२४ भस्मधारणवर्णनः

सूत उवाच
द्विविधम्भस्मसम्प्रोक्तंसर्वमङ्गलदम्परम् ॥ ॥१,२४।१अब्।
तत्प्रकारमहंवक्ष्येसावधानतयाशृणु ॥ ॥१,२४।१च्द्।
एकञ्ज्ञेयं महाभस्मद्वितीयंस्वल्पसञ्ज्ञकम् ॥ ॥१,२४।२अब्।
महाभस्म इतिप्रोक्तम्भस्मनानाविधम्परम् ॥ ॥१,२४।२च्द्।
तद्भस्मत्रिविधम्प्रोक्तंश्रोतंस्मार्तञ्चलौकिकम् ॥ ॥१,२४।३अब्।
भस्मैव स्वल्पसज्ञाहिबहुधापरिकीर्तितम् ॥ ॥१,२४।३च्द्।
श्रौतम्भस्मतथास्मार्तन्द्विजानामेवकीर्तितम् ॥ ॥१,२४।४अब्।
अन्येषामपिसर्वेषामपरम्भस्मलौकिकम् ॥ ॥१,२४।४च्द्।
धारणम्मन्त्रतः प्रोक्तन्द्विजानाम्मुनिपुङ्गवैः ॥ ॥१,२४।५अब्।
केवलन्धारणञ्ज्ञेयमन्येषाम्मन्त्रवर्जितम् ॥ ॥१,२४।५च्द्।
आग्नेयमुच्यतेभस्मदग्धगोमयसम्भवम् ॥ ॥१,२४।६अब्।
तदापिद्रव्यमित्युक्तन्त्रिपुण्ड्रस्यमहामुने ॥ ॥१,२४।६च्द्।
अग्निहोत्रोत्थितम्भस्मसङ्ग्राह्यंवामनीषिभिः ॥ ॥१,२४।७अब्।
अन्ययज्ञोत्थितंवापित्रिपुण्ड्रस्यचधारणे ॥ ॥१,२४।७च्द्।
अग्निरित्यादिभिर्मन्त्रैर्जाबालोपनिषद्गतेः ॥ ॥१,२४।८अब्।
सप्तभिधूलनङ्कार्यम्भस्मनासजलेनच ॥ ॥१,२४।८च्द्।
वर्णानामाश्रमाणाञ्चमन्त्रतोमन्त्रतोपि च ॥ ॥१,२४।९अब्।
त्रिपुण्ड्रोद्धूलनम्प्रोक्तजाबालैरादरेणच ॥ ॥१,२४।९च्द्।
भस्मनोद्धूलनञ्चैवयथातिर्यक्त्रिपुण्ड्रकम् ॥ ॥१,२४।१०अब्।
प्रमादादपिमोक्षार्थीनत्यजेदितिविश्रुतिः ॥ ॥१,२४।१०च्द्।
शिवेनविष्णुनाचैवतथातिर्यक्त्रिपुण्ड्रकम् ॥ ॥१,२४।११अब्।
उमादेवीचलक्ष्मींश्चवाचान्याभिश्चनित्यशः ॥ ॥१,२४।११च्द्।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरपिचसंस्करैः ॥ ॥१,२४।१२अब्।
अपभ्रंशैर्धृतम्भस्मत्रिपुण्ड्रोद्धूलनात्मना ॥ ॥१,२४।१२च्द्।
उद्धूलनन्त्रिपुण्ड्रञ्चश्रद्धयानाचरन्तिये ॥ ॥१,२४।१३अब्।
तेषान्नास्तिसमाचारोवर्णाश्रमसमन्वितः ॥ ॥१,२४।१३च्द्।
उद्धूलनन्त्रिपुण्ड्रञ्चश्रद्धयानाचरन्तिये ॥ ॥१,२४।१४अब्।
तेषान्नास्तिविनिमुङ्क्तिस्संसाराज्जन्मकोटिभिः ॥ ॥१,२४।१४च्द्।
उद्धूलनन्त्रिपुण्ड्रञ्चश्रद्धयानाचरन्तिये ॥ ॥१,२४।१५अब्।
तेषान्नास्तिशिवज्ञानङ्कल्पकोटिशतैरपि ॥ ॥१,२४।१५च्द्।
