२३ साध्यसाधनखण्डेशिवनममाहात्म्यवर्णनः

ऋषय ऊचुः
सूतसूतमहाभागव्यासशिष्यनमोस्तुते ॥ ॥१,२३।१अब्।
तदेवव्यासतोब्रूहिभस्ममाहात्म्यमुत्तमम् ॥ ॥१,२३।१च्द्।
तथा रुद्राक्षमाहात्म्यं नाम माहात्म्यमुत्तमम् ॥ ॥१,२३।२अब्।
त्रितयं ब्रूहिसुप्रीत्याममानन्दयचेतसम् ॥ ॥१,२३।२च्द्।
सूत उवाच
साधुपृष्टम्भवद्भिश्चलोकानांहितकारकम् ॥ ॥१,२३।३अब्।
भवन्तोवैमहाधन्याः पवित्राः कुलभूषणाः ॥ ॥१,२३।३च्द्।
येषाञ्चैवशिवःसाक्षाद्दैवतम्परमंशुभम् ॥ ॥१,२३।४अब्।
सदाशिवकथालोकेवल्लभाभवतां सदा ॥ ॥१,२३।४च्द्।
तेधन्याश्चकृतार्थाश्चसफलन्देहधारणम् ॥ ॥१,२३।५अब्।
उद्धृतञ्चकुलन्तेषांयेशिवंसमुपासते ॥ ॥१,२३।५च्द्।
मुखेयस्यशिवनामसदाशिवशिवेतिच ॥ ॥१,२३।६अब्।
पापानिनस्पृशन्त्येवखदिराङ्गारङ्कयथा ॥ ॥१,२३।६च्द्।
श्रीशिवायनमस्तुभ्यम्मुखंव्याहरतेयदा ॥ ॥१,२३।७अब्।
तन्मुखम्पावनन्तीर्थंसर्वपापविनाशनम् ॥ ॥१,२३।७च्द्।
तन्मुखञ्चतथायोवैपश्यतिप्रीतिमान्नरः ॥ ॥१,२३।८अब्।
तीर्थजन्यम्फलन्तस्यभवतीतिसुनिश्चितम् ॥ ॥१,२३।८च्द्।
यत्रत्रयंसदातिष्ठेदेतच्छुभतरन्द्विजा ॥ ॥१,२३।९अब्।
तस्यदर्शनमात्रेणवेणीस्नानफलंलभेत् ॥ ॥१,२३।९च्द्।
शिवनामविभूतिश्चतथारुद्राक्ष एव च ॥ ॥१,२३।१०अब्।
एतत्त्रयम्महापुण्यन्त्रिवेणीसदृशंस्मृतम् ॥ ॥१,२३।१०च्द्।
एतत्त्रयंशरीरेचयस्यतिष्ठतिनित्यशः ॥ ॥१,२३।११अब्।
तस्यैवदर्शनंलोकेदुर्लभम्पापहारकम् ॥ ॥१,२३।११च्द्।
तद्दर्शनंयथावेणीनोभयोरन्तरम्मनाक् ॥ ॥१,२३।१२अब्।
एवंयोनविजानातिसपापिष्ठोनसंशयः ॥ ॥१,२३।१२च्द्।
विभूतिर्यस्यनोभालेनाङ्गेरुद्राक्षधारणम् ॥ ॥१,२३।१३अब्।
नास्ये शिवमयीवाणीतन्त्यजेदधमंयथा ॥ ॥१,२३।१३च्द्।
शैवन्नामयथागङ्गाविभूतिर्यमुनामता ॥ ॥१,२३।१४अब्।
रुद्राक्षं विधिजाप्रोक्तासर्वपापाविनाशिनी ॥ ॥१,२३।१४च्द्।
शरीरेचत्रयंयस्यतत्फलञ्चैकतःस्थितम् ॥ ॥१,२३।१५अब्।
एकतोवेणिकायाश्चस्नानजन्तुफलम्बुधैः ॥ ॥१,२३।१५च्द्।
तदेवन्तुलितम्पूर्वम्ब्रह्मणाहितकारिणा ॥ ॥१,२३।१६अब्।
