व्यास उवाच
नमश्शिवाय सोमाय सगणाय ससूनवे ॥ ॥१,१।१अब्।
प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ ॥१,१।१च्द्।
शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम् ॥ ॥१,१।२अब्।
स्वामित्वं च विभुत्वं च स्वभावं सम्प्रचक्षते ॥ ॥१,१।२च्द्।
तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् ॥ ॥१,१।३अब्।
महादेवं महात्मानं व्रजामि शरणं शिवम् ॥ ॥१,१।३च्द्।
धर्मक्षेत्रे महातीर्थे गङ्गाकालिन्दिसङ्गमे ॥ ॥१,१।४अब्।
प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि ॥ ॥१,१।४च्द्।
मुनयश्शंसितात्मानः सत्यव्रतपरायणाः ॥ ॥१,१।५अब्।
महौजसो महाभागा महासत्रं वितेनिरे ॥ ॥१,१।५च्द्।
तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् ॥ ॥१,१।६अब्।
साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः ॥ ॥१,१।६च्द्।
शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः ॥ ॥१,१।७अब्।
पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ॥ ॥१,१।७च्द्।
उत्तरोत्तरवक्ता च ब्रुवतो ऽपि बृहस्पतेः ॥ ॥१,१।८अब्।
मधुरः श्रवणानां च मनोज्ञपदपर्वणाम् ॥ ॥१,१।८च्द्।
कथानां निपुणो वक्ता कालविन्नयवित्कविः ॥ ॥१,१।९अब्।
आजगाम स तं देशं सूतः पौराणिकोत्तमः ॥ ॥१,१।९च्द्।
तं दृष्ट्वा सूतमायान्तं मुनयो हृष्टमानसाः ॥ ॥१,१।१०अब्।
तस्मै साम च पूजां च यथावत्प्रत्यपादयन् ॥ ॥१,१।१०च्द्।
प्रतिगृह्य सतां पूजां मुनिभिः प्रतिपादिताम् ॥ ॥१,१।११अब्।
उद्दिष्टमानसं भेजे नियुक्तो युक्तमात्मनः ॥ ॥१,१।११च्द्।
ततस्तत्सङ्गमादेव मुनीनां भावितात्मनाम् ॥ ॥१,१।१२अब्।
सोत्कण्ठमभवच्चितं श्रोतुं पौराणिकीं कथाम् ॥ ॥१,१।१२च्द्।
तदा तमनुकूलाभिर्वाग्भिः पूज्य १ महर्षयः ॥ ॥१,१।१३अब्।
अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन् ॥ ॥१,१।१३च्द्।
ऋषय ऊचुः
रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् ॥ ॥१,१।१४अब्।
सम्प्राप्तोद्य महाभाग शैवराज महामते ॥ ॥१,१।१४च्द्।
पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् ॥ ॥१,१।१५अब्।
तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ ॥१,१।१५च्द्।
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ ॥१,१।१६अब्।
यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥ ॥१,१।१६च्द्।
न तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥ ॥१,१।१७अब्।
त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः ॥ ॥१,१।१७च्द्।
अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥ ॥१,१।१७एफ़्।
तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् ॥ ॥१,१।१८अब्।
वेदान्तसारसर्वस्वं पुराणं श्रावयाशु नः ॥ ॥१,१।१८च्द्।
एवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः ॥ ॥१,१।१९अब्।
श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥ ॥१,१।१९च्द्।
५०२अ
सूत उवाच
पूजितो ऽनुगृहीतश्च भवद्भिरिति चोदितः ॥ ॥१,१।२०अब्।
कस्मात्सम्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥ ॥१,१।२०च्द्।
अभिवन्द्य महादेवं देवीं स्कन्दं विनायकम् ॥ ॥१,१।२१अब्।
नन्दिनं च तथा व्यासं साक्षात्सत्यवतीसुतम् ॥ ॥१,१।२१च्द्।
वक्ष्यामि परमं पुण्यं पुराणं वेदसम्मितम् ॥ ॥१,१।२२अब्।
शिवज्ञानार्णवं साक्षाद्भक्तिमुक्तिफलप्रदम् ॥ ॥१,१।२२च्द्।
शब्दार्थन्यायसंयुक्तै रागमार्थैर्विभूषितम् ॥ ॥१,१।२३अब्।
