०५ देवकृतकुमाराभिषेकः

॥ श्रीगणेशाय नमः श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे
पञ्चमोऽध्यायः

रथः

देवकृतकुमाराभिषेकः
ब्रह्मोवाच
एतस्मिन्न् अन्तरे तत्र
ददर्श रथमुत्तमम् ।
अद्‌भुतं शोभितं शश्वद्
विश्वकर्म-विनिर्मितम् ॥ १ ॥

शतचक्रं सुविस्तीर्णं
मनोयायि मनोहरम् ।
प्रस्थापितं च पार्वत्या
वेष्टितं पार्षदैर् वरैः ॥ २ ॥

समारोहत् ततोऽनन्तो
हृदयेन विदूयता ।
कार्त्तिकः परमज्ञानी
परमेशानवीर्यजः ॥ ३ ॥

कृत्तिकासङ्ग्रहः

तदैव कृत्तिकाः प्राप्य
मुक्तकेश्यः शुचाऽऽतुराः ।
उन्मत्ता इव तत्रैव
वक्तुम् आरेभिरे वचः ॥ ४ ॥

कृत्तिका ऊचुः
विहायाऽस्मान् कृपासिन्धो
गच्छसि त्वं हि निर्दयः ।
नायं धर्मो मातृवर्गान्
पालितो यत् सुतस् त्यजेत् ॥ ५ ॥

स्नेहेन वर्द्धितोऽस्माभिः
पुत्रोऽस्माकं च धर्मतः ।
किं कुर्मः क्व च यास्यामो
वयं किं करवाम ह ॥ ६ ॥

इत्युक्त्वा कृत्तिकाः सर्वाः
कृत्वा वक्षसि कार्त्तिकम् ।
द्रुतं मूर्च्छाम् अवापुस् ताः
सुतविच्छेदकारणात् ॥ ७ ॥

ताः कुमारो बोधयित्वा
अध्यात्मवचनेन वै ।
ताभिश् च पार्षदैः सार्द्धम्
आरुरोह रथं मुने ॥ ८ ॥

दृष्ट्वा श्रुत्वा मङ्गलानि
बहूनि सुखदानि वै ।
कुमारः पार्षदैः सार्द्धं
जगाम पितृमन्दिरम् ॥ ९ ॥

कैलासगतिः

दक्षेण नन्दियुक्तश् च
मनोयायि-रथेन च ।
कुमारः प्राप कैलासं
न्यग्रोधाऽक्षयमूलके ॥ १० ॥

तत्र तस्थौ कृत्तिकाभिः
पार्षदप्रवरैः सह ।
कुमारः शाङ्करिः प्रीतो
नाना-लीलाविशारदः ॥ ११ ॥

तदा सर्वे सुरगणा
ऋषयः सिद्धचारणाः ।
विष्णुना ब्रह्मणा सार्द्धं
समाचख्युस् तदागमम् ॥ १२ ॥

तदा दृष्ट्वा च गाङ्‌गेयं
ययौ प्रमुदितः शिवः ।
अन्यैः समेतो हरिणा
ब्रह्मणा च सुरर्षिभिः । १३ ॥
शङ्‌खाश् च बहवो नेदुर्
भेरी तूर्याण्यनेकशः ।
उत्सवस् तु महानासीद्
देवानां तुष्टचेतसाम् ॥ १४ ॥

तदानीम् एव तं सर्वे
वीरभद्रादयो गणाः ।
कुर्वन्तः स्वन्वयुः केलिं
नाना-ताल-धर-स्वराः ॥ १५ ॥

स्तावकाः स्तूयमानाश् च
चक्रुस् ते गुणकीर्त्तनम् ।
जयशब्दं नमः-शब्दं
कुर्वाणाः प्रीतमानसाः ॥ १६ ॥

द्रष्टुं ययुस् तं शरजं
शिवात्मजम् अनुत्तमम् । १७ ॥
पार्वती मङ्गलं चक्रे
राजमार्गं मनोहरम् ।
पद्म-रागादि-मणिभिः
संस्कृतं परितः पुरम् ॥ १८ ॥

