२५ रुद्राक्षमहात्म्यवर्णनः

सूत उवाच
शैनकर्षे महाप्राज्ञशिवरूपमहापते ॥ ॥१,२५।१अब्।
शृणुरुद्राक्षमाहात्म्यं समासात्कथयाम्यहम् ॥ ॥१,२५।१च्द्।
शिवप्रियतमोज्ञेयो रुद्राक्षः परपावनः ॥ ॥१,२५।२अब्।
दर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरःस्मृतः ॥ ॥१,२५।२च्द्।
पुरारुद्राक्षमहिमादेव्यग्रेकथितोमुने ॥ ॥१,२५।३अब्।
लोकोपकरणार्थायशिवेन परमात्मना ॥ ॥१,२५।३च्द्।
शिव उवाच
शृणुदेविमहेशानिरुद्राक्षमहिमाशिवे ॥ ॥१,२५।४अब्।
कथयामितवप्रीत्याभक्तानांहितकाम्यया ॥ ॥१,२५।४च्द्।
दिव्यवर्षसहस्राणि महेशानिपुनःपुरा ॥ ॥१,२५।५अब्।
तपःप्रकुर्वतस्त्रस्तम्मनः संयम्यवै मम ॥ ॥१,२५।५च्द्।
स्वतन्त्रेण परेशेन लोकोपकृतिकारिणा ॥ ॥१,२५।६अब्।
लीलयापरमेशानि चक्षुरुन्मीलितम्मया ॥ ॥१,२५।६च्द्।
पुटाभ्याञ्चारुचक्षुर्भ्याम्पतिताजलबिन्दवः ॥ ॥१,२५।७अब्।
तत्राश्रुबिन्दवोजातावृक्षारुद्राक्षसञ्ज्ञकाः ॥ ॥१,२५।७च्द्।
स्थावरत्वमनुप्राप्यभक्तानुग्रहकारणात् ॥ ॥१,२५।८अब्।
ते दत्ताविष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च ॥ ॥१,२५।८च्द्।
भूमौगौण्डोद्भवांश्चक्रेरुद्राक्षाञ्छिववल्लभान् ॥ ॥१,२५।९अब्।
मथुरायामयोध्यायालङ्कायाम्मलये तथा ॥ ॥१,२५।९च्द्।
सह्याद्रौचतथाकाश्यान्दशेष्वन्येषुवातथा ॥ ॥१,२५।१०अब्।
परानसह्यपापौघभेदनाञ्छ्रुतिनोदनात् ॥ ॥१,२५।१०च्द्।
ब्राह्मणाःक्षत्रियावैश्याःशूद्राजाताममाज्ञया ॥ ॥१,२५।११अब्।
रुद्राक्षास्तेपृथिव्यान्तुतज्जातीयाः शुभाक्षकाः ॥ ॥१,२५।११च्द्।
श्वेतरक्ताः पीतकृष्णावर्णाज्ञेयाः क्रमाद्बुधैः ॥ ॥१,२५।१२अब्।
स्वजातीयन्नृभिर्धार्यं रुद्राक्षंवर्णतः क्रमात् ॥ ॥१,२५।१२च्द्।
वर्णैस्तुतत्फलन्धार्यम्भुक्तिमुक्तिफलेप्सुभिः ॥ ॥१,२५।१३अब्।
शिवभक्तैर्विशेषेणशिवयोः प्रीतयेसदा ॥ ॥१,२५।१३च्द्।
धात्रीफलप्रमाणंयच्छ्रेष्ठमेतदुदाहृतम् ॥ ॥१,२५।१४अब्।
बदरीफलमात्रन्तुमध्यमंसम्प्रकीर्तितम् ॥ ॥१,२५।१४च्द्।
अधमञ्चणमात्रंस्यात्प्रक्रियैषापरोच्यते ॥ ॥१,२५।१५अब्।
शृणुपार्वतिसुप्रीत्याभक्तानांहितकाम्यया ॥ ॥१,२५।१५च्द्।
बदरीफलमात्रञ्चयत्स्यात्किलमहेश्वरि ॥ ॥१,२५।१६अब्।
तथापिफलदंलोकेसुखसौभाग्यवर्धनम् ॥ ॥१,२५।१६च्द्।
धात्रीफलसमंयत्स्यात्सर्वारिष्टविनाशनम् ॥ ॥१,२५।१७अब्।