श्वेतकल्पप्रसङ्गेन वायुना कथितं पुरा ॥ ॥१,१।२३च्द्।
विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा ॥ ॥१,१।२४अब्।
तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत ॥ ॥१,१।२४च्द्।
अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ॥ ॥१,१।२५अब्।
पुराणं धर्मशास्त्रं च विद्याश्चेताश्चतुर्दश ॥ ॥१,१।२५च्द्।
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्यनुक्रमात् ॥ ॥१,१।२६अब्।
अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः ॥ ॥१,१।२६च्द्।
अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् ॥ ॥१,१।२७अब्।
आदिकर्ता कविस्साक्षाच्छूलपाणिरिति श्रुतिः ॥ ॥१,१।२७च्द्।
स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् ॥ ॥१,१।२८अब्।
ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम् ॥ ॥१,१।२८च्द्।
तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये ॥ ॥१,१।२९अब्।
विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः ॥ ॥१,१।२९च्द्।
पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः ॥ ॥१,१।३०अब्।
मध्यमं तनयं विष्णुं पातारं ब्रह्मणो ऽपि हि ॥ ॥१,१।३०च्द्।
लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता ॥ ॥१,१।३१अब्।
प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ ॥१,१।३१च्द्।
अनन्तरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥ ॥१,१।३२अब्।
प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः ॥ ॥१,१।३२च्द्।
यदास्य विस्तरं शक्ता नाधिगन्तुं प्रजा भुवि ॥ ॥१,१।३३अब्।
तदा विद्यासमासार्थं विश्वेश्वरनियोगतः ॥ ॥१,१।३३च्द्।
द्वापरान्तेषु विश्वात्मा विष्णुर्विश्वम्भरः प्रभुः ॥ ॥१,१।३४अब्।
व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले ॥ ॥१,१।३४च्द्।
एवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः ॥ ॥१,१।३५अब्।
निर्मितानि पुराणानि अन्यानि च ततः परम् ॥ ॥१,१।३५च्द्।
स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया ॥ ॥१,१।३६अब्।
अरण्यामिव हव्याशी सत्यवत्यामजायत ॥ ॥१,१।३६च्द्।
सङ्क्षिप्य स पुनर्वेदांश्चतुर्धा कृतवान्मुनिः ॥ ॥१,१।३७अब्।
व्यस्तवेदतया लोके वेदव्यास इति श्रुतः ॥ ॥१,१।३७च्द्।
पुराणानाञ्च सङ्क्षिप्तं चतुर्लक्षप्रमाणतः ॥ ॥१,१।३८अब्।
अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥ ॥१,१।३८च्द्।
यो विद्याच्चतुरो वेदान् साङ्गोपणिषदान्द्विजः ॥ ॥१,१।३९अब्।
न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ ॥१,१।३९च्द्।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ॥ ॥१,१।४०अब्।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ ॥१,१।४०च्द्।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥ ॥१,१।४१अब्।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ॥१,१।४१च्द्।
दशधा चाष्टधा चैतत्पुराणमुपदिश्यते ॥ ॥१,१।४२अब्।
५०२ब्
बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः ॥ ॥१,१।४२च्द्।
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ ॥१,१।४३अब्।
भविष्यं नारदीयं च मार्कण्डेयमतः परम् ॥ ॥१,१।४३च्द्।
आग्नेयं ब्रह्मवैवर्तं लैङ्गं वाराहमेव च ॥ ॥१,१।४४अब्।
स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम् ॥ ॥१,१।४४च्द्।
ब्रह्माण्डं चेति पुण्यो ऽयं पुराणानामनुक्रमः ॥ ॥१,१।४५अब्।
तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम् ॥ ॥१,१।४५च्द्।
ग्रन्थो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् ॥ ॥१,१।४६अब्।
निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः ॥ ॥१,१।४६च्द्।
तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः ॥ ॥१,१।४७अब्।
तस्माद्विमुकुतिमन्विच्छञ्च्छिवमेव समाश्रयेत् ॥ ॥१,१।४७च्द्।
तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा ॥ ॥१,१।४८अब्।
यदिदं शैवमाख्यातं पुराणं वेदसम्मितम् ॥ ॥१,१।४९अब्।
तस्य भेदान्समासेन ब्रुवतो मे निबोधत ॥ ॥१,१।४९च्द्।
विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् ॥ ॥१,१।५०अब्।
औमं मातृपुराणं च रुद्रैकादशकं तथा ॥ ॥१,१।५०च्द्।
कैलासं शतरुद्रं च शतरुद्राख्यमेव च ॥ ॥१,१।५१अब्।
सहस्रकोटिरुद्राख्यं वायवीयं ततःपरम् ॥ ॥१,१।५१च्द्।
धर्मसञ्ज्ञं पुराणं चेत्येवं द्वादश संहिताः ॥ ॥१,१।५२अब्।
विद्येशं दशसाहस्रमुदितं ग्रन्थसङ्ख्यया ॥ ॥१,१।५२च्द्।
रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम् ॥ ॥१,१।५३अब्।
प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम् ॥ ॥१,१।५३च्द्।
रौद्रकादशकाख्यं यत्कैलासं षट्सहस्रकम् ॥ ॥१,१।५४अब्।
शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम् ॥ ॥१,१।५४च्द्।
सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम् ॥ ॥१,१।५५अब्।
सहस्रकोटिरुद्राख्यमेकादशसहस्रकम् ॥ ॥१,१।५५च्द्।
चतुस्सहस्रसङ्ख्येयं वायवीयमनुत्तमम् ॥ ॥१,१।५६अब्।
धर्मसञ्ज्ञं पुराणं यत्तद्द्वादशसहस्रकम् ॥ ॥१,१।५६च्द्।
तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः ॥ ॥१,१।५७अब्।
पुराणं वेदसारं तद्भुक्तिमुक्तिफलप्रदम् ॥ ॥१,१।५७च्द्।
व्यासेन तत्तु सङ्क्षिप्तं चतुर्विंशत्सहस्रकम् ॥ ॥१,१।५८अब्।
शैवन्तत्र पुराणं वै चतुर्थं सप्तसंहितम् ॥ ॥१,१।५८च्द्।
विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता ॥ ॥१,१।५९अब्।
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ ॥१,१।५९च्द्।
पञ्चमी कथिता चोमा षष्ठी कैलाससंहिता ॥ ॥१,१।६०अब्।
सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ ॥१,१।६०च्द्।
विद्येश्वरं द्विसाहस्रं रौद्रं पञ्चशतायुतम् ॥ ॥१,१।६१अब्।
त्रिंशत्तथा द्विसाहस्रं सार्धैकशतमीरितम् ॥ ॥१,१।६१च्द्।
शतरुद्रन्तथा कोटिरुद्रं व्योमयुगाधिकम् ॥ ॥१,१।६२अब्।
द्विसाहस्रं च द्विशतं तथोमं भूसहस्रकम् ॥ ॥१,१।६२च्द्।
चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् ॥ ॥१,१।६३अब्।
चत्वारिंशच्च द्विशतं वायवीयमतः परम् ॥ ॥१,१।६३च्द्।
चतुस्साहस्रसङ्ख्याकमेवं सङ्ख्याविभेदतः ॥ ॥१,१।६४अब्।
श्रुतम्परमपुण्यन्तु पुराणं शिवसञ्ज्ञकम् ॥ ॥१,१।६४च्द्।
चतुःसाहस्रकं यत्तु वायवीयमुदीरितम् ॥ ॥१,१।६५अब्।
तदिदं वर्तयिष्यामि भागद्वयसमन्वितम् ॥ ॥१,१।६५च्द्।
नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् ॥ ॥१,१।६६अब्।
न चैवाश्रद्धधानाय नापुराणविदे तथा ॥ ॥१,१।६६च्द्।
परीक्षिताय शिष्याय धार्मिकायानसूयवे ॥ ॥१,१।६७अब्।
प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे ॥ ॥१,१।६७च्द्।
पुराणसंहिता यस्य प्रसादान्मयि वर्तते ॥ ॥१,१।६८अब्।
नमो भगवते तस्मै व्यासायामिततेजसे ॥ ॥१,१।६८च्द्।
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं नामप्रथमो ऽध्यायः