समानं चैवतज्जातन्तस्माद्धार्यंसदाबुधैः ॥ ॥१,२३।१६च्द्।
तद्दिनंहिसमारभ्यब्रह्मविष्ण्वादिभिःसरैः ॥ ॥१,२३।१७अब्।
धार्यते त्रितयन्तच्चदर्शनात्पापहारकम् ॥ ॥१,२३।१७च्द्।
ऋष्य ऊचुः
ईदृशंहिफलम्प्रोक्तन्नामादित्रितयोद्भवम् ॥ ॥१,२३।१८अब्।
तन्माहात्म्यंविशेषेणवक्तुमर्हसिसुव्रत ॥ ॥१,२३।१८च्द्।
सूत उवाच
ऋषयोहिमहाप्राज्ञाः सच्छैवाज्ञानिनाम्मराः ॥ ॥१,२३।१९अब्।
तन्माहात्म्यंहिसद्भक्त्याशृणुतादरतोद्विजाः ॥ ॥१,२३।१९च्द्।
सुगूढमपि शास्त्रेषुपुराणेश्रुतिष्वपि ॥ ॥१,२३।२०अब्।
भवत्स्नेहान्मया विप्राःप्रकाशः क्रियते ऽधुना ॥ ॥१,२३।२०च्द्।
कस्तत्त्रितयमाहात्म्यंसञ्जानातिद्विजोत्तमाः ॥ ॥१,२३।२१अब्।
महेश्वरंविनासर्वम्ब्रह्माण्डेसदसत्परम् ॥ ॥१,२३।२१च्द्।
वच्म्यहन्नाममाहात्म्यंयथाभक्तिसमासतः ॥ ॥१,२३।२२अब्।
शृणुतप्रीतितोविप्राः सर्वपापहरम्परम् ॥ ॥१,२३।२२च्द्।
शिवेतिनामदावाग्नेर्महापातकपर्वताः ॥ ॥१,२३।२३अब्।
भस्मीभवन्त्यनायासात्सत्यंसत्यन्नसंशयः ॥ ॥१,२३।२३च्द्।
पापमूलानि दुःखानिविविधान्यपिशौनक ॥ ॥१,२३।२४अब्।
शिवनामैकनश्यानिनान्यनश्यानिसर्वथा ॥ ॥१,२३।२४च्द्।
सवैदिकः सपुण्यात्मासधन्यस्सबुधोमतः ॥ ॥१,२३।२५अब्।
शिवनामजपासक्तोयोनित्यम्भुविमानव ॥ ॥१,२३।२५च्द्।
भवन्तिविविधाधर्मास्तेषांसद्यःफलोन्मुखाः ॥ ॥१,२३।२६अब्।
येषाम्भवतिविश्वासःशिवनामजपेमुने ॥ ॥१,२३।२६च्द्।
पातकानिविनश्यन्तियावन्तिशिवनामतः ॥ ॥१,२३।२७अब्।
भुवितावन्तिपापानिक्रियन्तेननरैर्मुने ॥ ॥१,२३।२७च्द्।
ब्रह्महत्यादिपापानांराशीनप्रमितान्मुने ॥ ॥१,२३।२८अब्।
शिवनामद्रुतम्प्रोक्तन्नाशयत्यखिलान्नरैः ॥ ॥१,२३।२८च्द्।
शिवनामतरीम्प्राप्यसंसाराब्धिन्तरन्तिये ॥ ॥१,२३।२९अब्।
संसारमूलपापानितानिनश्यन्त्यसंशयम् ॥ ॥१,२३।२९च्द्।
संसारमूलभूतानाम्पातकानाम्महामुने ॥ ॥१,२३।३०अब्।
शिवनामकुठारेणविनाशोजायतेध्रुवम् ॥ ॥१,२३।३०च्द्।
शिवनामामृतम्पेयम्पापदावानलार्दितैः ॥ ॥१,२३।३१अब्।