गुञ्जयासदृशंयत्स्यात्सर्वार्थफलसाधनम् ॥ ॥१,२५।१७च्द्।
यथायथालघुःस्याद्वैतथाधिकफलप्रदम् ॥ ॥१,२५।१८अब्।
एकैकतःफलम्प्रोक्तन्दशांशैरधिकम्बुधैः ॥ ॥१,२५।१८च्द्।
रुद्राक्षधारणम्प्रोक्तम्पापनाशनहेतवे ॥ ॥१,२५।१९अब्।
तस्माच्चधारणीयोवैसर्वार्थसाधनोध्रुवम् ॥ ॥१,२५।१९च्द्।
यथाचदृश्यतेलोकेरुद्राक्षफलदः शुभः ॥ ॥१,२५।२०अब्।
नतथादृश्यते ऽन्याचमालिकापरमेश्वरि ॥ ॥१,२५।२०च्द्।
समाःस्निग्धादृढाःस्थूलाःकण्टकैःसंयुताःशुभाः ॥ ॥१,२५।२१अब्।
रुद्राक्षाःकामदादेविभुक्तिमुक्तिप्रदाः सदा ॥ ॥१,२५।२१च्द्।
क्रिमिदुष्टञ्छिन्नभिन्नङ्कण्टकैर्हीनमेवच ॥ ॥१,२५।२२अब्।
व्रणयुक्तमवृत्तञ्चरुद्राक्षान्षड्विवर्जयेत् ॥ ॥१,२५।२२च्द्।
स्वयमेवकृतद्वारंरुद्राक्षंस्यदिहोत्तमम् ॥ ॥१,२५।२३अब्।
यत्तुपौरुषयत्नेनकृतन्तन्मध्यमम्भवेत् ॥ ॥१,२५।२३च्द्।
रुद्राक्षधारणम्प्राप्तम्महापातकनाशनम् ॥ ॥१,२५।२४अब्।
रुद्रसङ्ख्याशतन्धृत्वरुद्ररूपोभवेन्नरः ॥ ॥१,२५।२४च्द्।
एकादशशतानीहधृत्वायत्फलमाप्यते ॥ ॥१,२५।२५अब्।
तत्फलंशक्यतेनैव वक्तुं वर्षशतैरपि ॥ ॥१,२५।२५च्द्।
शतार्धेनयुतेः पञ्चशतैर्वै मुकुटं मतम् ॥ ॥१,२५।२६अब्।
रुद्राक्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः ॥ ॥१,२५।२६च्द्।
त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः ॥ ॥१,२५।२७अब्।
रुद्राक्षैरुपवीतं व निर्मीयाद्भक्तितत्परः ॥ ॥१,२५।२७च्द्।
शिखायाञ्चत्रयम्प्रोक्तंरुद्रक्षाणां महेश्वरि ॥ ॥१,२५।२८अब्।
कर्णयोः षट् च षट्चैववामदक्षिणयोस्तथा ॥ ॥१,२५।२८च्द्।
शतमेकोत्तरङ्कण्ठेबाह्वोर्वैरुद्रसङ्ख्यया ॥ ॥१,२५।२९अब्।
कूर्परद्वारयोस्तत्रमणिबन्धेतथापुनः ॥ ॥१,२५।२९च्द्।
उपवीतेत्रयन्धार्यंशिवभक्तिरतैर्नरैः ॥ ॥१,२५।३०अब्।
शेषानुर्वरितान्पञ्चसम्मितान्धारयेत्कटौ ॥ ॥१,२५।३०च्द्।
एतत्सङ्ख्याधृतायेनरुद्राक्षाः परमेश्वरि ॥ ॥१,२५।३१अब्।
तद्रूपं तु प्रणम्यंहिस्तुत्यंसर्वैर्महेशवत् ॥ ॥१,२५।३१च्द्।
एवम्भूतंस्थितन्ध्यानेयदाकृत्वासनैर्जनम् ॥ ॥१,२५।३२अब्।
शिवेतिव्याहरंश्चैवदृष्ट्वापापैः प्रमुच्यते ॥ ॥१,२५।३२च्द्।
शतादिकसहस्रस्यविधिरेषप्रकीर्तितः ॥ ॥१,२५।३३अब्।
तदभावेप्रकारोन्यः शुभः सम्प्रोच्यतेमया ॥ ॥१,२५।३३च्द्।
शिखायामेकरुद्राक्षंशिरसात्रिंशतंवहेत् ॥ ॥१,२५।३४अब्।