उद्धूलनन्त्रिपुण्ड्रं च श्रद्धयानाचरन्तिये ॥ ॥१,२४।१६अब्।
तेमहापातकैर्युक्ता इतिशास्त्रीयनिर्णयः ॥ ॥१,२४।१६च्द्।
उद्धूलनन्त्रिपुण्ड्रञ्चश्रद्धयानाचरन्ति ये ॥ ॥१,२४।१७अब्।
तेषामाचरितं सर्वंविपरीतफलाय हि ॥ ॥१,२४।१७च्द्।
महापातकयुक्तानां जन्तूनांशर्वविद्विषाम् ॥ ॥१,२४।१८अब्।
त्रिपुण्ड्रोद्धूलनद्वेषोजायतेसुदृढं मुने ॥ ॥१,२४।१८च्द्।
शिवाग्निकार्यं यः कृत्वाकुर्यात्त्रियायुषात्मवित् ॥ ॥१,२४।१९अब्।
मुच्यतेसर्वपापैस्तुस्पृष्टेनभस्मनानरः ॥ ॥१,२४।१९च्द्।
सितेनभस्मनाकुर्यात्त्रिसन्ध्यंयस्त्रिपुण्ड्रकम् ॥ ॥१,२४।२०अब्।
सर्वपापविनिर्मुक्तः शिवेनसहमोदते ॥ ॥१,२४।२०च्द्।
सितेनभस्मना कुर्यालाटे तु त्रिपुण्ड्रकम् ॥ ॥१,२४।२१अब्।
योसावनादिभूतान्हिलोकानाप्तो मृतोभवेत् ॥ ॥१,२४।२१च्द्।
अकृत्वा भस्मनास्नानं न जपेद्वैषडक्षरम् ॥ ॥१,२४।२२अब्।
त्रिपुण्ड्रं च रचित्वा तु विधिनाभस्मनाजपेत् ॥ ॥१,२४।२२च्द्।
अदयो वाधमो वापि सर्वपापान्वितोपि वा ॥ ॥१,२४।२३अब्।
उषःपापान्वितो वापिमूर्खो वा पतितोपि वा ॥ ॥१,२४।२३च्द्।
यस्मिन्देशेवसेन्नित्यम्भूतिशासनसंयुतः ॥ ॥१,२४।२४अब्।
सर्वतीर्थैश्चक्रतुभिःसान्निध्यङ्क्रियतेसदा ॥ ॥१,२४।२४च्द्।
त्रिपुण्ड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः ॥ ॥१,२४।२५अब्।
पापान्वितोपि शुद्धात्मा किं पुनः श्रद्धया युतः ॥ ॥१,२४।२५च्द्।
यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः ॥ ॥१,२४।२६अब्।
गतो यदृच्छयाद्यापि तस्मिस्तीर्थाः समागताः ॥ ॥१,२४।२६च्द्।
बहुनात्रकिमुक्तेनधार्यम्भस्मसदा बुधैः ॥ ॥१,२४।२७अब्।
लिङ्गार्चनंसदाकार्यञ्जप्योमन्त्रःषडक्षरः ॥ ॥१,२४।२७च्द्।
ब्रह्मणाविष्णुनावापि रुद्रेणमुनिभिः सुरैः ॥ ॥१,२४।२८अब्।
भस्मधारणमाहात्म्यन्नशक्यम्परिभाषितुम् ॥ ॥१,२४।२८च्द्।
इति वर्णाश्रमाचारोलुप्तवर्णक्रियोपि च ॥ ॥१,२४।२९अब्।
पापात्सकृत्त्रिपुण्ड्रस्यधारणात्सोपिमुच्यते ॥ ॥१,२४।२९च्द्।
येभस्मधारिणन्त्यक्त्वाकर्मकुर्वन्तिमानवाः ॥ ॥१,२४।३०अब्।