पापदावाग्नितप्तानांशान्तिस्तेनविनानहि ॥ ॥१,२३।३१च्द्।
शिवेतिनामपीयूषवर्षवर्षधारापरिप्लुताः ॥ ॥१,२३।३२अब्।
संसारदवमध्येपिनशोचन्तिकदाचन ॥ ॥१,२३।३२च्द्।
शिवनाम्निमहद्भक्तिर्जातायेषाम्महात्मनाम् ॥ ॥१,२३।३३अब्।
तद्विधानान्तुसहसामुक्तिर्भवतिसर्वथा ॥ ॥१,२३।३३च्द्।
अनेकजन्मभिर्येनतपस्तप्तम्मुनीश्वर ॥ ॥१,२३।३४अब्।
शिवनाम्निभवेद्भक्तिःसर्वपापापहारिणी ॥ ॥१,२३।३४च्द्।
यस्या साधारणं शम्भुनाम्निभक्तिरखण्डिता ॥ ॥१,२३।३५अब्।
तस्यैवमोक्षः सुलभोनान्यस्येतिमतिर्मम ॥ ॥१,२३।३५च्द्।
कृत्वाप्यनेकपापानिशिवनामजपादरः ॥ ॥१,२३।३६अब्।
सर्वपापविनिर्मुक्तोभवत्येवनसंशयः ॥ ॥१,२३।३६च्द्।
भवन्तिभस्मसाद्वृक्षादवदग्धायथावने ॥ ॥१,२३।३७अब्।
तथातावन्तिदग्धानिपापानिशिवनामतः ॥ ॥१,२३।३७च्द्।
योनित्यम्भस्मपूताङ्गः शिवनामजपादरः ॥ ॥१,२३।३८अब्।
सन्तरत्येवसंसारंसघोरमपिशौनक ॥ ॥१,२३।३८च्द्।
ब्रह्मस्वहरणङ्कृत्वाहत्वापिब्राह्मणान्बहून् ॥ ॥१,२३।३९अब्।
नलिप्यतेनरः पापैःशिवनामजपादरः ॥ ॥१,२३।३९च्द्।
विलोक्यवेदानखिलाञ्छिवनामजपःपरम् ॥ ॥१,२३।४०अब्।
संसारतारणोपाय इतिपूर्वैर्विनिश्चितः ॥ ॥१,२३।४०च्द्।
किम्बहूक्त्यामुनिश्रेष्ठाः श्लोकेनैकेनवच्म्यहम् ॥ ॥१,२३।४१अब्।
शिवनाम्नोमहिमानंसर्वपापापहारिणम् ॥ ॥१,२३।४१च्द्।
पापानांहरणेशम्भोर्नामः शक्तिर्हिपावनी ॥ ॥१,२३।४२अब्।
शक्नोतिपातकन्तावत्कर्तुन्नापिनरः क्वचित् ॥ ॥१,२३।४२च्द्।
शिवनामप्रभावेणलेभेसद्गतिमुत्तमाम् ॥ ॥१,२३।४३अब्।
इन्द्रद्युम्ननृपःपूर्वम्महापापः पुरामुने ॥ ॥१,२३।४३च्द्।
तथाकाचिद्द्विजायोषासौमुनेबहुपापिनी ॥ ॥१,२३।४४अब्।
शिवनामप्रभावेणलेभेसद्गतिमुत्तमाम् ॥ ॥१,२३।४४च्द्।
इत्युक्तंवोद्विजश्रेष्ठानाममाहात्म्यमुत्तमम् ॥ ॥१,२३।४५अब्।
शृणुध्वम्भस्ममाहात्म्यंसर्वपावनपावनम् ॥ ॥१,२३।४५च्द्।

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डेशिवनममाहात्म्यवर्णनोनामत्रयोविंशो ऽध्यायः