पञ्चाशच्चगलेदध्याद्बाह्वोः षोडशषोडश ॥ ॥१,२५।३४च्द्।
मणिबन्धे द्वादशद्विस्कन्धे पञ्चशतंवहेत् ॥ ॥१,२५।३५अब्।
अष्टोत्तरशतैर्माल्यमुपवीतम्प्रकल्पयेत् ॥ ॥१,२५।३५च्द्।
एवंसहस्ररुद्राक्षान्धारयेद्योदृढव्रतः ॥ ॥१,२५।३६अब्।
तन्नमन्तिसुराःसर्वेयथारुद्रस्तथैव सः ॥ ॥१,२५।३६च्द्।
एकंशिखायांरुद्राक्षञ्चत्वारिंशत्तुमस्तके ॥ ॥१,२५।३७अब्।
द्वात्रिंशत्कण्ठदेशेतुवक्षस्यष्टोत्तरंशतम् ॥ ॥१,२५।३७च्द्।
एकैकङ्कर्णयोः षट्षड्बाह्वोःषोडशषोडश ॥ ॥१,२५।३८अब्।
करयोरविमानेनद्विगुणेनमुनीश्वर ॥ ॥१,२५।३८च्द्।
सङ्ख्याप्रीतिर्धृयायेनसोपिशैवजनःपरः ॥ ॥१,२५।३९अब्।
शिववत्पूजनीयोहिवन्द्यस्सर्वैरभीक्ष्णशः ॥ ॥१,२५।३९च्द्।
शिरसीशानमन्त्रेणकर्णेतत्पुरुषेण च ॥ ॥१,२५।४०अब्।
अघोरेणगलेधार्यन्तेनैवहृदयेपि च ॥ ॥१,२५।४०च्द्।
अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः ॥ ॥१,२५।४१अब्।
पञ्चदशाक्षग्रथितांवामदेवेनचोदरे ॥ ॥१,२५।४१च्द्।
पञ्चब्रह्मभिरङ्गश्चत्रिमालां पञ्चसप्त च ॥ ॥१,२५।४२अब्।
अथवामूलमन्त्रेण सर्वानक्षांस्तुधारयेत् ॥ ॥१,२५।४२च्द्।
मद्यम्मांसन्तुलशुनम्पलाण्डुंशिग्रुमेव च ॥ ॥१,२५।४३अब्।
श्लेष्मान्तकं विड्वराहम्भक्षणे वर्जयेत्ततः ॥ ॥१,२५।४३च्द्।
वलक्षंरुद्राक्षन्द्विजतनुभिरेवेहविहितंसुरक्तङ्क्षत्राणाम्प्रमुदितमुमेपीतमसकृत् ॥ ॥१,२५।४४अब्।

छिन्नं खण्डितं भिन्नं विदीर्ण

ततोवैश्यैर्धायप्रतिदिवसभावश्यकमहोतथाकृष्णंशूद्रैःश्रुतिगदितमार्गोयमगजे ॥ ॥१,२५।४४च्द्।
वर्णीवनीगृहयतीर्नियमेनदध्यादेतद्रहस्यपरमोनहिजातुतिष्ठेत् ॥ ॥१,२५।४५अब्।
रुद्राक्षधारणमिदंसुकृतैश्चलभ्यन्त्यक्त्वेदमेतदखिलान्नरकान्प्रयान्ति ॥ ॥१,२५।४५च्द्।
आदावामलकात्स्वतो लघुतरा रुग्णास्ततःकण्टकैःसन्दष्टाःक्रिमिभिस्तनूपकरणच्छिद्रेण हीनास्तथा ॥ ॥१,२५।४६अब्।
धार्यानैव शुभेप्सुभिश्चणकवद्रुद्राक्षमप्यन्ततोरुद्राक्षोममलिङ्गमङ्गलमुमेसूक्ष्मम्प्रशस्तंसदा ॥ ॥१,२५।४६च्द्।
सर्वाश्रमाणांवर्णानांस्त्रीशूद्रणांशिवाज्ञया ॥ ॥१,२५।४७अब्।
धार्याः सदैवरुद्राक्षायतीनां प्रणवेन हि ॥ ॥१,२५।४७च्द्।
दिवाबिभ्रद्रात्रिकृतैरात्रौविभ्रद्दिवाकृतैः ॥ ॥१,२५।४८अब्।
प्रातर्मध्याह्नसायाह्नेमुच्यतेसर्वपातकैः ॥ ॥१,२५।४८च्द्।
ये त्रिपुण्ड्र धरालोके जटाधारिण एव ये ॥ ॥१,२५।४९अब्।