तेषां नास्तिविनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥ ॥१,२४।३०च्द्।
ते नाधीतङ्गुरोःसर्वन्तेनसर्वमनुष्ठितम् ॥ ॥१,२४।३१अब्।
येनविप्रेणशिरसित्रिपुण्ड्रम्भस्मनाकृतम् ॥ ॥१,२४।३१च्द्।
ये भस्मधारिणं दृष्ट्वानराः कुर्वन्तिताडनम् ॥ ॥१,२४।३२अब्।
तेषाञ्चण्डालतोजन्मब्रह्मन्नूह्यंविपश्चिता ॥ ॥१,२४।३२च्द्।
मानस्तोकेनमन्त्रेणमन्त्रितम्भस्मधारयेत् ॥ ॥१,२४।३३अब्।
ब्राह्मणःक्षत्रियश्चैव प्रोक्तेष्वङ्गेषुभक्तिमान् ॥ ॥१,२४।३३च्द्।
वैश्यस्त्रियम्बकेनैवशूद्रःपञ्चाक्षरेणतु ॥ ॥१,२४।३४अब्।
अन्येषां विधवास्त्रीणां विधिः प्रोक्तश्चशूद्रवत् ॥ ॥१,२४।३४च्द्।
पञ्चब्रह्मादिमनुभिर्गृहस्थस्यविधीयते ॥ ॥१,२४।३५अब्।
त्रियम्बकेनमनुनाविधिर्वैब्रह्मचारिणः ॥ ॥१,२४।३५च्द्।
अघोरेणाथमनुनाविपिनस्थविधिःस्मृतः ॥ ॥१,२४।३६अब्।
यतिस्तुप्रणवेनैव त्रिपुण्ड्रादीनिकारयेत् ॥ ॥१,२४।३६च्द्।
अतिवर्णाश्रमीनित्यंशिवोहम्भावनात्परात् ॥ ॥१,२४।३७अब्।
शिवयोगी च नियतमीशानेनापि धारयेत् ॥ ॥१,२४।३७च्द्।
न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् ॥ ॥१,२४।३८अब्।
अन्यैरपि यथाजीवैस्सदेति शिवशासनम् ॥ ॥१,२४।३८च्द्।
भस्मस्नानेनयावन्तः कणाः स्वाङ्गेप्रतिष्ठिताः ॥ ॥१,२४।३९अब्।
तावन्ति शिवलिङ्गानि तनौधत्तेहिधारकः ॥ ॥१,२४।३९च्द्।
ब्राह्मणाः क्षत्रियावैश्याः शूद्राश्चापि च सङ्कराः ॥ ॥१,२४।४०अब्।
स्त्रियोथविधवाबालाः प्राप्ताः पाखण्डिकास्तथा ॥ ॥१,२४।४०च्द्।
ब्रह्मचारीगृहीवन्यःसन्न्यासीवाव्रतीतथा ॥ ॥१,२४।४१अब्।
नार्योभस्मत्रिपुण्ड्राङ्कामुक्ता एवनसंशयः ॥ ॥१,२४।४१च्द्।
ज्ञानधृज्ञानतोवापिवह्निदाहसमोयथा ॥ ॥१,२४।४२अब्।
ज्ञानाज्ञानधृतम्भस्मपावयेत्सकलन्नरम् ॥ ॥१,२४।४२च्द्।
नाश्नीयाज्जलमन्नमल्पमपिवा भस्माक्षधृत्याविना भुक्त्वावाथगृहीवनीपतियतिर्वर्णीतथासङ्करः ॥ ॥१,२४।४३अब्।
एनोभुङ्नरकम्प्रयातिसतदागायत्रिजापेनतद्वर्णानां तु यतेस्तु मुख्यप्रणवाजपेन मुक्तम्भवेत् ॥ ॥१,२४।४३च्द्।
त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्तिशिवमेवते ॥ ॥१,२४।४४अब्।
