०२ मुनिप्रस्ताववर्णनम्

सूत उवाच
पुरा कालेन महता कल्पेतीते पुनःपुनः ॥ ॥१,२।१अब्।
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्ठिकर्मणि ॥ ॥१,२।१च्द्।
प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च ॥ ॥१,२।२अब्।
मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम् ॥ ॥१,२।२च्द्।
इदं परमिदं नेति विवादस्सुमहानभूत् ॥ ॥१,२।३अब्।
परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः ॥ ॥१,२।३च्द्।
ते ऽभिजग्मुर्विधातारं द्रष्टुं ब्रह्माणमव्ययम् ॥ ॥१,२।४अब्।
यत्रास्ते भगवान् ब्रह्मा स्तूयमानस्सुरासुरैः ॥ ॥१,२।४च्द्।
मेरुशृङ्गे शुभे रम्ये देवदानवसङ्कुले ॥ ॥१,२।५अब्।
सिद्धचारणसंवादे यक्षगन्धर्वसेविते ॥ ॥१,२।५च्द्।
विहङ्गसङ्घसङ्घुष्टे मणिविद्रुमभूषिते ॥ ॥१,२।६अब्।
निकुञ्जकन्दरदरीगृहानिर्झरशोभिते ॥ ॥१,२।६च्द्।
तत्र ब्रह्मवनं नाम नानामृगसमाकुलम् ॥ ॥१,२।७अब्।
दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ ॥१,२।७च्द्।
सुरसामलपानीयपूर्णरम्यसरोवरम् ॥ ॥१,२।८अब्।
मत्तभ्रमरसञ्छन्नरम्यपुष्पितपादपम् ॥ ॥१,२।८च्द्।
तरुणादित्यसङ्काशं तत्र चारु महत्पुरम् ॥ ॥१,२।९अब्।
दुर्धर्षबलदृप्तानां दैत्यदानवरक्षसाम् ॥ ॥१,२।९च्द्।
तप्तजाम्बूनदमयं प्रांशुप्राकारतोरणम् ॥ ॥१,२।१०अब्।
निर्व्यूहवलभीकूटप्रतोलीशतमण्डितम् ॥ ॥१,२।१०च्द्।
महार्हमणिचित्राभिर्लेलिहानमिवाम्बरम् ॥ ॥१,२।११अब्।
महाभवनकोटीभिरनेकाभिरलङ्कृतम् ॥ ॥१,२।११च्द्।
तस्मिन्निवसति ब्रह्मा सभ्यैः सार्धं प्रजापतिः ॥ ॥१,२।१२अब्।
तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम् ॥ ॥१,२।१२च्द्।
दद्दशुर्मुनयो देवा देवर्षिगणसेवितम् ॥ ॥१,२।१३अब्।
शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम् ॥ ॥१,२।१३च्द्।
प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम् ॥ ॥१,२।१४अब्।
दिव्यकान्तिसमायुक्तं दिव्यगन्धानुलेपनम् ॥ ॥१,२।१४च्द्।
दिव्यशुक्लाम्बरधरं दिव्यमालाविभूषितम् ॥ ॥१,२।१५अब्।
सुरासुरेन्द्रयोगीन्द्रवन्द्यमानपदाम्बुजम् ॥ ॥१,२।१५च्द्।
सर्वलक्षणयुक्ताङ्ग्या लब्धचामरहस्तया ॥ ॥१,२।१६अब्।
भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम् ॥ ॥१,२।१६च्द्।
तं दृष्ट्वा मुनयस्सर्वे प्रसन्नवदनेक्षणाः ॥ ॥१,२।१७अब्।
शिरस्यञ्जलिमाधाय तुष्टुवुस्सुरपुङ्गवम् ॥ ॥१,२।१७च्द्।
मुनय ऊचुः
नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यन्तहेतवे ॥ ॥१,२।१८अब्।
पुरुषाय पुराणाय ब्रह्मणे परमात्मने ॥ ॥१,२।१८च्द्।
नमः प्रधानदेहाय प्रधानक्षोभकारिणे ॥ ॥१,२।१९अब्।
त्रयोविंशतिभेदेन विकृतायाविकारिणे ॥ ॥१,२।१९च्द्।
नमो ब्रह्माण्डदेहाय ब्रह्माण्डोदरवर्तिने ॥ ॥१,२।२०अब्।
तत्र संसिद्धकार्याय संसिद्धकरणाय च ॥ ॥१,२।२०च्द्।
नमोस्तु सर्वलोकाय सर्वलोकविधायिने ॥ ॥१,२।२१अब्।
सर्वात्मदेहसंयोग वियोगविधिहेतवे ॥ ॥१,२।२१च्द्।
त्वयैव निखिलं सृष्टं संहृतं पालितं जगत् ॥ ॥१,२।२२अब्।
तथापि मायया नाथ न विद्मस्त्वां पितामह ॥ ॥१,२।२२च्द्।
सूत उवाच
एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः ॥ ॥१,२।२३अब्।
प्राह गम्भीरया वाचा मुनीन् प्रह्लादयन्निव ॥ ॥१,२।२३च्द्।
ब्रह्मोवाच
ऋषयो हे महाभागा महासत्त्वा महौजसः ॥ ॥१,२।२४अब्।
किमर्थं सहितास्सर्वे यूयमत्र समागताः ॥ ॥१,२।२४च्द्।
तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः ॥ ॥१,२।२५अब्।
वाग्भिर्विनयगर्भाभिस्सर्वे प्राञ्जलयो ऽब्रुवन् ॥ ॥१,२।२५च्द्।
मुनय ऊचुः
भगवन्नन्धकारेण महता वयमावृताः ॥ ॥१,२।२६अब्।
खिन्ना विवदमानाश्च न पश्यामो ऽत्र यत्परम् ॥ ॥१,२।२६च्द्।
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ ॥१,२।२७अब्।
त्वया ह्यविदितं नाथ नेह किञ्चन विद्यते ॥ ॥१,२।२७च्द्।
कः पुमान् सर्वसत्त्वेभ्यः पुराणः पुरुषः परः ॥ ॥१,२।२८अब्।
विशुद्धः परिपूर्णश्च शाश्वतः परमेश्वरः ॥ ॥१,२।२८च्द्।
केनैव चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ ॥१,२।२९अब्।
तत्त्वं वद महाप्राज्ञ स्वसन्देहापनुत्तये ॥ ॥१,२।२९च्द्।
एवं पृष्टस्तदा ब्रह्मा विस्मयस्मेरवीक्षणः ॥ ॥१,२।३०अब्।
देवानां दानवानां च मुनीनामपि सन्निधौ ॥ ॥१,२।३०च्द्।
उत्थाय सुचिरं ध्यात्वा रुद्र इत्युद्धरन् गिरिम् ॥ ॥१,२।३१अब्।
आनन्दक्लिन्नसर्वाङ्गः कृताञ्जलिरभाषत ॥ ॥१,२।३१च्द्।

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे मुनिप्रस्ताववर्णनं नाम द्वितीयो ऽध्यायः