पति-पुत्रवतीभिश् च साध्वीभिः स्त्रीभिरन्विताः ।
लक्ष्म्यादित्रिंशद्देवीश्च पुरः कृत्वा समाययौ ॥ १९ ॥
रम्भाद्यप्सरसो दिव्याः सस्मिता वेषसंयुताः ।
सङ्‌गीतनर्तनपरा बभूवुश्च शिवाज्ञया ॥ २० ॥
ये तं समीक्षयामासुर्गागेयं शङ्करोपमम् ।
ददृशुस्ते महत्तेजो व्याप्तमासीज्जगत्त्रये ॥ २१ ॥
तत्तेजसा वृतं बालं तप्तचामीकरप्रभम् ।
ववन्दिरे द्रुतं सर्वे कुमारं सूर्यवर्चसम् ॥ २२ ॥
जहुर्षुर्विनतस्कन्धा नमः शब्दरतास्तदा ।
परिवार्योपतस्थुस्ते वामदक्षिणमागताः ॥ २३ ॥
अहं विष्णुश्च शक्रश्च तथा देवादयोऽखिलाः ।
दण्डवत्पतिता भूमौ परिवार्य कुमारकम् ॥ २४ ॥
एतस्मिन्नन्तरे शम्भुर्गिरिजा च मुदान्विता ।
महोत्सवं समागम्य ददर्श तनयं मुदा ॥ २५ ॥
पुत्रं निरीक्ष्य च तदा जगदेकबन्धुः
प्रीत्यान्वितः परमया परया भवान्या ।
स्नेहान्वितो भुजगभोगयुतो हि साक्षात्
सर्वेश्वरः परिवृतः प्रमथैः परेशः ॥ २६ ॥
अथ शक्तिधरः स्कन्दो दृष्ट्वा तौ पार्वतीशिवौ ।
अवरुह्य रथात्तूर्णं शिरसा प्रणनाम ह ॥ २७ ॥
उपगुह्य शिवः प्रीत्या कुमारं मूर्ध्नि शङ्करः ।
जघ्रौ प्रेम्णा परमेशानः प्रसन्नः स्नेहकर्तृकः ॥ २८ ॥
उपगुह्य गुहं तत्र पार्वती जातसम्भ्रमा ।
प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ॥ २९ ॥
तदा नीराजितो देवैःसकलत्रैर्मुदान्वितैः ।
जयशब्देन महता व्याप्तमासीन्नभस्तलम् ॥ ३० ॥
ऋषयो ब्रह्मघोषेण गीतेनैव च गायकाः ।
वाद्यैश्च बहवस्तत्रोपतस्थुश्च कुमारकम् ॥ ३१ ॥
स्वमङ्‌कमारोप्य तदा महेशः
कुमारकं तं प्रभया समुज्ज्वलम् ।
बभौ भवानीपतिरेव साक्षा-
च्छ्रियाऽन्वितः पुत्रवतां वरिष्ठः ॥ ३२ ॥
कुमारः स्वगणैः सार्द्धमाजगाम शिवालयम् ।
शिवाज्ञया महोत्साहैः सह देवैर्महासुखी ॥ ३३ ॥
दम्पती तौ तदा तत्रैकपद्येन विरेजतुः ।
विवन्द्यमानावृषिभिरावृतौ सुरसत्तमैः ॥ ३४ ॥
कुमारः क्रीडयामास शिवोत्सङ्‌गे मुदान्वितः ।
वासुकिं शिवकण्ठस्थं पाणिभ्यां समपीडयत् ॥ ३५ ॥
प्रहस्य भगवान् शम्भुः शशंस गिरिजां तदा ।
निरीक्ष्य कृपया दृष्ट्या कृपालुर्लीलयाकृतिम् ॥ ३६ ॥
मदस्मितेन च तदा भगवान्महेशः
प्राप्तो मुदं च परमां गिरिजासमेतः ।
प्रेम्णा स गद्‌गदगिरो जगदेकबन्धु-
र्नोवाच किञ्चन विभुर्भुवनैकभर्त्ता ॥ ३७ ॥
अथ शम्भुर्जगन्नाथो हृष्टो लौकिकवृत्तवान् ।
रत्नसिंहासने रम्ये वासयामास कार्त्तिकम् ॥ ३८ ॥
वेदमन्त्राभिपूतैश्च सर्वतीर्थोदपूर्णकैः ।
सद्‌रत्नकुम्भशतकैः स्नापयामास तं मुदा ॥ ३९ ॥
सद्‌रत्नसाररचितकिरीटमुकुटाङ्‌गदम् ।
वैजयन्ती स्वमालां च तस्मै चक्रं ददौ हरिः ॥ ४० ॥
शूलं पिनाकं परशुं शक्ति पाशुपतं शरम् ।
संहारास्त्रं च परमां विद्यां तस्मै ददौ शिवः ॥ ४१ ॥
अदामहं यज्ञसूत्रं वेदांश्च वेदमातरम् ।
कमण्डलुं च ब्रह्मास्त्रं विद्यां चैवाऽरिमर्दिनीम् ॥ ४२ ॥
गजेन्द्रं चैव वज्रं च ददौ तस्मै सुरेश्वरः ।
श्वेतच्छत्रं रत्नमालां ददौ वस्तुं जलेश्वरः ॥ ४३ ॥