धारयन्तिचयेभक्त्या धारयन्ति तमेवते ॥ ॥१,२४।४४च्द्।
धिग्भस्मरहितं भालन्धिग्ग्राममशिवालयम् ॥ ॥१,२४।४५अब्।
धिगनीशार्चनं जन्मधिग्विद्यामशिवाश्रयाम् ॥ ॥१,२४।४५च्द्।
येनिन्दन्तिमहेश्वरन्त्रिजगतामाधारभूतंहरं ये निन्दन्तित्रिपुण्ड्रधारणकरं दोषस्तु तद्दर्शने ॥ ॥१,२४।४६अब्।
तेवैसङ्करसूकरासुरखरश्वक्रोष्टुकीटोपमाजाता एव भवन्तिपापपरमास्तेनारकाः केवलम् ॥ ॥१,२४।४६च्द्।
तेदृष्ट्वा शशिभास्करौनिशि दिनेस्वप्नेपिनोकेवलम्पश्यन्तुश्रुतिरुद्रसूक्तजपतोमुच्येततेनादृताः ॥ ॥१,२४।४७अब्।
सत्सम्भाषणतोभवेद्धिनरकन्निस्तारवानास्थितंयेभस्मादिविधारणंहिपुरुषन्निन्दन्तिमन्दाहिते ॥ ॥१,२४।४७च्द्।
नतान्त्रिकस्त्वधिकृतोनोर्ध्वपुण्ड्रधरोमुने ॥ ॥१,२४।४८अब्।
सन्तप्तचक्रचिह्नोत्रशिवयज्ञेबहिष्कृतः ॥ ॥१,२४।४८च्द्।
तत्रैतेबहवोलोकाबृहज्जाबालचोदिताः ॥ ॥१,२४।४९अब्।
तेविचार्याःप्रयत्नेनततोभस्मरतोभवेत् ॥ ॥१,२४।४९च्द्।
यच्चन्दनैश्चन्दनकेपिमिश्रन्धार्यंहिभस्मैवत्रिपुण्ड्रभस्मना ॥ ॥१,२४।५०अब्।
विभूतिभालोपरिकिञ्चनापिधार्यंसदानोयदिसन्तिबुद्धयः ॥ ॥१,२४।५०च्द्।
स्त्रीभिस्त्रिपुण्ड्रमलकावधि धारणीयं भस्मद्विजादिभिरथो विधवाभिरेवम् ॥ ॥१,२४।५१अब्।
तद्वत्सदाश्रमवतां विशदाविभूतिर्धार्यापवर्गफलदासकलाघहन्त्री ॥ ॥१,२४।५१च्द्।
त्रिपुण्ड्रङ्कुरुतेयस्तु भस्मना विधिपूर्वकम् ॥ ॥१,२४।५२अब्।
महापातकसङ्घातैर्मुच्यते चोपपातकैः ॥ ॥१,२४।५२च्द्।
ब्रह्मचारीगृहस्थोवावानप्रस्थोथवायतिः ॥ ॥१,२४।५३अब्।
ब्रह्मक्षत्त्राश्चविट्शूद्रास्तथान्ये पतिताधमाः ॥ ॥१,२४।५३च्द्।
उद्धूलनन्त्रिपुण्ड्रं च धृत्वाशुद्धाभवन्तिच ॥ ॥१,२४।५४अब्।
भस्मनोविधिना सम्यक्पापराशिंविहाय च ॥ ॥१,२४।५४च्द्।
भस्मधारी विशेषेण स्त्रीगोहत्यादिपातकैः ॥ ॥१,२४।५५अब्।
वीरहत्याश्वहत्याभ्यां मुच्यतेनात्र संशयः ॥ ॥१,२४।५५च्द्।
परद्रव्यापहरणं परदाराभिमर्शनम् ॥ ॥१,२४।५६अब्।
परनिन्दा परक्षेत्रहरणं परपीडनम् ॥ ॥१,२४।५६च्द्।
सस्यारामादिहरणं गृहदाहादिकर्म च ॥ ॥१,२४।५७अब्।
गोहिरण्यमहिष्यादितिलकम्बलवाससाम् ॥ ॥१,२४।५७च्द्।
