२२ शिवनैवेद्यवर्णनः

ऋष्य ऊचुः
अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः ॥ ॥१,२२।१अब्।
ब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने ॥ ॥१,२२।१च्द्।
सूत उवाच
शृणुध्वम्मुनयःसर्वेसावधानतयाधुना ॥ ॥१,२२। २अब्।
सर्वंवदामिसम्प्रीत्या धन्या यूयं शिवव्रताः ॥ ॥१,२२।२च्द्।
शिवभक्तः शुचिः शुद्धः सद्व्रतीदृढनिश्चयः ॥ ॥१,२२।३अब्।
भक्षयेच्छिवनैवेद्यन्त्यजेदग्राह्यभावनाम् ॥ ॥१,२२।३च्द्।
दृष्ट्वापि शिवनैवेद्ये यान्ति पापानि दूरतः ॥ ॥१,२२।४अब्।
भक्तेतुशिवनैवेद्येपुण्यान्या यान्तिकोटिशः ॥ ॥१,२२।४च्द्।
अलं यागसहस्रेणाप्यलं यागार्बुदैरपि ॥ ॥१,२२।५अब्।
भक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात् ॥ ॥१,२२।५च्द्।
यद्गृहेशिवनैवेद्यप्रचारोपिप्रजायते ॥ ॥१,२२।६अब्।
तद्गृहम्पावनंसर्वमन्यपावनकारणम् ॥ ॥१,२२।६च्द्।
आगतं शिवनैवेद्यं गृहीत्वा शिरसामुदा ॥ ॥१,२२।७अब्।
भक्षणीयम्प्रयत्ने न शिवस्मरणपूर्वकम् ॥ ॥१,२२।७च्द्।
आगतं शिवनैवेद्यमन्यदा ग्राह्यमित्यपि ॥ ॥१,२२।८अब्।
विलम्बेपापसम्बन्धोभवत्येव हि मानवे ॥ ॥१,२२।८च्द्।
न यस्य शिवनैवेद्यग्रहणेच्छाप्रजायते ॥ ॥१,२२।९अब्।
सपापिष्ठोगरिष्ठःस्यान्नरकंयात्यपिध्रुवम् ॥ ॥१,२२।९च्द्।
हृदये चन्द्रकान्ते च स्वर्णरूप्यादिनिर्मिते ॥ ॥१,२२।१०अब्।
शिवदीक्षावताभक्तेनेदम्भक्ष्यमितीर्यते ॥ ॥१,२२।१०च्द्।
शिवदीक्षान्वितोभक्तो महाप्रसादसञ्ज्ञकम् ॥ ॥१,२२।११अब्।
सर्वेषामपि लिङ्गानां नैवेद्यं भक्षयेच्छुभम् ॥ ॥१,२२।११च्द्।
अन्यदीक्षायुजान्न्ःणांशिवभक्तिरतात्मनाम् ॥ ॥१,२२।१२अब्।
शृणुध्वन्निर्णयम्प्रीत्याशिवनैवेद्यभक्षणे ॥ ॥१,२२।१२च्द्।
शालग्रामोद्भवे लिङ्गे रसलिङ्गेतथा द्विजाः ॥ ॥१,२२।१३अब्।
पाषाणे राजतेस्वर्णेसुरसिद्धप्रतिष्ठिते ॥ ॥१,२२।१३च्द्।
काश्मीरे स्फाटिकेरात्ने ज्योतिर्लिङ्गेषु सर्वशः ॥ ॥१,२२।१४अब्।
चान्द्रायणसमं प्रोक्तं शम्भोर्नैवेद्यभक्षणम् ॥ ॥१,२२।१४च्द्।
ब्रह्महापि शुचिर्भूत्वा निर्माल्यंयस्तुधारयेत् ॥ ॥१,२२।१५अब्।
भक्षयित्वाद्रुतन्तस्यसर्वपापं प्रणश्यति ॥ ॥१,२२।१५च्द्।
चण्डाधिकारोयत्रास्तितद्भाक्तव्यन्नमानवैः ॥ ॥१,२२।१६अब्।
चण्डाधिकारोनोयत्रभोक्तव्यन्तच्चभक्तितः ॥ ॥१,२२।१६च्द्।
बाणलिङ्गेचलौहेचसिद्धेलिङ्गेस्वयम्भुवि ॥ ॥१,२२।१७अब्।
प्रतिमासुचसर्वासुनचण्डोधिकृतोभवेत् ॥ ॥१,२२।१७च्द्।
स्नापयित्वाविधानेनयोलिङ्गस्नापनोदकम् ॥ ॥१,२२।१८अब्।
त्रिःपिबेत्त्रिविधम्पापन्तस्येहाशु विनश्यति ॥ ॥१,२२।१८च्द्।