मनोयायिरथं सूर्यः सन्नाहं च महाचयम् ।
यमदण्डं यमश्चैव सुधाकुम्भं सुधानिधिः ॥ ४४ ॥
हुताशनो ददौ प्रीत्या महाशक्तिं स्वसूनवे ।
ददौ स्वशस्त्रं निर्ऋतिर्वायव्यास्त्रं समीरणः ॥ ४५ ॥
गदां ददौ कुबेरश्च शूलमीशो ददौ मुदा ।
नानाशस्त्राण्युपायांश्च सर्वे देवा ददुर्मुदा ॥ ४६ ॥
कामास्त्रं कामदेवोऽथ ददौ तस्मै मुदान्वितः ।
गदां ददौ स्वविद्याश्च तस्मै च परया मुदा ॥ ४७ ॥
क्षीरोदोऽमूल्यरत्नानि विशिष्टं रत्ननूपुरम् ।
हिमालयो हि दिव्यानि भूषणान्यंशुकानि च ॥ ४८ ॥
चित्रबर्हणनामानं स्वपुत्रं गरुडो ददौ ।
अरुणस्ताम्रचूडाख्यं बलिनं चरणायुधम् ॥ ४९ ॥
पार्वती सस्मिता हृष्टा परमैश्वर्यमुत्तमम् ।
ददौ तस्मै महाप्रीत्या चिरञ्जीवित्वमेव च ॥ ५० ॥
लक्ष्मीश्च सम्पदं दिव्यां महाहारं मनोहरम् ।
सावित्री सिद्धविद्यां च समस्तां प्रददौ मुदा ॥ ५१ ॥
अन्याश्चापि मुने देव्यो यायास्तत्र समागताः ।
स्वात्मवत्सु ददुस्तस्मै तथैव शिशुपालिकाः ॥ ५२ ॥
महामहोत्सवस्तत्र बभूव मुनिसत्तम ।
सर्वे प्रसन्नतां याता विशेषाच्च शिवाशिवौ ॥ ५३ ॥
एतस्मिन्नन्तरे काले प्रोवाच प्रहसन् मुदा ।
मुने ब्रह्मादिकान् देवान् रुद्रो भर्गः प्रतापवान् ॥ ५४ ॥
शिव उवाच
हे हरे हे विधे देवाः सर्वे शृणुत मद्वचः ।
सर्वथाहं प्रसन्नोस्मि वरान्वृणुत ऐच्छिकान् ॥ ५५ ॥
ब्रह्मोवाच
तच्छ्रुत्वा वचनं शम्भोर्मुने विष्ण्वादयः सुराः ।
सर्वे प्रोचुः प्रसन्नास्या देवं पशुपतिं प्रभुम् ॥ ५६ ॥
कुमारेण हतो ह्येष तारको भविता प्रभो ।
तदर्थमेव सञ्जातमिदं चरितमुत्तमम् ॥ ५७ ॥
तस्मादद्यैव यास्यामस्तारकं हन्तुमुद्यता ।
आज्ञां देहि कुमाराय स तं हन्तुं सुखाय नः ॥ ५८ ॥
ब्रह्मोवाच
तथेति मत्वा स विभुर्दत्तवांस्तनयं तदा ।
देवेभ्यस्तारकं हन्तुं कृपया परिभावितः ॥ ५९ ॥
शिवाज्ञया सुराः सर्वे ब्रह्मविष्णुमुखास्तदा ।
पुरस्कृत्य गुहं सद्यो निर्जग्मुर्मिलिता गिरेः ॥ ६० ॥
बहिर्निःसृत्य कैलासात्त्वष्टा शासनतो हरेः ।
विरेचे नगरं रम्यमद्‌भुतं निकटे गिरेः ॥ ६१ ॥
तत्र रम्यं गृहं दिव्यमद्‌भुतं परमो ज्ज्वलम् ।
गुहार्थं निर्ममे त्वष्टा तत्र सिंहासनं वरम् ॥ ६२ ॥
तदा हरिः सुधीर्भक्त्या कारयामास मङ्गलम् ।
कार्त्तिकस्याभिषेकं हि सर्वतीर्थजलैः सुरैः ॥ ६३ ॥
सर्वथा समलङ्‌कृत्य वासयामास सङ्‌ग्रहम् ।
कार्त्तिकस्य विधिं प्रीत्या कारयामास चोत्सवम् ॥ ६४ ॥
ब्राह्माण्डाधिपतित्वं हि ददौ तस्मै मुदा हरिः ।
चकार तिलकं तस्य समानर्च सुरैः सह ॥ ६५ ॥
प्रणम्य कार्त्तिकं प्रीत्या सर्वदेवर्षिभिः सह ।
तुष्टाव विविधैः स्तोत्रैः शिवरूपं सनातनम् ॥ ६६ ॥
वरसिंहासनस्थो हि शुशुभेऽतीव कार्तिकः ।
स्वामिभावं समापन्नो ब्रह्माण्डस्यासि पालकः ॥ ६७ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे
कुमारखण्डे कुमाराभिषेकवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥

श्रीगौरीशङ्करार्पणमस्तु