अन्नधान्यजलादीनां नीचेभ्यश्चपरिग्रहः ॥ ॥१,२४।५८अब्।
दशवेश्यामतङ्गीषु वृषलीषु नटीषु च ॥ ॥१,२४।५८च्द्।
रजस्वलासु कन्यासु विधवासु च मैथुनम् ॥ ॥१,२४।५९अब्।
मांसचर्मरसादीनां लवणस्य च विक्रयः ॥ ॥१,२४।५९च्द्।
पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम् ॥ ॥१,२४।६०अब्।
एवमादीन्यसङ्ख्यानि पापानि विधानि च ॥ ॥१,२४।६०च्द्।
सद्य एव विनश्यन्ति त्रिपुण्ड्रस्य च धारणात् ॥ ॥१,२४।६०एफ़्।
शिवद्रव्यापहरणंशिवनिन्दाचकुत्रचित् ॥ ॥१,२४।६१अब्।
निन्दाचशिवभक्तानाम्प्रायश्चित्तैर्नशुद्ध्यति ॥ ॥१,२४।६१च्द्।
रुद्राक्षं यस्य गात्रेषु ललाटे तु त्रिपण्ड्रकम् ॥ ॥१,२४।६२अब्।
सचाण्डालोपिसम्पूज्यस्सर्ववर्णोत्तमोत्तमः ॥ ॥१,२४।६२च्द्।
यानितीर्थानिलोकेस्मिन्गङ्गाद्यास्सरितश्चयोः ॥ ॥१,२४।६३अब्।
स्नातोभवतिसर्वत्रललाटेयस्त्रिपुण्ड्रकम् ॥ ॥१,२४।६३च्द्।
सप्तकोटि महामन्त्राः पञ्चाक्षरपुरस्सराः ॥ ॥१,२४।६४अब्।
तथान्ये कोटिशो मन्त्राः शैवकैवल्यहेतवः ॥ ॥१,२४।६४च्द्।
अन्ये मन्त्राश्च देवानां सर्वसौख्यकरामुने ॥ ॥१,२४।६५अब्।
ते सर्वे तस्य वश्याः स्युर्यो बिभर्ति त्रिपुण्ड्रकम् ॥ ॥१,२४।६५च्द्।
सहस्रं पूर्वजातानां सहस्रं जनयिष्यताम् ॥ ॥१,२४।६६अब्।
स्ववंशजानां ज्ञातीनामुद्धरेद्यस्त्रिपुण्ड्रकृत् ॥ ॥१,२४।६६च्द्।
इह भुक्त्वाखिलान्भोगान्दीर्घायुर्व्याधिवर्जितः ॥ ॥१,२४।६७अब्।
जीवितान्ते च मरणं सुखेनैव प्रपद्यते ॥ ॥१,२४।६७च्द्।
अष्टैश्वर्यगुणोपेतम्प्राप्यदिव्यवपुः शिवम् ॥ ॥१,२४।६८अब्।
दिव्यंविमानमारुह्यदिव्यत्रिदशसेवितम् ॥ ॥१,२४।६८च्द्।
विद्याधराणांसर्वेषाङ्गन्धर्वाणाम्महौजसाम् ॥ ॥१,२४।६९अब्।
इन्द्रादिलोकपालानांलोकेषुचयथाक्रमम् ॥ ॥१,२४।६९च्द्।
भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पदेषु च ॥ ॥१,२४।७०अब्।
ब्रह्मणः पदमासाद्यतत्रकन्याशतंलमेत् ॥ ॥१,२४।७०च्द्।
तत्र ब्रह्मायुषोमानम्भुक्त्वाभोगाननेकशः ॥ ॥१,२४।७१अब्।
विष्णोर्लोकेलभेद्भोगंयावद्ब्रह्मशतात्ययः ॥ ॥१,२४।७१च्द्।
शिवलोकं ततः प्राप्य लब्ध्वेष्टं काममक्षयम् ॥ ॥१,२४।७२अब्।