अग्राह्यंशिवनैवेद्यं पत्रम्पुष्पम्फलञ्जलम् ॥ ॥१,२२।१९अब्।
शालग्रामशिलासङ्गात्सर्वं याति पवित्रिताम् ॥ ॥१,२२।१९च्द्।
लोङ्गोपरि च यद्द्रव्यन्तदग्राह्यं मुनीश्वराः ॥ ॥१,२२।२०अब्।
सुपवित्रं च तज्ज्ञेयं यल्लिङ्गस्पर्शबाह्यतः ॥ ॥१,२२।२०च्द्।
नैवेद्यनिर्णयःप्रोक्त इत्थंवोमुनिसत्तमाः ॥ ॥१,२२।२१अब्।
शृणुध्वं बिल्वमाहात्म्यं सावधानतया ऽदरात् ॥ ॥१,२२।२१च्द्।
महादेवस्वरूपोयं बिल्वोदेवैरपिस्तुतिः ॥ ॥१,२२।२२अब्।
यथाकथञ्चिदेतस्यमहिमाज्ञायतेकथम् ॥ ॥१,२२।२२च्द्।
पुण्यतीर्थानियावन्तिलोकेषुप्रथितान्यपि ॥ ॥१,२२।२३अब्।
तानिसर्वाणितीर्थानिबिल्वमूलेवसन्तिहि ॥ ॥१,२२।२३च्द्।
बिल्वमूले महादेवं लिङ्गरूपिणमव्ययम् ॥ ॥१,२२।२४अब्।
यः पूजयति पुण्यात्मा स शिवं प्राप्नुयाद्ध्रुवम् ॥ ॥१,२२।२४च्द्।
बिल्वमूले जलैर्यस्तु मूर्धानमभिषिञ्चति ॥ ॥१,२२।२५अब्।
स सर्वतीर्थस्नातःस्यात्स एव भुवि पावनः ॥ ॥१,२२।२५च्द्।
एतस्यबिल्वमूलस्याथालवालमनुत्तमम् ॥ ॥१,२२।२६अब्।
जलाकुलम्महादेवोदृष्ट्वातुष्टोभवत्यलम् ॥ ॥१,२२।२६च्द्।
पूजयेद्विल्वमूलं यो गन्धपुष्पादिभिर्नरः ॥ ॥१,२२।२७अब्।
शिवलोकमवाप्नोतिसन्ततिर्वर्धते सुखम् ॥ ॥१,२२।२७च्द्।
बिल्वमूले दीपमालांयः कल्पयति सादरम् ॥ ॥१,२२।२८अब्।
सतत्त्वज्ञानसम्पन्नोमहेशान्तर्गतोभवेत् ॥ ॥१,२२।२८च्द्।
बिल्वशाखां समादाय हस्तेन नवपल्लवम् ॥ ॥१,२२।२९अब्।
गृहीत्वापूजयेद्बिल्वंसचपापैः प्रमुच्यते ॥ ॥१,२२।२९च्द्।
बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः ॥ ॥१,२२।३०अब्।
एकंवाकोटिगुणितन्तस्यपुण्यम्प्रजायते ॥ ॥१,२२।३०च्द्।
बिल्वमूले क्षीरमुक्तमन्नमाज्येन संयुतम् ॥ ॥१,२२।३१अब्।
यो दद्याच्छिवभक्ताय स दरिद्रो न जायते ॥ ॥१,२२।३१च्द्।
साङ्गोपाङ्गमिति प्रोक्तं शिवलिङ्गप्रपूजनम् ॥ ॥१,२२।३२अब्।
प्रवृत्तानां निवृत्तानां भेदतो द्विविधं द्विजाः ॥ ॥१,२२।३२च्द्।
प्रवृत्तानां पीठपूजां सर्वपूजां समाचरेत् ॥ ॥१,२२।३३अब्।
अभिषेकान्ते नैवेद्यं शाल्यन्नेन समाचरेत् ॥ ॥१,२२।३४अब्।
पूजान्ते स्थापयेल्लिङ्गं पुटे शुद्धे पृथग्गृहे ॥ ॥१,२२।३४च्द्।
करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् ॥ ॥१,२२।३५अब्।
निवृत्तानां परंसूक्ष्मं लिङ्गमेव विशिष्यते ॥ ॥१,२२।३५च्द्।
विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ॥ ॥१,२२।३६अब्।
पूजां कृत्वा तथा लिङ्गंशिरसाधारयेत्सदा ॥ ॥१,२२।३६च्द्।

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनैवेद्यवर्णनोनामद्वाविंशो ऽध्यायः