ये रुद्राक्षधरास्तेवैयमलोकम्प्रयान्तिन ॥ ॥१,२५।४९च्द्।
रुद्राक्षमेकंशिरसाबिभर्तितथात्रिपुण्ड्रञ्चललाटमध्ये ॥ ॥१,२५।५०अब्।
पञ्चाक्षरंयेहिजपन्तिमन्त्रम्पूज्याभवद्भिः खलुतेहिसाधवः ॥ ॥१,२५।५०च्द्।
यस्याङ्गेनास्तिरुद्राक्षस्त्रिपुण्ड्रम्भालपट्टके ॥ ॥१,२५।५१अब्।
मुखेपञ्चाक्षरन्नास्तितमानययमालयम् ॥ ॥१,२५।५१च्द्।
ज्ञात्वाज्ञात्वातत्प्रभावम्भस्मरुद्राक्षधारिणः ॥ ॥१,२५।५२अब्।
तेपूज्याः सर्वदास्माकन्नोनेतव्याः कदाचन ॥ ॥१,२५।५२च्द्।
एवमाज्ञापयामासकालोपिनिजकिङ्करान् ॥ ॥१,२५।५३अब्।
तथेतिमत्त्वातेसर्वेतूष्णीमासन्सुविस्मिताः ॥ ॥१,२५।५३च्द्।
अत एवमहादेविरुद्राक्षोत्यघनाशनः ॥ ॥१,२५।५४अब्।
तद्धरोमत्प्रियः शुद्धो ऽत्यघवानपिपार्वति ॥ ॥१,२५।५४च्द्।
हस्तेबाहौतथामूर्ध्निरुद्राक्षन्धारयेत्तुयः ॥ ॥१,२५।५५अब्।
अवध्यःसर्वभूतानांरुद्ररूपीचरेद्भुवि ॥ ॥१,२५।५५च्द्।
सुरासुराणांसर्वेषां वन्दनीयःसदासवै ॥ ॥१,२५।५६अब्।
पूजनीयो हि दृष्टस्यपापहाचयथाशिवः ॥ ॥१,२५।५६च्द्।
ध्यानज्ञानावमुक्तोपिरुद्राक्षन्धारयेत्तुयः ॥ ॥१,२५।५७अब्।
सर्वपापविनिर्मुक्तःसयातिपरमाङ्गतिम् ॥ ॥१,२५।५७च्द्।
रुद्राक्षेणजपन्मन्त्रं पुण्यङ्कोटि गुणं भवेत् ॥ ॥१,२५।५८अब्।
दशकोटिगुणम्पुण्यन्धारणाल्लभते नरः ॥ ॥१,२५।५८च्द्।
यावत्कालंहिजीवस्यशरीरस्थोभवेत्सवै ॥ ॥१,२५।५९अब्।
तावत्कालंस्वल्पमृत्युर्नतन्देविबाधते ॥ ॥१,२५।५९च्द्।
त्रिपुण्ड्रेणचसंयुक्तंरुद्राक्षाविलसाङ्गकम् ॥ ॥१,२५।६०अब्।
मृत्युञ्जयञ्जपन्तञ्चदृष्ट्वारुद्रफलंलभेत् ॥ ॥१,२५।६०च्द्।
पञ्चदेवप्रियश्चैवसर्वदेवप्रियस्तथा ॥ ॥१,२५।६१अब्।
सर्वमन्त्राञ्जपेद्भक्तोरुद्राक्षमालयाप्रिये ॥ ॥१,२५।६१च्द्।
विष्ण्वादिदेवभक्ताश्चधारयेयुर्नसंशयः ॥ ॥१,२५।६२अब्।
रुद्रभक्तो विशेषेणरुद्राक्षान्धारयेत्सदा ॥ ॥१,२५।६२च्द्।
रुद्राक्षाविविधाःप्रोक्तास्तेषां भेदान्वदाम्यहम् ॥ ॥१,२५।६३अब्।
शृणुपार्वति सद्भक्त्या भुक्तिमुक्तिफलप्रदान् ॥ ॥१,२५।६३च्द्।
एकवक्त्रः शिवः साक्षाद्भुक्तिमुक्तिफलप्रदः ॥ ॥१,२५।६४अब्।
तस्यदर्शनमात्रेणब्रह्महत्याव्यपोहति ॥ ॥१,२५।६४च्द्।
यत्रसम्पूजितस्तत्रलक्ष्मीर्दूरतरा नहि ॥ ॥१,२५।६५अब्।
नश्यन्त्युपद्रवाःसर्वेसर्वकामाभवन्तिहि ॥ ॥१,२५।६५च्द्।
द्विवक्त्रोदेवदेवेशस्सर्वकामफलप्रदः ॥ ॥१,२५।६६अब्।