शिवसायुज्यमाप्नोतिसंशयोनात्रजायते ॥ ॥१,२४।७२च्द्।
सर्वोपनिषदांसारंसमालोक्यमुहुर्मुहुः ॥ ॥१,२४।७३अब्।
इदमेव हि निर्णीतं परं श्रेयस्त्रिपुण्ड्रकम् ॥ ॥१,२४।७३च्द्।
विभूतिन्निन्दतेयोवैब्राह्मणः सोन्यजातकः ॥ ॥१,२४।७४अब्।
यातिचनरकेघोरेयावद्ब्रह्मा चतुर्मुखः ॥ ॥१,२४।७४च्द्।
श्राद्धेयज्ञेजपेहोमेवैश्वदेवेसुरार्चने ॥ ॥१,२४।७५अब्।
धृतत्रिपुण्ड्रःपूतात्मामृत्युञ्जयतिमानवः ॥ ॥१,२४।७५च्द्।
जलस्नानं मलत्यागेभस्मस्नानंसदाशुचि ॥ ॥१,२४।७६अब्।
मन्त्रस्नानंहरेत्पापञ्ज्ञानस्नानेपरम्पदम् ॥ ॥१,२४।७६च्द्।
सर्वतीर्थेषुयत्पुण्यंसर्वतीर्थेषुयत्फलम् ॥ ॥१,२४।७७अब्।
तत्फलंसमवाप्नोतिभस्मस्नानकरोनरः ॥ ॥१,२४।७७च्द्।
भस्मस्नानं परं तीर्थङ्गङ्गास्नानन्दिनेदिने ॥ ॥१,२४।७८अब्।
भस्मरूपीशिवःसाक्षाद्भस्म त्रैलोक्यपावनम् ॥ ॥१,२४।७८च्द्।
नतदूनन्नतद्ध्यानन्नतद्दानञ्जपोनसः ॥ ॥१,२४।७९अब्।
त्रिपुण्ड्रेणविनायेन विप्रेण यदनुष्ठितम् ॥ ॥१,२४।७९च्द्।
वानप्रस्थस्यकन्यानान्दीक्षाहीननृणां तथा ॥ ॥१,२४।८०अब्।
मध्याह्नात्प्राग्जलैर्युक्तम्परतोजलवर्जितम् ॥ ॥१,२४।८०च्द्।
एवं त्रिपुण्ड्रं यः कुर्यान्नित्यन्नियतमानसः ॥ ॥१,२४।८१अब्।
शिवभक्तः सविज्ञेयो भुक्तिमुक्तिं च विन्दति ॥ ॥१,२४।८१च्द्।
यस्याङ्गेनैवरुद्राक्ष एकोपिबहुपुण्यदः ॥ ॥१,२४।८२अब्।
तस्यजन्मनिरर्थंस्यात्त्रिपुण्ड्ररहितो यदि ॥ ॥१,२४।८२च्द्।
एवन्त्रिपुण्ड्रमाहात्म्यंसमासात्कथितम्मया ॥ ॥१,२४।८३अब्।
रहस्यंसर्वजन्तूनां गोपनीयमिदं त्वया ॥ ॥१,२४।८३च्द्।
तिस्रोरेखाभवन्त्येवस्थानेषुमुनिपुङ्गवाः ॥ ॥१,२४।८४अब्।
ललाटादिषुसर्वेषुयथोक्तेषुबुधैर्मुने ॥ ॥१,२४।८४च्द्।
भ्रुवोर्मध्यंसमारभ्ययावदन्तोभवेद्भ्रुवोः ॥ ॥१,२४।८५अब्।
तावत्प्रमाणंसन्धार्यं ललाटे च त्रिपुण्ड्रकम् ॥ ॥१,२४।८५च्द्।
मध्यमानामिकाङ्गुल्यामध्येतुप्रतिलोमतः ॥ ॥१,२४।८६अब्।
अङ्गुष्ठेन कृतारेखा त्रिपुण्ड्राख्या भिधीयते ॥ ॥१,२४।८६च्द्।
मध्येङ्गुलिभिरादाय तिसृभिर्भस्मयत्नतः ॥ ॥१,२४।८७अब्।
त्रिपुण्ड्रधारयेद्भक्त्याभुक्तिमुक्तिप्रदम्परम् ॥ ॥१,२४।८७च्द्।
