस्तस्य तादृगनुग्रहः ॥ ॥१,३।४१च्द्।
गर्भस्थो मुच्यते कश्चिज्जायमानस्तथापरः ॥ ॥१,३।४२अब्।
बालो वा तरुणो वाथ वृद्धो वा मुच्यते परः ॥ ॥१,३।४२च्द्।
तिर्यग्योनिगतः कश्चिन्मुच्यते नारको ऽपरः ॥ ॥१,३।४३अब्।
अपरस्तु पदं प्राप्तो मुच्यते स्वपदक्षये ॥ ॥१,३।४३च्द्।
कश्चित्क्षीणपदो भूत्वा पुनरावर्त्य मुच्यते ॥ ॥१,३।४४अब्।
कश्चिदध्वगतस्तस्मिन् स्थित्वास्थित्वा विमुच्यते ॥ ॥१,३।४४च्द्।
तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते ॥ ॥१,३।४५अब्।
ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः ॥ ॥१,३।४५च्द्।
तस्मादस्य प्रसादार्थं वाङ्मनोदोषवर्जिताः ॥ ॥१,३।४६अब्।
ध्यायन्तश्शिवमेवैकं सदारतनयाग्नयः ॥ ॥१,३।४६च्द्।
तन्निष्ठास्तत्परास्सर्वे तद्युक्तास्तदुपाश्रयाः ॥ ॥१,३।४७अब्।
सर्वक्रियाः प्रकुर्वाणास्तमेव मनसागताः ॥ ॥१,३।४७च्द्।
दीर्घसूत्रसमारब्धं दिव्यवर्षसहस्रकम् ॥ ॥१,३।४८अब्।
सत्रान्ते मन्त्रयोगेन वायुस्तत्र गमिष्यति ॥ ॥१,३।४८च्द्।
स एव भवतः श्रेयः सोपायं कथयिष्यति ॥ ॥१,३।४९अब्।
५०५अ

ततो वाराणसी पुण्या पुरी परमशोभना ॥ ॥१,३।४९च्द्।
गन्तव्या यत्र विश्वेशो देव्या सह पिनाकधृक् ॥ ॥१,३।५०अब्।
सदा विहरति श्रीमान् भक्तानुग्रहकारणात् ॥ ॥१,३।५०च्द्।
तत्राश्चर्यं महद्दृष्ट्वा मत्समीपं गमिष्यथ ॥ ॥१,३।५१अब्।
ततो वः कथयिष्यामि मोक्षोपाय द्विजोत्तमाः ॥ ॥१,३।५१च्द्।
येनैकजन्मना मुक्तिर्युष्मत्करतले स्थिता ॥ ॥१,३।५२अब्।
अनेकजन्मसंसारबन्धनिर्मोक्षकारिणी ॥ ॥१,३।५२च्द्।
एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते ॥ ॥१,३।५३अब्।
यत्रास्य शीर्यते नेमिः स देशस्तपसश्शुभः ॥ ॥१,३।५३च्द्।
इत्युक्त्वा सूर्यसङ्काशं चक्रं दृष्ट्वा मनोमयम् ॥ ॥१,३।५४अब्।
प्रणिपत्य महादेवं विससर्ज पितामहः ॥ ॥१,३।५४च्द्।
ते ऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम् ॥ ॥१,३।५५अब्।
प्रययुस्तस्य चक्रस्य यत्र नेमिरशीर्यत ॥ ॥१,३।५५च्द्।
चक्रं तदपि सङ्क्षिप्तं श्लक्ष्णं चारुशिलातले ॥ ॥१,३।५६अब्।
विमलस्वादुपानीये निजपात वने क्वचित् ॥ ॥१,३।५६च्द्।
तद्वनं तेन विख्यातं नैमिषं मुनिपूजितम् ॥ ॥१,३।५७अब्।
अनेकयक्षगन्धर्वविद्याधरसमाकुलम् ॥ ॥१,३।५७च्द्।
अष्टादश समुद्रस्य द्वीपानश्नन्पुरूरवाः ॥ ॥१,३।५८अब्।
विलासवशमुर्वश्या यातो दैवेन चोदितः ॥ ॥१,३।५८च्द्।
अक्रमेण हरन्मोहाद्यज्ञवाटं हिरण्मयम् ॥ ॥१,३।५९अब्।
मुनिभिर्यत्र सङ्क्रुद्धैः कुशवज्रैर्निपातितः ॥ ॥१,३।५९च्द्।
विश्वं सिसृक्षमाणा वै यत्र विश्वसृजः पुरा ॥ ॥१,३।६०अब्।
सत्रमारेभिरे दिव्यं ब्रह्मज्ञा गार्हपत्यगाः ॥ ॥१,३।६०च्द्।
ऋषिभिर्यत्र विद्वद्भिः शब्दार्थन्यायकोविदैः ॥ ॥१,३।६१अब्।
शक्तिप्रज्ञाक्रियायोगैर्विधिरासीदनुष्ठितः ॥ ॥१,३।६१च्द्।
यत्र वेदविदो नित्यं वेदवादबहिष्कृतान् ॥ ॥१,३।६२अब्।
वादजल्पबलैर्घ्नन्ति वचोभिरतिवादिनः ॥ ॥१,३।६२च्द्।
स्फटिकमयमहीभृत्पादजाभ्यश्शिलाभ्यः प्रसरदमृतकल्पस्स्वच्छपानीयरम्यम् ॥ ॥१,३।६३अब्।
अतिरसफलवृक्षप्रायमव्यालसत्त्वं तपस उचितमासीन्नैमिषं तन्मुनीनाम् ॥ ॥१,३।६३च्द्।

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं नाम तृतीयो ऽध्यायः