विशेषतः सरुद्राक्षोगोवधन्नाशयेद्द्रुतम् ॥ ॥१,२५।६६च्द्।
त्रिवक्त्रोयोहिरुद्राक्षः साक्षात्साधनदस्सदा ॥ ॥१,२५।६७अब्।
तत्प्रभावाद्भवेयुर्वैविद्याः सर्वाः प्रतिष्ठिताः ॥ ॥१,२५।६७च्द्।
चतुर्वक्त्रः स्वयम्ब्रह्मानरहत्यांव्यपोहति ॥ ॥१,२५।६८अब्।
दर्शनात्स्पर्शनात्सद्यश्चतुर्वर्गफलप्रदः ॥ ॥१,२५।६८च्द्।
पञ्चवक्त्रः स्वयंरुद्रः कालाग्निर्नामतः प्रभुः ॥ ॥१,२५।६९अब्।
सर्वमुक्तिप्रदश्चैवसर्वकामफलप्रदः ॥ ॥१,२५।६९च्द्।
अगम्यागमनम्पापमभक्ष्यस्य च भक्षणम् ॥ ॥१,२५।७०अब्।
इत्यादि सर्वपापानि पञ्चवक्त्रोव्यपोहति ॥ ॥१,२५।७०च्द्।
षड्वक्त्रःकार्तिकेयस्तुधारणाद्दक्षिणेभुजे ॥ ॥१,२५।७१अब्।
ब्रह्महत्यादिकैः पापैर्मुच्यतेनात्र संशयः ॥ ॥१,२५।७१च्द्।
सप्तवक्त्रोमहेशानि ह्यनङ्गोनामनामतः ॥ ॥१,२५।७२अब्।
धारणात्तस्य देवेशिदरिद्रोपीश्वरोभवेत् ॥ ॥१,२५।७२च्द्।
रुद्राक्षश्चाष्टवक्त्रश्च वसुमूर्तिश्च भैरवः ॥ ॥१,२५।७३अब्।
धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत् ॥ ॥१,२५।७३च्द्।
भैरवोनववक्त्रश्च कपिलश्चमुनिःस्मृतः ॥ ॥१,२५।७४अब्।
दुर्गावातदधिष्ठात्री नवरूपामहेश्वरी ॥ ॥१,२५।७४च्द्।
तं धारयेद्वामहस्ते रुद्राक्षम्भक्तितत्परः ॥ ॥१,२५।७५अब्।
सर्वेश्वरोभवेन्नूनम्मम तुल्यो न संशयः ॥ ॥१,२५।७५च्द्।
दशवक्त्रो महेशानि स्वयं देवो जनार्दनः ॥ ॥१,२५।७६अब्।
धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात् ॥ ॥१,२५।७६च्द्।
एकादशमुखोयस्तुरुद्राक्षःपरमेश्वरि ॥ ॥१,२५।७७अब्।
सरुद्रोधारणात्तस्यसर्वत्रविजयीभवेत् ॥ ॥१,२५।७७च्द्।
द्वादशास्यं तु रुद्राक्षं धारयेत्केशदेशके ॥ ॥१,२५।७८अब्।
आदित्याश्चैव ते सर्वेद्वादशैव स्थितास्तथा ॥ ॥१,२५।७८च्द्।
त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः ॥ ॥१,२५।७९अब्।
सर्वान्कामानवाप्नोति सौभाग्यं मङ्गलंलभेत् ॥ ॥१,२५।७९च्द्।
चतुर्दशमुखो यो हि रुद्राक्षः परमःशिवः ॥ ॥१,२५।८०अब्।
धारयेन्मूर्ध्नि तं भक्त्यासर्वपापं प्रणश्यति ॥ ॥१,२५।८०च्द्।
इतिरुद्राक्षभेदा हि प्रोक्तावैमुखभेदतः ॥ ॥१,२५।८१अब्।
तत्तन्मन्त्राञ्छृणु प्रीत्या क्रमाच्छैल्लेश्वरात्मजे ॥ ॥१,२५। ८१च्द्।