तिसृणामपि रेखानां प्रत्येकन्नवदेवताः ॥ ॥१,२४।८८अब्।
सर्वत्राङ्गेषुतावक्ष्येसावधानतया शृणु ॥ ॥१,२४।८८च्द्।
अकारो गार्हपत्याग्निर्भूधर्मश्च रजोगुणः ॥ ॥१,२४।८९अब्।
ऋग्वेदश्च क्रियाशक्तिः प्रातःसवनमेव च ॥ ॥१,२४।८९च्द्।
महदेवश्च रेखायाः प्रथमायाश्च देवता ॥ ॥१,२४।९०अब्।
विज्ञेया मुनिशार्दूलाः शिवदीक्षापरायणैः ॥ ॥१,२४।९०च्द्।
उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा ॥ ॥१,२४।९१अब्।
मध्यन्दिनं च सवनमिच्छाशक्त्यन्तरात्मकौ ॥ ॥१,२४।९१च्द्।
महेश्वरश्च रेखाया द्वितीयायाश्च देवता ॥ ॥१,२४।९२अब्।
विज्ञेयामुनिशार्दूल शिवदीक्षापरायणैः ॥ ॥१,२४।९२च्द्।
मकाराहवनीयौ च परमात्मा तमोदिवौ ॥ ॥१,२४।९३अब्।
ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा ॥ ॥१,२४।९३च्द्।
शिवश्चैव च रेखायास्तृतियायाश्च देवता ॥ ॥१,२४।९४अब्।
विज्ञेयामुनिशार्दूल शिवदीक्षापरायणौ ॥ ॥१,२४।९४च्द्।
एवं नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवताः ॥ ॥१,२४।९५अब्।
त्रिपुण्ड्रं धारयेच्छुद्धो भुक्तिम्मुक्तिं च विन्दति ॥ ॥१,२४।९५च्द्।
इत्युक्ताःस्थानदेवाश्चसर्वाङ्गेषुमुनिश्वर ॥ ॥१,२४।९६अब्।
तेषां सम्बन्धिनोभक्त्यास्थानानिशृणुसाम्प्रतम् ॥ ॥१,२४।९६च्द्।
द्वात्रिंशत्स्थानके वार्धषोडशस्थानकेपि च ॥ ॥१,२४।९७अब्।
अष्टस्थाने तथा चैव पञ्चस्थानेपि नान्यसेत् ॥ ॥१,२४।९७च्द्।
उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोस्तथा ॥ ॥१,२४।९८अब्।
नासावक्त्रगलेष्वेवंहस्तद्वय अतःपरम् ॥ ॥१,२४।९८च्द्।
कूर्परे मणिबन्धेचहृदयेपार्श्वयोर्द्वयोः ॥ ॥१,२४।९९अब्।
नाभौमुष्कद्वयेचैवमूर्वोर्गुल्फेचजानुनि ॥ ॥१,२४।९९च्द्।
जङ्घाद्वयेपदद्वन्द्वेद्वात्रिंशत्स्थानमुत्तमम् ॥ ॥१,२४।१००अब्।
अग्न्यब्भूवायुदिग्देशदिक्पालान्वसुभिः सह ॥ ॥१,२४।१००च्द्।
धराध्रुवश्चसोमश्च अपश्चेवानिलोनलः ॥ ॥१,२४।१०१अब्।
प्रत्यूषश्च प्रभासश्चवसवोष्टप्रकीर्तिताः ॥ ॥१,२४।१०१च्द्।
एतेषान्नाममात्रेणत्रिपुण्ड्रन्धारयेद्बुधाः ॥ ॥१,२४।१०२अब्।
कुर्याद्वाषोडशस्थानेत्रिपुण्ड्रन्तुसमाहितः ॥ ॥१,२४।१०२च्द्।
शीर्षकेचललाटेचकण्ठेचांसद्वयेभुजे ॥ ॥१,२४।१०३अब्।
कूर्परेमणिबन्धेचहृदयेनाभिपार्श्वके ॥ ॥१,२४।१०३च्द्।
पृष्ठेचैवम्प्रतिष्ठाययजेत्तत्राश्विदैवते ॥ ॥१,२४।१०४अब्।
शिवशक्तिन्तथारुद्रमीशन्नारदमेवच ॥ ॥१,२४।१०४च्द्।
वामादिनवशक्तीश्च एताः षोडशदेवताः ॥ ॥१,२४।१०५अब्।
नासत्योदस्रकश्चैव अश्विनौद्वौप्रकीर्तितौ ॥ ॥१,२४।१०५च्द्।
अथवामूर्ध्निकेशेचकर्मयोर्वदनेतथा ॥ ॥१,२४।१०६अब्।
बाहुद्वये च हृदयेनाभ्यामूरुयुगेतथा ॥ ॥१,२४।१०६च्द्।
जानुद्वयेचपदयोः पृष्ठभागे च षोडश ॥ ॥१,२४।१०७अब्।
शिवश्चन्द्रश्च रुद्रःको विघ्नेशोविष्णुरेव वा ॥ ॥१,२४।१०७च्द्।
श्रीश्चैवहृदयेशम्भुस्तथानाभौप्रजापतिः ॥ ॥१,२४।१०८अब्।
नागश्चनागकन्याश्च उभयोरृषिकन्यकाः ॥ ॥१,२४।१०८च्द्।
पादयोश्चसमुद्राश्चतीर्थाः पृष्ठे विशालतः ॥ ॥१,२४।१०९अब्।
इत्येव षोडश स्थानमथोच्यते ॥ ॥१,२४।१०९च्द्।
गुह्यस्थानं ललाटश्च कर्णद्वयमनुत्तमम् ॥ ॥१,२४।११०अब्।
अंसयुग्मं च हृदयं नाभिरित्येवमष्टकम् ॥ ॥१,२४।११०च्द्।
ब्रह्मा च ऋषयः सप्तदेवताश्चप्रकीर्तिताः ॥ ॥१,२४।१११अब्।
इत्येवं तु समुद्दिष्टं भस्मविद्भिर्मुनीश्वराः ॥ ॥१,२४।१११च्द्।
अथ वा मस्तकं बाहूहृदयं नाभिरेव च ॥ ॥१,२४।११२अब्।
पञ्चस्थानान्यमून्याहुर्धारणे भस्मविज्जनाः ॥ ॥१,२४।११२च्द्।
यथासम्भवनं कुर्याद्देशकालाद्यपेक्षया ॥ ॥१,२४।११३अब्।
उद्धूलनेप्यशक्तिश्चेत्त्रिपुण्ड्रादीनि कारयेत् ॥ ॥१,२४।११३च्द्।
त्रिनेत्रन्त्रिगुणाधारन्त्रिवेदजनकंशिवम् ॥ ॥१,२४।११४अब्।
स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम् ॥ ॥१,२४।११४च्द्।
ईशाभ्यान्नम इत्युक्त्वापार्श्वयोश्च त्रिपुण्ड्रकम् ॥ ॥१,२४।११५अब्।
बीजाभ्यां नम इत्युक्त्वाधारयेत्तुप्रकोष्ठयोः ॥ ॥१,२४।११५च्द्।
कुर्यादधः पितृभ्यां च उमेशाभ्यान्तथोपरि ॥ ॥१,२४।११६अब्।
भीमायेतिततःपृष्ठेशिरसःपश्चिमेतथा ॥ ॥१,२४।११६च्द्।

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां भस्मधारणवर्णनोनाम चतुर्विंशो ऽध्यायः