अं ह्रीनमः १ अन्नमः २ अङ्क्लीन्नमः ३ अंह्रीन्नमः ४ अंह्रीन्नमः ५ अंह्रीं हुं नमः ६ अंहुन्नमः ७ अंहुन्नमः ८ अंह्रींहुन्नमः ९ अंह्रीन्नमः नमः १० अंह्रींहुन्नमः ११ अङ्क्रों क्षौं रौं नमः १२ अंह्रीन्नमः १३ अन्नम १४
भक्तिश्रद्धायुतश्चैव सर्वकामार्थसिद्धये ॥ ॥१,२५।८२अब्।
रुद्राक्षान्धारयेन्मन्त्रैर्देवनालस्य वर्जितः ॥ ॥१,२५।८२च्द्।
विना मन्त्रेण हो धत्ते रुद्राक्षं भुविमानवः ॥ ॥१,२५।८३अब्।
स याति नरकं घोरं यावदिन्द्राश्चतुर्दश ॥ ॥१,२५।८३च्द्।
रुद्राक्षमालिनन्दृष्ट्वा भूतप्रेतपिशाचकाः ॥ ॥१,२५।८४अब्।
डाकिनीशाकिनी चैव ये चान्ये द्रोहकारकाः ॥ ॥१,२५।८४च्द्।
कृत्रिमं चैव यत्किञ्चिदभिचारादिकञ्चयात् ॥ ॥१,२५।८५अब्।
तत्सर्वन्दूरतोयातिदृष्ट्वा शङ्कितविग्रहम् ॥ ॥१,२५।८५च्द्।
रुद्राक्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति ॥ ॥१,२५।८६अब्।
देवीगणपतिस्सूर्यःसुराश्चान्येपिपार्वति ॥ ॥१,२५।८६च्द्।
एवञ्ज्ञात्वातुमाहात्म्यंरुद्राक्षस्यमहेश्वरि ॥ ॥१,२५।८७अब्।
सम्यग्धार्यास्समन्त्राश्चभक्त्याधर्मविवृद्धये ॥ ॥१,२५।८७च्द्।
इत्युक्तङ्गिरिजाग्रेहिशिवेनपरमात्मना ॥ ॥१,२५।८८अब्।
भस्मरूद्राक्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ ॥१,२५।८८च्द्।
शिवस्यातिप्रियौज्ञेयौ भस्मरुद्राक्षधारिणौ ॥ ॥१,२५।८९अब्।
तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः ॥ ॥१,२५।८९च्द्।
भस्मरुद्राक्षधारी यः शिवभक्तस्स उच्यते ॥ ॥१,२५।९०अब्।
पञ्चाक्षरजपासक्तः परिपूर्णश्चसन्मुखे ॥ ॥१,२५।९०च्द्।
विनाभस्मत्रिपुण्ड्रेणविनारुद्राक्षमालया ॥ ॥१,२५।९१अब्।
पूजितोपिमहादेवोनाभीष्टफलदायकः ॥ ॥१,२५।९१च्द्।
तत्सर्वं च समाख्यातं यत्पृष्टंहिमुनीश्वर ॥ ॥१,२५।९२अब्।
भस्मरुद्राक्षमाहात्म्यं सर्वकामसमृद्धिदम् ॥ ॥१,२५।९२च्द्।
एतद्यःशृणुयान्नित्यम्माहात्म्यपरमंशुभम् ॥ ॥१,२५।९३अब्।
रुद्राक्षभस्मनोर्भक्त्यासर्वान्कामानवाप्नुयात् ॥ ॥१,२५।९३च्द्।
इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः ॥ ॥१,२५।९४अब्।
लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत् ॥ ॥१,२५।९४च्द्।
विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः ॥ ॥१,२५।९५अब्।
सर्वसिद्धिप्रदा नित्यम्मुक्तिदा शिवशासनात् ॥ ॥१,२५।९५च्द्।

इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनोनाम पञ्चविंशो ऽध्यायः